मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९७

3
काशीखण्डः · 97

क्षेत्रतीर्थवर्णनम्

अगस्त्य उवाच

एतद्भविष्यं श्रुत्वाहं व्यासस्य शिवनंदन ॥

आश्चर्यभाजनं जातस्तीर्थानि कथयाधुना

॥१॥

आनंदकानने यानि यत्र संति षडानन ॥

तानि लिंगस्वरूपाणि समाचक्ष्व ममाग्रतः

॥२॥

स्कंद उवाच

अयमेव हि वै प्रश्नो देव्यै देवेन भोस्तदा ॥

यादृशः कथितो वच्मि तादृशं शृणु कुंभज

॥३॥

देव्युवाच

यानि यानि हि तीर्थानि यत्रयत्र महेश्वर ॥

तानि तानीह मे काश्यां तत्रतत्र वद प्रभो

॥४॥

देवदेव उवाच

शृणु देवि विशालाक्षि तीर्थं लिंगमुदाहृतम् ॥

जलाशयेपि तीर्थाख्या जाता मूर्ति परिग्रहात्

॥५॥

मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः ॥

लिंगं शैवमिति ख्यातं यत्रैतत्तीर्थमेव तत्

॥६॥

वाराणस्यां महादेवः प्रथमं तीर्थमुच्यते ॥

तदुत्तरे महाकूपः सारस्वतपदप्रदः

॥७॥

क्षेत्रपूर्वोत्तरेभागे तद्दृष्टं पशुपाशहृत् ॥

तत्पश्चाद्विग्रहवती पूज्या वाराणसी नरैः

॥८॥

सा पूजिता प्रयत्नेन सुखवस्तिप्रदा सदा ॥

महादेवस्य पूर्वेण गोप्रेक्षं लिंगमुत्तमम्

॥९॥

तद्दर्शनाद्भवेत्सम्यग्गोदानजनितं फलम् ॥

गोलोकात्प्रेषिता गावः पूर्वं यच्छंभुना स्वयम्

॥१०॥

वाराणसीं समायाता गोप्रेक्षं तत्ततः स्नृतम् ॥

गोप्रेक्षाद्दक्षिणेभागे दधीचीश्वरसंज्ञितम् ॥

तद्दर्शनाद्भवेत्पुंसां फलं यज्ञसमुद्भवम् ॥

अत्रीश्वरं तु तत्प्राच्यां मधुकैटभपूजितम्

॥१२॥

लिंगं दृष्ट्वा प्रयत्नेन वैष्णवं पदमृच्छति ॥

गोप्रेक्षात्पूर्वदिग्भागे लिंगं वै विज्वरं स्मृतम्

॥१३॥

तस्य संपूजनान्मर्त्यो विज्वरो जायते क्षणात् ॥

प्राच्यां वेदेश्वरस्तस्य चतुर्वेदफलप्रदः

॥१४॥

वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः ॥

दृष्टं त्रिभुवनं सर्वं तस्य संदर्शनाद्ध्रुवम्

॥१५॥

संगमेश्वरमालोक्य तत्प्राच्याम जायतेनघः ॥

चतुर्मुखेन विधिना तत्पूर्वेण चतुर्मुखम्

॥१६॥

प्रयागसंज्ञकम लिंगमर्चितम ब्रह्मलोकदम् ॥

तत्र शांतिकरी गौरी पूजिता शांतिकृद्भवेत्

॥१७॥

वरणायास्तटे पूर्वे पूज्यं कुंतीश्वरं नृभिः ॥

तत्पूजनात्प्रजायंते पुत्रा निजकुलोज्ज्वलाः

॥१८॥

कुंतीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः ॥

तत्र वै स्नानमात्रेण वृषभध्वजपूजनात् ॥

राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् ॥

रोरवादिषु ये केचित्पितरः कोटिसंमिताः

॥२०॥

तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयांति ते ॥

आनुसूयेश्वरं लिंगं गोप्रेक्षादुत्तरे मुने

॥२१॥

तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम् ॥

तल्लिंगपूर्वदिग्भागे पूज्यः सिद्धिविनायकः

॥२२॥

यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः ॥

हिरण्यकशिपोर्लिंगं गणेशात्पश्चिमे ततः

॥२३॥

हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत्

॥२४॥

मुंडासुरेश्वरं लिंगं तत्प्रतीच्यां च सिद्धिदम् ॥

अभीष्टदं तु नैर्ऋत्यां गोप्रेक्षाद्वृषभेश्वरम्

॥२५॥

मुने स्कंदेश्वरं लिंगं महादेवस्य पश्चिमे ॥

तल्लिंगपूजनान्नृणां भवेन्मम सलोकता

॥२६॥

तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै ॥

नैगमेयेश्वरस्तत्र येन्ये नंद्यादयो गणाः

॥२७॥

तेषामपि हि लिंगानि तत्र संति सहस्रशः ॥

तद्दर्शनाद्भवेत्पुंसां तत्तद्गणसलोकता

॥२८॥

नंदीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः ॥

महाबलप्रदस्तत्र हिरण्याक्षेश्वरः शुभः

॥२९॥

तद्दक्षिणेट्टहासाख्यं लिंगं सर्वसुखप्रदम् ॥

प्रसन्नवदनेशाख्यं लिंगं तस्योत्तरे शुभम्

॥३०॥

प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात् ॥

तदुत्तरे प्रसन्नोदं कुंडं नैर्मल्यदं नृणाम्

॥३१॥

प्रतीच्यामट्टहासस्य मित्रावरुणनामनी ॥

लिंगे तल्लोकदे पूज्ये महापातकहारिणी

॥३२॥

नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसंज्ञकम् ॥

लिंगं तत्पूजनात्पुंसां ज्ञानमुत्पद्यते महत्

॥३३॥

वसिष्ठेश समीपस्थः कृष्णेशो विष्णुलोकदः ॥

तद्याम्यां याज्ञवल्क्येशो ब्रह्मतेजोविवधर्नः

॥३४॥

प्रह्लादेश्वरमभ्यर्च्य तत्पश्चाद्भक्तिवर्धनम् ॥

स्वयंलीनः शिवो यत्र भक्तानुग्रहकाम्यया

॥३५॥

अतः स्वलीनं तत्पूर्वे लिंगं पूज्यं प्रयत्नतः ॥

सदैव ज्ञाननिष्ठानां परमानंदमिच्छताम् ॥

या गतिर्विहिता तेषां स्वलीने सा तनुत्यजाम्

॥३६॥

वैरोचनेश्वरं लिंगं स्वलीनात्पुरतः स्थितम् ॥

तदुत्तरे बलीशं च महाबलविवर्धनम्

॥३७॥

तत्रैव लिंगं बाणेशं पूजितं सर्वकामदम् ॥

चंद्रेश्वरस्य पूर्वेण लिंगं विद्येश्वराभिधम्

॥३८॥

सर्वाविद्याः प्रसन्नाः स्युस्तस्य लिंगस्य सेवनात् ॥

तद्दक्षिणे तु वीरेशो महासिद्धि विधायकः

॥३९॥

तत्रैव विकटा देवी सर्वदुःखौघमोचनी ॥

पंचमुद्रं महापीठं तज्ज्ञेयं सर्वसिद्धिदम्

॥४०॥

तत्र जप्ता महामंत्राः क्षिप्रं सिध्यंति नान्यथा ॥

तत्पीठे वायुकोणे तु संपूज्यः सगरेश्वरः

॥४१॥

तदर्चनादश्वमेधफलं त्वविकलं भवेत् ॥

तदीशाने च वालीशस्तिर्यग्योनि निवारकः

॥४२॥

महापापौघविध्वंसी सुग्रीवेशस्तदुत्तरे ॥

हनूमदीश्वरस्तत्र ब्रह्मचर्यफलप्रदः

॥४३॥

महाबुद्धिप्रदस्तत्र पूज्यो जांबवतीश्वरः ॥

आश्विने येश्वरौ पूज्यौ गंगायाः पश्चिमे तटे

॥४४॥

तदुत्तरे भद्रह्रदो गवां क्षीरेण पूरितः ॥

कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम्

॥४५॥

तत्फलं लभते मर्त्यः स्नातो भद्रह्रदे ध्रुवम् ॥

पूर्वाभाद्रपदा युक्ता पौर्णमासी यदा भवेत्

॥४६॥

तदा पुण्यतमः कालो वाजिमेधफलप्रदः ॥

ह्रद पश्चिम तीरे तु भद्रेश्वर विलोकनात्

॥४७॥

गोलोकं प्राप्नुयात्तस्मात्पुण्यान्नैवात्र संशयः ॥

भद्रेश्वराद्यातुधान्यामुपशांत शिवो मुने

॥४८॥

तस्य लिंगस्य संस्पर्शात्परा शांतिं समृच्छति ॥

उपशांत शिवं लिंगं दृष्ट्वा जन्मशतार्जितम्

॥४९॥

त्यजेदश्रेयसो राशिं श्रेयोराशिं च विंदति ॥

तदुत्तरे च चक्रेशो योनिचक्र निवारकः

॥५०॥

तदुत्तरे चक्रह्रदो महापुण्यविवर्धनः ॥

स्नात्वा चक्रह्रदे मर्त्यश्चक्रेशं परिपूज्य च

॥५१॥

शिवलोकमवाप्नोति भावितेनांतरात्मना ॥

तन्नैर्ऋते च शूलेशो द्रष्टव्यश्च प्रयत्नतः

॥५२॥

शूलं तत्र पुरा न्यस्तं स्नानार्थं वरवर्णिनि ॥

ह्रदस्तत्र समुत्पन्नः शूलेशस्याग्रतो महान्

॥५३॥

स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम् ॥

रुद्रलोकं नरा यांति त्यक्त्वा संसारगह्वरम्

॥५४॥

तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम् ॥

लिंगं च स्थापितं श्रेष्ठं कुंडं चापि शुभं कृतम्

॥५५॥

तत्र कुंडे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम् ॥

संसाराब्धिमहाघोरं संतरेन्नात्र संजयः

॥५६॥

नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम् ॥

निर्मलां गतिमाप्नोति पापौघं च विमुंचति

॥५७॥

तदग्रे ताम्रकुंडं च तत्र स्नातो न गर्भभाक् ॥

विघ्नहर्ता गणाध्यक्षस्तद्वायव्ये सुविघ्नहृत्

॥५८॥

तत्र विघ्नहरं कुंडं तत्र स्नातो न विघ्नभाक् ॥

अनारकेश्वरं लिंगं तदुदग्दिशि चोत्तमम्

॥५९॥

कुंडं चानारकाख्यं वै तत्र स्नातो न नारकी ॥

वरणायास्तटे रम्ये वरणेशस्तदुत्तरे

॥६०॥

तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने ॥

अनेनैव शरीरेण शाश्वतीं सिद्धिमागतः

॥६१॥

तत्पश्चिमे च शैलेशः परनिर्वाणकामदः ॥

कोटीश्वरं तु तद्याम्यां लिंगं शाश्वतसिद्धिदम्

॥६२॥

कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च ॥

गवां कोटिप्रदानस्य फलमाप्नोति मानवः

॥६३॥

महाश्मशानस्तंभोस्ति कोटीशाद्वह्निदिक्स्थितः ॥

तस्मिन्स्तंभे महारुद्रस्तिष्ठते चोमया सह

॥६४॥

तं स्तंभं समलंकृत्य नरस्तत्पदमाप्नुयात् ॥

तत्रैव तीर्थं परमं कपालेश समीपतः

॥६५॥

कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक् ॥

ऋणमोचनतीर्थं तु तदुदग्दिशि शोभनम्

॥६६॥

तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः ॥

तत्रैवांगारकं तीर्थं कुंडं चांगारनिर्मलम्

॥६७॥

स्नात्वांगारक तीर्थे तु भवेद्भूयो न गर्भभाक् ॥

अंगारवारयुक्तायां चतुर्थ्यां स्नाति यो नरः ॥

व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन

॥६८॥

विश्वकर्मेश्वरं लिंगं ज्ञानदं च तदुत्तरे ॥

महामुंडेश्वरं लिंगं तस्य दक्षिणतः शुभम्

॥६९॥

कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् ॥

तत्र मुंडमयी माला मया क्षिप्तातिशोभना

॥७०॥

महामुंडा ततो देवी समुत्पन्नाघहारिणी ॥

खट्वांगं च धृतं तत्र खट्वांगेशस्ततोभवत्

॥७१॥

निष्पापो जायते मर्त्यः खट्वांगेश विलोकनात् ॥

भुवनेशस्ततो याम्यां कुंडं च भुवनेश्वरम्

॥७२॥

तत्र कुंडे नरः स्नातो भुवने शोभवेन्नरः ॥

तद्याम्यां विमलेशश्च कुंडं च विमलोदकम्

॥७३॥

तत्र स्नात्वा विलोक्येशं विमलो जायते नरः ॥

तत्र पाशुपतः सिद्धस्त्र्यंबको नाम नामतः

॥७४॥

अनेनैव शरीरेण रुद्रलोकमवाप्तवान् ॥

भृगोरायतनं तस्य पश्चिमेऽतीव पुण्यदम्

॥७२॥

विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमंदिरम् ॥

शुभेश्वरश्च तद्याम्यां महाशुभफलप्रदः

॥७६॥

तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः ॥

तत्रास्ति हि गुहा रम्या कपिलेश्वर संनिधौ

॥७७॥

तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित् ॥

तत्र यज्ञोदकूपोस्ति वाजिमेधफलप्रदः

॥७८॥

ओंकार एष एवासावादिवर्णमयात्मकः ॥

मत्स्योदर्युत्तरे कूले नादेशस्त्वहमेव च

॥७९॥

नादेशः परमं ब्रह्म नादेशः परमा गतिः ॥

नादेशः परमं स्थानं दुःखसंसारमोचनम्

॥८०॥

कदाचित्तस्य देवस्य दर्शने याति जाह्नवी ॥

मत्स्योदरी सा कथिता स्नानं पुण्यैरवाप्यते

॥८१॥

मत्स्योदरी यदा गंगा पश्चिमे कपिलेश्वरम् ॥

समायाति महादेवि तदा योगः सुदुर्लभः

॥८२॥

उद्दालकेश्वरं लिंगमुदीच्यां कपिलेश्वरात् ॥

तद्दर्शनेन संसिद्धिः परा सर्वैरवाप्यते

॥८३॥

तदुत्तरे बाष्कुलीशं लिंगं सर्वार्थसिद्धिदम् ॥

बाष्कुलीशाद्दक्षिणतो लिंगं वै कौस्तुभेश्वरम्

॥८४॥

तस्यार्चनेन रत्नौघैर्न वियुज्येत कर्हिचित् ॥

शंकुकर्णेश्वरं लिंगं कौस्तुभेश्वरदक्षिणे

॥८५॥

संसेव्य परमं ज्ञानं लभेदद्यापि साधकः ॥

अघोरेशो गुहाद्वारि कूपस्तस्योत्तरे शुभः

॥८६॥

अघोरोद इति ख्यातो वाजिमेधफलप्रदः ॥

गर्गेशो दमनेशश्च तत्र लिंगद्वयं शुभम्

॥८७॥

अनेनैवेह देहेन यत्र तौ सिद्धिमापतुः ॥

तल्लिंगयोः समर्चातः सिद्धिर्भवति वांछिता

॥८८॥

तद्दक्षिणे महाकुंडं रुद्रावास इति स्मृतम् ॥

तत्र रुद्रेशमभ्यर्च्य कोटिरुद्रफलं लभेत्

॥८९॥

चतुर्दशी यदापर्णे रुद्रनक्षत्र संयुता ॥

तदा पुण्यतमः कालस्तस्मिन्कुंडे महाफलः

॥९०॥

रुद्रकुंडे नरः स्नात्वा दृष्ट्वा रुद्रेश्वरं विभुम् ॥

यत्रतत्र मृतो वापि रुद्रलोकमवाप्नुयात्

॥९१॥

रुद्रस्य नैर्ऋते भागे लिंगं तत्र महालयम् ॥

तदग्रे पितृकूपोस्ति पितॄणामालयः परः

॥९२॥

तत्र श्राद्धं नरः कृत्वा पिंडान्कूपे परिक्षिपेत् ॥

एकविंशकुलोपेतः श्राद्धकृद्रुद्रलोकभाक्

॥९३॥

तत्र वैतरणी नाम दीर्घिका पश्चिमानना ॥

तस्यां स्नातो नरो देवि नरकं नैव गच्छति

॥९४॥

बृहस्पतीश्वरं लिंगं रुद्रकुंडाच्च पश्चिमे ॥

गुरुपुष्यसमायोगे दृष्ट्वा दिव्यां लभेद्गिरम्

॥९५॥

रुद्रावासाद्दक्षिणतः कामेशं लिंगमुत्तमम् ॥

तद्दक्षिणे महाकुंडं स्नानाच्चिंतित कामदम्

॥९६॥

चैत्रशुक्ल त्रयोदश्यां तत्र यात्रा च कामदा ॥

नलकूबर लिंगं च प्राच्यां कामेश्वराच्छुभम्

॥९७॥

तदग्रे पावनः कूपो धनधान्य समृद्धिदः ॥

नलकूबरपूर्वेण सूर्याचंद्रमसेश्वरौ

॥९६॥

अज्ञानध्वांतपटलीं हरतस्तौ समर्चितौ ॥

तद्दक्षिणेध्वकेशश्च दृष्टो मोहविनाशनः

॥९९॥

तत्र सिद्धीश्वरं लिंगं महासिद्धिसमर्पकम् ॥

तत्रैव मंडलेशश्च मंडलेशपदप्रदः

॥१००॥

कामकुंडस्य पूर्वेण च्यवनेशः समृद्धिदः ॥

तत्रैव सनकेशश्च राजसूयफलप्रदः

॥१॥

सनत्कुमार लिंगं च तत्पश्चाद्योगसिद्धिकृत् ॥

तदुत्तरे सनंदेशो महाज्ञान समर्थकः

॥२॥

तद्याम्यामाहुतीशश्च दृष्टो होमफलप्रदः ॥

तद्याम्यां पुण्यजनकं लिंगं पंचशिखेश्वरम्

॥३॥

मार्कंडेय ह्रदस्तस्य पश्चिमे पुण्यवर्धनः ॥

तस्मिन्ह्रदे नरः स्नात्वा किं भूयः परिशोचति

॥४॥

तत्र स्नानं च दानं च भवेदक्षय पुण्यदम् ॥

तदुत्तरे च कुंडेशः सर्वसिद्धैर्नमस्कृतः

॥५॥

दीक्षां पाशुपतीं लब्ध्वा द्वादशाब्देन यत्फलम् ॥

तत्फलं लभते विप्र मर्त्यः कुंडेश दर्शनात्

॥६॥

मार्कंडेय ह्रदात्पूर्वं शांडिल्येशः सुपुण्यदः ॥

तत्पश्चिमे च चंडेशश्चंडांशु ग्रहणाघहृत्

॥७॥

दक्षिणे च कपालेशात्कुंडं श्रीकंठसंज्ञितम् ॥

तत्र कुंडे नरः स्नात्वा दाता स्याच्छ्रीप्रभावतः

॥८॥

महालक्ष्मीश्वरं लिंगं तस्य कुंडस्य सन्निधौ ॥

महालक्ष्मीं समभ्यर्च्य स्नातस्तत्कुंडवारिषु

॥९॥

चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च वीज्यते ॥

यदा मत्स्योदरीं यांति स्वर्गलोकाद्दिवौकसः ॥

तदा तेनैव मार्गेण यांति स्त्रीभिर्वृताः सुखम्

॥११०॥

स्वर्गद्वारमतः ख्यातं तत्स्थानं मुनिसत्तम ॥

तत्कुंड दक्षिणेभागे लिंगं ब्रह्मपदप्रदम्

॥११॥

गायत्रीश्वर सावित्रीश्वरौ पूज्यौ प्रयत्नतः ॥

मत्स्योदर्यास्तटे रम्ये लिंगं सत्यवतीश्वरम्

॥१२॥

तयोः पूर्वेण संपूज्य तपःश्री परिवर्धनम् ॥

उग्रेश्वरं महालिंगं लक्ष्मीशात्पूर्वदिक्स्थितम्

॥१३॥

जातिस्मरो भवेन्मर्त्यस्तल्लिंगस्य समर्चनात् ॥

तद्दक्षिणे चोग्रकुंडं स्नानात्कनखलाधिकम्

॥१४॥

करवीरेश्वरं लिंगंतस्य कुंडंस्य पश्चिमे ॥

तस्य दर्शनतः पुंसां जायते रोगसंक्षयः

॥१५॥

तद्वाव्ये मरीचीशं कुंडं चाघौघनाशनम् ॥

तत्पश्चाच्चेंद्रकुंडं लिंगं चेंद्रेश्वरं मुने

॥१६॥

इंद्रेशाद्दक्षिणेभागे शुभा कर्कोटवापिका ॥

तत्र वापीजले स्नात्वा दृष्ट्वा कर्कोटकेश्वरम्

॥१७॥

नागानामाधिपत्यं तु जायते नात्र संशयः ॥

तत्पश्चाद्दृमिचंडेशो ब्रह्महत्याहरो हरः

॥१८॥

तद्दक्षिणे महाकुंडं रुद्रलोकफलप्रदम् ॥

तत्पश्चिमे महालिंगमग्नीश इति विश्रुतम्

॥१९॥

आग्नेयं नाम कुंडं च तत्पूर्वेग्निसलोकदम् ॥

आग्नेयेश्वरतः प्राच्यां कुंडं तद्दक्षिणे शुभम्

॥१२०॥

तत्र कुंडे नरः स्नात्वा स्वर्गे वसति पूर्वजैः ॥

तत्प्राच्यां बालचंद्रेशश्चंद्रलोकगतिप्रदः

॥२१॥

परितो बालचंद्रेशं गणलिंगान्यनेकशः ॥

विलोक्य तानि लिंगानि गाणपत्यं पदं लभेत्

॥२२॥

बालचंद्र समीपे तु कूपः पितृगणप्रियः ॥

तत्र श्राद्धप्रदः स्नात्वा पितॄन्सप्ताऽत्र तारयेत्

॥२३॥

तदंधोः पूर्वतो लिंगं पुण्यं विश्वेश्वराह्वयम् ॥

विश्वेश्वरस्य पूर्वेण वृद्धकालेश्वरो हरः

॥२४॥

कालोदो नाम कूपोस्ति तदग्रे सर्वरोगहृत् ॥

यैस्तु तत्रोदकं पीतं स्त्रीभिः पुंभिः स्वकर्मभिः

॥२५॥

न तेषां परिवर्तोत्र कल्पकोटिशतैरपि ॥

तत्पीत्वा जन्मबंधोत्थाद्भयान्मुच्येत मानवः

॥२६॥

तत्र कूपे तु यद्दत्तं दानं शिवरतात्मनाम् ॥

संवर्तेपि न तस्यास्ति नाशः कलशसंभव

॥२७॥

खंडस्फुटितसंस्कारं तत्र कुर्वंति ये नराः ॥

ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा

॥२८॥

कालेशाद्दक्षिणे भागे मृत्य्वीशस्त्वपमृत्युहृत् ॥

लिंगं दक्षेश्वराह्वं च ततः कूपादुदग्दिशि

॥२९॥

अपराधसहस्रं तु नश्येत्तस्य समर्चनात्

॥१३०॥

महाकालेश लिंगं च दक्षेशात्पूर्वतो महत् ॥

महाकुंडे नरः स्नात्वा महाकालं तु योर्चयेत्

॥३१॥

अर्चितं तेन वै तत्र जगदेतच्चराचरम् ॥

अंतकेश्वरमालोक्य तद्याम्यां नांतकस्य भीः

॥३२॥

हस्तिपालेश्वरं लिंगं तस्य दक्षिणतो मुने ॥

तस्य पूजनतो याति पुण्यं वै हस्तिदानजम्

॥३३॥

तत्रैरावतकुंडं च लिंगमैरावतेश्वरम् ॥

तल्लिंगमर्चयन्मर्त्यो धनधान्यसमृद्धिभाक्

॥३४॥

तद्दक्षिणे श्रेयसे च लिंगं स्यान्मालतीश्वरम् ॥

हस्तीश्वरादुत्तरे तु जयंतेशो जयप्रदः

॥३५॥

बंदीश्वरो महाकाल कुंडादुत्तरतः शुभः ॥

बंदिकुंडं च विख्यातं वाराणस्यां महाघहृत्

॥३६॥

तत्र स्नानेन दानेन श्राद्धेनाक्षयमश्नुते ॥

धन्वंतरीश्वरं लिंगं कुंडं तन्नाम चैव हि

॥३७॥

तस्य लिंगस्य नामान्यत्कुंडनामान्यदेव हि ॥

तुंगेश्वरं लिंग नाम कुंडं वैद्येश्वराभिधम्

॥३८॥

सुधामय्यो महौषध्यः क्षिप्तास्तत्र महाधियः ॥

तत्कुंडस्नानतस्तस्मात्तल्लिंग परिवीक्षणात् ॥

नश्यंति व्याधयः सर्वे सह पापैः सुदारुणैः

॥३९॥

तदुत्तरे हलीशेशः सर्वव्याधिनिपूदनः ॥

शिवेश्वरः शिवकरस्तुंगनाम्नश्च दक्षिणे

॥१४०॥

जमदग्नीश्वरं लिंगं शिवेशाद्दक्षिणे शुभम् ॥

तत्पश्चिमे भैरवेशः कूपस्तस्योत्तरे शुभः

॥४१॥

तदुदस्पर्शमात्रेण सर्वयज्ञफलं लभेत् ॥

तत्कूपपश्चिमे भागे सुकेशो योगसिद्धिदः

॥४२॥

तन्नैर्ऋत्यां च व्यासेशः कूपश्च विमलोदकः ॥

व्यासकूपे नरः स्नात्वा तर्पयित्वा सुरान्पितॄन्

॥४३॥

अक्षयं लभते लोकं यत्रकुत्राभिकांक्षितम् ॥

व्यासतीर्थात्पश्चिमतो घंटाकर्णो ह्रदो महान्

॥४४॥

घंटाकर्णह्रदे स्नात्वा व्यासंश परिदर्शनात् ॥

यत्रतत्र मृतो वापि वाराणस्यां मृतो भवेत्

॥४५॥

घंटाकर्ण समीपे तु पंचचूडाप्सरः सरः ॥

पंचचूडाजले स्नात्वा दृष्ट्वा देवं तमीश्वरम्

॥४६॥

स्वर्गलोकं नरो याति पंचचूडाप्रियो भवेत् ॥

गौरीकूपस्ततोवाच्यां सर्वजाड्यविनाशनः

॥४७॥

पंचचूडोत्तरे भागे तीर्थं चाशोकसंज्ञितम् ॥

मंदाकिनी महातीर्थं तदुदीच्यां महाघहृत्

॥४८॥

स्वर्गलोकेपि सा पुण्या किं पुनर्मानवे मुने ॥

तदुत्तरे मध्यमेशो मध्ये क्षेत्रं स्वपित्यहो

॥४९॥

तत्र जागरणं कृत्वाऽशोकाष्टम्यां मधौ नरः ॥

न जातु शोकं लभते सदानंदमयो भवेत्

॥१५०॥

मुक्तिक्षेत्रप्रमाणं च क्रोशं क्रोशं च सर्वतः ॥

आरभ्य लिंगादस्माच्च पुण्यदान्मध्यमेश्वरात्

॥५१॥

एतदेव सदा प्राहुः सर्वे वै प्रपितामहाः ॥

कश्चिदस्मत्कुले जातो मंदाकिन्या जलाप्लुतः

॥५२॥

भोजयेत्प्रयतो विप्रान्यतीन्पाशुपतानपि ॥

मदाकिन्यां नरः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम्

॥५३॥

एकविंशत्कुलोपेतो रुद्रलोके वसेच्चिरम् ॥

मध्यमेशादवाच्यां च विश्वेदेवेश्वरः शुभः

॥५४॥

तदर्चनादर्चिताः स्युर्विश्वेदेवास्त्रयोदश ॥

तत्पूर्वे वीरभद्रेशो महावीरपदप्रदः

॥५५॥

भद्रदा भद्र्काली च तस्य दक्षिणतः शुभा ॥

भद्राकाल ह्रदो नाम तत्रातीव शुभप्रदः

॥५६॥

आपस्तंबेश्वरं लिंगं तत्प्राच्यां ज्ञानदं परम् ॥

तदुत्तरे पुण्यकूपस्तत्पश्चाच्छौनको ह्रदः

॥५७॥

ह्रदपश्चिमतो लिंगं शौनकेशं सुधीप्रदम् ॥

ह्रदे तत्र नरः स्नात्वा दृष्ट्वा वै शौनकेश्वरम्

॥५८॥

ज्ञानं तत्संलभेद्दिव्यं येन मृत्युं तरत्यसौ ॥

तद्दक्षिणे जंबुकेशस्तिर्यग्योनि निवारकः

॥५९॥

तदुत्तरे मतंगेशो गानविद्याप्रबोधकः ॥

मतंगेशस्य वायव्ये नानालिंगानि सर्वतः

॥१६०॥

मुनिभिः स्थापितानीह सर्वसिद्धिप्रदानि च ॥

ब्रह्मरातेश्वरं लिंगं मतंगेशाच्च दक्षिणे

॥६१॥

तल्लिंगदर्शनादायुर्नांतराच्छिद्यते क्वचित् ॥

तत्राज्यपेश्वरं लिंगं पितृलिंगान्यनेकशः ॥

तल्लिंगसेवया सर्वे तुष्यंति प्रपितामहाः

॥६२॥

तद्दक्षिणे सिद्धकूपः सिद्धाः संति सहस्रशः ॥

वायुरूपास्तु ये सिद्धा ये सिद्धा भानुरश्मिगाः

॥६३॥

तैः स्थापितं तु यल्लिंगं तत्सिद्धेश्वरमीरितम् ॥

तस्य संदर्शनादेव सर्वाः स्युः सिद्धयोऽमलाः

॥६४॥

तत्पश्चिमे सिद्धवापी पीता स्नाता च सिद्धिदा ॥

प्राच्यां च सिद्धकूपाद्वै लिंगं व्याघ्रेश्वराभिधम्

॥६५॥

तल्लिंगदर्शनान्नृणां न भयं व्याघ्रचोरजम् ॥

ज्येष्ठेश्वरं च तद्याम्यां ज्येष्ठस्थानेति सिद्धिदम्

॥६६॥

तद्दक्षिणे मुदां धाम लिंगं प्रहसितेश्वरम् ॥

तदुत्तरे निवासेश काशीवासफलप्रदः

॥६७॥

चतुःसमुद्रकूपोस्ति तत्राब्धिस्नान पुण्यदः ॥

ज्येष्ठा देवी तु तत्रास्ति नता ज्येष्ठपदप्रदा

॥६८॥

अवाच्यां व्याघ्रलिंगाच्च लिंगं चंडीश्वराभिधम् ॥

तदुत्तरे दंडखातं सरः पितृमुदावहम्

॥६९॥

ग्रहणानंतरे स्नानं दंडखातेति पुण्यदम् ॥

जैगीषव्य गुहा तत्र तत्र लिंगं तदाह्वयम्

॥१७०॥

त्रिरात्रोपोषितस्तत्र ज्ञानं लभ्येत निर्मलम् ॥

महापुण्यप्रदं लिंगं तत्पश्चाद्देवलेश्वरम्

॥७१॥

शतकालस्तत्समीपे शतं कालानुमापतिः ॥

तल्लिंगाविर्भवे काश्यां कालयामास कुंभज

॥७२॥

तल्लिंगदशर्नादायुः शतवर्षाण्यखंडितम् ॥

शातातपेशस्तद्याम्यां महाजपफलप्रदः

॥७३॥

तत्पश्चिमे हेतुकेशो हेतुभूतो महाफले ॥

तद्दक्षिणेक्षपादेशो महाज्ञानप्रर्वतकः

॥७४॥

तदग्रे च कणादेशस्तत्र पुण्योदकः प्रहिः ॥

स्नात्वा काणादकूपे यः कणादेशं समर्चयेत्

॥७५॥

न धनेन न धान्येन त्यज्यते स कदाचन ॥

तस्य दक्षिणतो दृश्यो भूतीशो भूतिकृत्सताम्

॥७६॥

तत्पश्चिमेऽघसंहर्तृ आषाढीश्वर संज्ञितम् ॥

दुर्वासेशश्च तत्पूर्वे सर्वकामसमृद्धिकृत्

॥७७॥

तद्याम्यां भारभूतेशः पापभारापहारकः ॥

व्यासेश्वरस्य पूर्वेण द्वौ शंखलिखितेश्वरौ ॥

तौ दृश्यौ यत्नतः काश्यां महाज्ञान प्रवर्तकौ

॥७८॥

यत्समाप्याप्यते पुण्यं निष्ठा पाशुपतव्रतम् ॥

तदाप्यतेत्र विश्वेश सकृदीक्षणतः क्षणात्

॥७९॥

तदीशानेवधूतेशो योगज्ञानप्रवर्तकः ॥

तीर्थं चैवावधूतेशं सर्वकल्मषनाशकृत्

॥१८०॥

अवधूतेश्वरात्पूर्वे लिंगं पशुपतीश्वरम् ॥

तल्लिंगसेवया पुंसां पशुपाशविमोक्षणम्

॥८१॥

तद्दक्षिणे गोभिलेशो महाभिलषितप्रदः।

जीमूतवाहनेशश्च तत्पश्चाल्लिंगमुत्तमम्

॥८२॥

विद्याधरपदप्राप्तिस्तल्लिंगपरिसेवनात् ॥

मयूखार्कः पंचनदे गभस्तीशश्च तत्र वै

॥८३॥

दधिकल्पह्रदो नाम तदुदीच्यां महाप्रहिः ॥

दुर्लभं तत्प्रहिस्नानं दुर्लभं च तदीक्षणम्

॥८४॥

गभस्तीशोत्तरे भागे दधिकल्पेश्वरो हरः ॥

नरस्तमाशु संवीक्ष्य कल्पं त्र्यक्षपुरे वसेत्

॥८५॥

गभस्तीशाद्दक्षिणे तु मंगलां मंगलालयाम् ॥

उद्दिश्य मंगलां गौरीं भोजयेद्द्विजदंपती

॥८६॥

अलंकृत्य यथाशक्ति तत्पुण्यांतो न कर्हिचित् ॥

क्षितिप्रदक्षिणफला मंगलैका प्रदक्षिणा

॥८७॥

वदनप्रेक्षणादेवी मुखप्रेक्षेश्वरोत्तरे ॥

मंगलायाः समीपे तु सर्वसिद्धिकरी शिवा

॥८८॥

लिंगे त्वष्ट्रीशवृत्तेशौ मुखप्रेक्षोत्तरे शुभे ॥

सहेमभूमिदानस्य फलं दर्शनतस्तयोः

॥८९॥

तदुत्तरे चर्चिकाया देव्याः संदर्शनं शुभम् ॥

रेवतेश्वर लिंगं च चर्चिकाग्रेण शांतिकृत्

॥१९०॥

महाशुभायतस्याग्रे लिंगं पंचनदेश्वरम् ॥

मंगलोदो महाकूपो मंगला पश्चिमे शुभः

॥९१॥

उपमन्योर्महालिंगं मंगला पश्चिमे शुभम् ॥

व्याघ्रपादेश्वरं लिंगं तत्पश्चाद्व्याघ्रभीतिहृत्

॥९२॥

नैर्ऋत्यां च गभस्तीशाच्छशांकेशोघसंघहृत् ॥

तत्पश्चिमे चैत्ररथं लिंगं दिव्यगतिप्रदम्

॥९३॥

रेवतेशात्पश्चिमतो जैमिनीशो महाघहृत् ॥

तत्र लिंगान्यनेकानि ऋषीणामृषिसत्तम

॥९४॥

जैमिनीशाच्च वायव्ये लिंगं वै रावणेश्वरम् ॥

न तद्दशर्नतः पुंसां राक्षसानां महाभयम्

॥९५॥

तद्दक्षिणे वराहेशो मांडव्येशस्ततो यमे ॥

तद्दक्षिणे प्रचंडेशो योगेशो दक्षिणे ततः

॥९६॥

तद्दक्षिणे च धातेशः सोमेशश्च तदग्रतः ॥

तन्नैर्ऋत्यां कनकेशो महाकनकदः सताम्

॥९७॥

तदुत्तरे पांडवानां पंचलिंगानि सन्मुदे ॥

संवर्तेशस्तदग्रे च श्वेतेशस्तस्य पश्चिमे

॥९८॥

तत्पश्चात्कलशेशश्च लिंगं कालाभयप्रदम् ॥

कालेन पाशिते श्वेते मुने कुंभात्समुत्थितम्

॥९९॥

चित्रगुप्तेश्वरं लिंगं तदुदीच्यामघापहम् ॥

चित्रगुप्तेश्वरात्पश्चाद्यो दृढेशो महाफलः

॥२००॥

कलशेशादवाच्यां च ग्रहेशो लिंगमुत्तमम् ॥

ग्रहबाधां शमयति तल्लिंग परिलोकनम्

॥१॥

चित्रगुप्तेश्वरात्पश्चाद्यदृच्छेशो महाफलः ॥

उतथ्यवामदेवेशं लिंगं याम्यां ग्रहेश्वरात्

॥२॥

कंबलाश्वतरेशौ च तस्य दक्षिणतः शुभे ॥

तत्रैव निर्मलं लिंगं नलकूबरपूजितम्

॥३॥

तद्याम्यां मणिकर्णीशं तदुदक्पलितेश्वरम् ॥

जराहरं च तत्रैव तत्पश्चात्पापनाशनम्

॥४॥

तत्पश्चिमे निर्जरेशस्तन्नैर्ऋत्यां पितामहः ॥

पितामहस्रोतिका च तत्र श्राद्धं महाफलम्

॥५॥

तद्याम्यां वरुणेशश्च बाणेशस्तस्य दक्षिणे।

पितामहस्रोतिकायां कूश्मांडेशस्तु सिद्धिकृत्

॥६॥

तत्पूर्वतो राक्षसेशो गंगेशस्तस्य दक्षिणे ॥

तदुत्तरे निम्नगेशाः संति लिंगान्यनेकशः

॥७॥

वैवस्वतेश्वरस्तत्र यमलोकनिवारकः ॥

तत्पश्चाददितीशश्च चक्रेशस्तस्य चाग्रतः

॥८॥

तदग्रे कालकेशाख्यो दृष्टप्रत्ययकृत्परः ॥

छाया संदृश्यते तत्र निष्पापस्तदवेक्षणात्

॥९॥

तदग्रे तारकेशश्च तदग्रे स्वर्णभारदः ॥

तदुत्तरे मरुत्तेशः शक्रेशश्च तदग्रतः

॥२१०॥

तद्दक्षिणे च रंभेशस्तत्रैव च शशीश्वरः ॥

तदुत्तरे लोकपेशास्तत्र लिंगान्यनेकशः

॥११॥

नागगंधर्वयक्षाणां किन्नराप्सरसामपि ॥

देवर्षिगणवृदानां नानासिद्धिकराण्यपि

॥१२॥

शक्रेशाद्दक्षिणे भागे फाल्गुनेशो महाघहृत् ॥

महापाशुपतेशश्च तद्याम्यां शुभकृत्परः

॥१३॥

तत्पश्चिमे समुद्रेश ईशानेशस्तदुत्तरे ॥

तत्पूर्वे लांगलीशश्च सर्वसिद्धिसमर्पकः

॥१४॥

रागद्वेषविनिर्मुक्ताः सिद्धिं यांति च पूजकाः ॥

तेषां मोक्षो मया ख्यातो न तु ते देवि मानवाः

॥१५॥

मधुपिंगश्वेतकेतू लांगलीशे तपस्विनौ ॥

अनेनैव शरीरेण जग्मतुः सिद्धिमुत्तमाम्

॥१६॥

तत्रैव नकुलीशश्च कपिलेशश्च तत्र वै ॥

रहस्यं परमं चोभौ मम व्रत निषेविणौ

॥१७॥

तत्सन्निधौ प्रीतिकेशस्तत्र प्रीतिर्मम प्रिये ॥

तत्रोपवासादेकस्मात्फलमब्दशताधिकम्

॥१८॥

एकं जागरणं कृत्वा प्रीतिकेश उपोषितः ॥

गणत्वपदवी तस्य निश्चिता मम पर्वणि

॥१९॥

देवस्य दक्षिणे भागे तत्र वापी शुभोदका ॥

तदंबुप्राशनं नृणामपुनर्भवहेतवे

॥२२०॥

तज्जलात्पश्चिमे भागे दंडपाणिः सदावति ॥

तत्प्राच्यवाच्युत्तरस्यां तारः कालः शिलादजः

॥२१॥

लिंगत्रयं हृदब्जेयच्छ्रद्धयापी तमर्पयेत् ॥

यैस्तत्र तज्जलं पीतं कृतार्थास्ते नरोत्तमाः

॥२२॥

अविमुक्तसमीपेच्यों मोक्षेशो मोक्षबुद्धिदः ॥

करुणेशो दयाधाम तदुदीच्यां समर्चयेत्

॥२३॥

स्वर्णाक्षेशस्तु तत्प्राच्यां ज्ञानदस्तस्य चोत्तरे ॥

सौभाग्यगौरी संपूज्या बहुसौभाग्यसंपदे

॥२४॥

विश्वेशाद्दक्षिणेभागे निकुंभेशः प्रयत्नतः ॥

क्षेत्रक्षेमकरः पूज्यस्तत्पश्चाद्विघ्ननायकः

॥२५॥

सर्वविघ्नच्छिदभ्यर्च्यश्चतुर्थ्यां तु विशेषतः ॥

विरूपाक्षो निकुंभेशाद्वह्नौ पूज्यः सुसिद्धिदः

॥२६॥

तद्दक्षिणे च शुक्रेशः पुत्रपौत्रप्रवर्धनः ॥

तदुदीच्यां महालिंगं देवयानीश्वराभिधम्

॥२७॥

शुक्रेशादग्रतः पूज्यः कचेश इति संज्ञितः ॥

शुक्रकूपमुपस्पृश्य हयमेधफलं लभेत्

॥२८॥

भवानीशौ नमस्यौ च शुक्रेशात्पश्चिमे शुभौ ॥

भक्तपोतप्रदौ तौ तु निजभक्तस्य सर्वदा

॥२९॥

अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः ॥

मदालसेश्वरस्तत्र तत्पूर्वे सर्वविघ्नहृत्

॥२३०॥

गणेश्वरेश्वरं लिंगं सर्वसिद्धिकरं परम् ॥

हत्वा लंकेश्वरं विप्र रघुणाथ प्रतिष्ठितम्

॥३१॥

तल्लिंगस्पर्शनादाशु ब्रह्महापि विशुध्यति ॥

महापुण्यप्रदं चान्यत्तत्रार्च्यं त्रिपुरांतकम्

॥३२॥

दत्तात्रेयेश्वरं लिंगं तस्य पश्चिमतः शुभम् ॥

तद्याम्यां हरिकेशेशो गोकर्णेशस्ततः परम्

॥३३॥

सरस्तदग्रे पापघ्नं तत्पश्चाच्च ध्रुवेश्वरः ॥

तदग्रे धुवकुंडं च पितृप्रीतिकरं परम्

॥३४॥

तदुत्तरपिशाचेशः पैशाच्य पदहारकः ॥

पित्रीशस्तद्यमदिशि पितृकुंडं तदग्रतः

॥३५॥

तत्र श्राद्धकृतां पुंसां तुष्येयुः प्रपितामहाः ॥

अग्रे ध्रुवेशात्तारेशो वैद्यनाथः स एव हि

॥३६॥

तन्नैर्ऋत्यां मनोलिंगं वंशवृद्धिकरं परम् ॥

प्रियव्रतेश्वरं लिंगं वैद्यनाथपुरोगतम्

॥३७॥

तद्याम्यां मुचुकुंदेशस्तत्पार्श्वे गौतमेश्वरः ॥

तत्पश्चिमेन भद्रेश्तद्याम्यामृष्यशृंगिणः

॥३८॥

ब्रह्मेशस्तत्पुरस्ताच्च पर्जन्येशस्तदीशगः ॥

तत्प्राच्यां नहुषेशश्च विशालाक्षी च तत्पुरः

॥३९॥

विशालाक्षीश्वरं लिंगं तत्रैव क्षेत्रवस्तिदम् ॥

जरासंधेश्वरं लिंगं तद्याम्यां ज्वरनाशनम्

॥२४०॥

तत्पुरस्ताद्धिरण्याक्षलिंगं पूज्यं हिरण्यदम् ॥

तत्पश्चिमे गयाधीशस्तत्प्रतीच्यां भगीरथः

॥४१॥

तदग्रे च दिलीपेशो ब्रह्मेशात्पश्चिमे मुने ॥

तत्र लिंगं सकुंडं च स्नातुरिष्टफलप्रदम्

॥४२॥

तत्र विश्वावसोर्लिंगं मुंडेशस्तत्र पूर्वतः ॥

तद्दक्षिणे विधीशश्च तद्याम्यां वाजिमेधकः

॥४३॥

दशाश्वमेधिके स्नात्वा दृष्ट्वा तल्लिंगमुत्तमम् ॥

दशानामश्वमेधानां फलं प्राप्नोति मानवः

॥४४॥

तदुत्तरे मातृतीर्थं स्नातुर्जन्मभयापहृत् ॥

तत्र स्नानं तु यकुर्यान्नारी वा पुरुषोपि वा

॥४५॥

ईप्सितं फलमाप्नोति मातृणां च प्रसादतः ॥

दक्षिणे तव कुंडाच्च पुष्पदंतेश्वरः परः

॥४६॥

तदग्निदिशि देवर्षि गण लिंगान्यनेकशः ॥

पुष्पदंताद्दक्षिणतः सिद्धीशः परसिद्धिदः

॥४७॥

पंचोपचारपूजातः स्वप्ने सिद्धिं परां दिशेत् ॥

राज्यप्राप्तिर्भवेत्पुंसां हरिश्चंद्रेशसेवया

॥४८॥

तत्पश्चिमे नैर्ऋतेशोंगिरसेशस्ततो यमे ॥

तद्दक्षिणे च क्षेमेशश्चित्रांगेशस्ततो यमे

॥४९॥

तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः ॥

चंद्रसूर्यान्वयैर्भूपैः केदाराद्दक्षिणापथे

॥२५०॥

प्रतिष्ठितानि लिंगानि शतशोथ सहस्रशः ॥

लोलार्काद्दक्षिणाशायां सर्वाशापूरकोर्चितः

॥५१॥

करंधमेश्वरं लिंगं तत्प्रतीच्यां महाफलम् ॥

तत्पश्चिमे महादुर्गा महादुर्गप्रभंजनी

॥५२॥

शुष्केश्वरं च तद्याम्यां शुष्कया सरितार्चितम् ॥

जनकेशस्तत्प्रतीच्यां शंकुकर्णस्तदुत्तरे

॥५३॥

महासिद्धीश्वरं लिंगं तत्प्राच्यां सर्वसिद्धिदम् ॥

सिद्धकुंडे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं महत्

॥५४॥

सर्वासामेव सिद्धीनां पारं गच्छति मानवः ॥

शंकुकर्णेश वायव्ये लिंगं वाडव्यसंज्ञितम्

॥५५॥

तदग्रे च विभांडेशः कहोलेशस्तदुत्तरे ॥

तत्र द्वारेश्वरं लिंगं देवी द्वारेश्वरी शुभा

॥५६॥

तत्पूजनाद्भवेत्सिद्धिरानंदारण्य वस्तिदा ॥

रक्षकाश्च गणास्तत्र नानारूपायुधा मुने

॥५७॥

तत्रैव हरिदीशं च लिंगं कात्यायनं ततः ॥

तत्पार्श्वे जांगलेशश्च तत्पश्चान्मुकुटेश्वरः

॥५८॥

तत्रैव कुंडं विमलं सर्वयात्राफलप्रदम् ॥

स्नात्वा मुकुटकुंडे च दृष्ट्वा वै मुकुटेश्वरम्

॥५९॥

यात्रया सर्व लिंगानां यत्फलं तदवाप्यते ॥

तपसश्चापि योगस्य सिद्धिदा साऽवनीपरा

॥२६०॥

मुने शतं सहस्राणि तत्र लिंगानि सिद्धये ॥

एका दिगुत्तरा देवि वाराणस्यां प्रिया मम

॥६१॥

तत्रापि पंचायतने रतिर्मे नितरां प्रिये ॥

उत्पत्तिस्थिति कालेपि तत्राहं सर्वदा स्थितः

॥६२॥

एवं यस्तु विजानाति न स पापैः प्रलिप्यते ॥

सत्यं सत्यं पुनः सत्यं त्रिसत्यं नान्यतः प्रिये

॥६३॥

शीघ्रं तत्रैव गंतव्यं यदीच्छेन्मामकं पदम् ॥

उद्देशमात्रं लिगानि कथितानि मया मुने

॥६४॥

द्विस्त्रिः कृत्वः स्थापितानि भक्त्या लिंगानि कानिचित् ॥

न तानि पुनरुक्तानि श्रद्धयार्च्यानि सर्वतः

॥६५॥

एतानि यानि लिंगानि यानि कुंडानि येंऽधवः ॥

या वाप्यस्तानि सर्वाणि श्रद्धेयानि मनीषिभिः

॥६६॥

एतेषां दर्शनात्स्नानात्फलमत्रोत्तरोत्तरम् ॥

अत्रत्यानां च लिंगानां कूपानां सरसामपि

॥६७॥

वापीनां चापि मूर्तीनां कः संख्यातुं प्रभुर्भवेत् ॥

आनंदकाननस्थानि तृणान्यपि परं वरम्

॥६८॥

दिवौकसोपि नान्यत्र यत्पुनर्जन्मभाजनम् ॥

सर्वलिंगमयी काशी सर्वतीर्थेकजन्मभूः

॥६९॥

स्वर्गापवर्गयोर्दात्री दृष्टा देहांतसेविता ॥

मम प्रियतमा देवि त्वमेव तपसो बलात्

॥२७०॥

स्वभावतस्त्वियं काशी सुखविश्रामभूर्मम ॥

ये काश्यानाम गृह्णंति येनुमोदंत एव हि

॥७१॥

ते मे शाखविशाखाभाः स्कंदनंदिगजास्यवत् ॥

त एव भक्ता मे देवि त एव मम सेवकाः

॥७२॥

मुमुक्षवस्त एवात्र येचानंदवनौकसः ॥

तपस्तप्तं महत्तैस्तु कृतं तैस्तु महाव्रतम्

॥७३॥

तैश्च दत्तं महादानं ये चानंदवनौकसः ॥

ते स्नातसर्वतीर्था वै तेखिलाध्वरदीक्षिताः

॥७४॥

ते चीर्णसर्वधर्माहि ये चानंदवनौकसः ॥

सुरासुरोरगनरा भूमिभारायतेऽखिलाः ॥

वयस्यपीह चरमे येनानंदवनौकसः

॥७५॥

अंत्यजोपि वरः काश्यां नान्यत्र श्रुतिपारगः ॥

संसारपारगः पूर्वस्त्वंत्यश्चांत्यजतोप्यधः

॥७६॥

स एव नूनं सर्वज्ञः स एव ह्यधिकेक्षणः ॥

यः पार्थिवीं तनुं हित्वा काश्यां धत्ते सुधामयीम्

॥७७॥

श्रुत्वाध्यायमिदं पुण्यं सर्वतीर्थरहस्यवत् ॥

काशीदर्शनजं पुण्यं प्राप्नोति नियतं नरः

॥७८॥

यः पठेदिममध्यायं प्रातः प्रातर्दिनेदिने ॥

दृष्टानि तेन सर्वाणि तीर्थान्येतानि नान्यथा

॥७९॥

सर्वलिंगमयाध्यायं योऽमुं नित्यं जपेत्सुधीः ॥

न तं यमो न तं दूता नैनमंहोपि बाधते

॥२८०॥

ब्रह्मयज्ञफलं तस्य जायते सुकृतात्मनः ॥

यो जपेदमुमध्यायं शुचिस्तद्गतमानसः

॥८१॥

स स्नातः सर्वकुंडेषु सर्ववाप्यंबुपः स च ॥

सर्वलिंगार्चकः सोत्र योऽमुमध्यायमाजपेत्

॥८२॥

किमन्यैर्बहुभिः स्तोत्रैरतिस्तोकफलप्रदैः ॥

मत्प्रेमवद्भिरध्यायो जप्तव्योयं महाफल

॥८३॥

महादानेषु दत्तेषु यत्फलं प्राप्यतेऽत्र वै ॥

सकृज्जपान्महाध्यायादमुष्मात्तत्समाप्यते

॥८४॥

स्नात्वा सर्वाणि तीर्थानि दृष्ट्वा लिंगान्यनेकशः ॥

यत्फलं लभ्यते मर्त्यैस्तदेतज्जपनाद्ध्रुवम्

॥८५॥

इदमेव तपोत्युग्रमयमेव जपो महान् ॥

काशीलिंगावली नामाध्यायो जप्येत यन्मुने

॥८६॥

मम द्रुहे नास्तिकाय वेदनिंदारताय च ॥

न दातव्यो न दातव्यो न दातव्यो जपस्त्वयम्

॥८७॥

अध्यायस्यास्य जपनात्पापं ब्रह्मवधोद्भवम् ॥

अगम्यागमनं चापि तथाभक्षस्यभक्षणम्

॥८८॥

गुरुदाराभिचारोत्थं हेमस्तेयसमुद्भवम् ॥

मातापितृवधाज्जातं गोभ्रूणहननोद्भवम्

॥८९॥

महापापानि पापानि ज्ञाताज्ञातानि भूरिशः ॥

उपपापानि पापानि मनोवाक्कायजान्यपि

॥२९०॥

विलयं यांत्यशेषाणि निःसंदेहं ममाज्ञया ॥

पुत्रान्पौत्रान्धनं धान्यं कलत्रं क्षेत्रमेव च

॥९१॥

मनःसमीहितं सर्वं स्वर्गं मोक्षसुखान्यपि ॥

जप्त्वाध्यायमिमं विद्वान्प्राप्स्यत्येव न संशयः

॥९२॥

इति यावत्समाख्याति देवो देवीपुरः कथाम् ॥

तावन्नंदीसमागत्य प्रणम्येति व्यजिज्ञपत्

॥९३॥

जाता परिसमाप्तिश्च महाप्रासादनिर्मितेः ॥

सज्जीकृतो रथश्चायं ब्रह्माद्या मिलिताः सुराः

॥९४॥

तार्क्ष्यगः पुंडरीकाक्षो द्वारि तिष्ठति सानुगः ॥

प्रतीक्षमाणोऽवसरं पुरस्कृत्य मुनीश्वरान्

॥९५॥

चतुर्दशसु लोकेषु ये ये तिष्ठंति सुव्रताः ॥

ते निशम्याद्यमिलिताः प्रावेशिक महोत्सवम्

॥९६॥

स्कंद उवाच

इति नंदिवचः श्रुत्वा देवो देवी समायुतः ॥

दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात्

॥२९७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे क्षेत्रतीर्थवर्णनं नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥