व्यासशापविमोक्षणम्
अगस्त्य उवाच
कृप्णद्वैपायनः स्कंद शंभुभक्तिपरो यदि ॥
यदि क्षेत्ररहस्यज्ञः क्षेत्रसंन्यासकृद्यदि
॥१॥तथा दृष्टप्रभावश्चेत्तथा चेज्ज्ञानिनां वरः ॥
पुरीं वाराणसीं श्रेष्ठां कथं किल शपिष्यति
॥२॥स्कंद उवाच
सत्यमेतत्त्वया पृच्छि कथयामि मुने शृणु ॥
तस्य व्यासस्य चरितं भविष्यं त्वयि पृच्छति
॥३॥यदारभ्य मुनेस्तस्य नंदी स्तंभितवान्भुजम् ॥
तदारभ्य महेशानं संस्तौति परमादृतः
॥४॥काश्यां तीर्थान्यनेकानि काश्यां लिगान्यनेकशः ॥
तथापि सेव्यो विश्वेशः स्नातव्या मणिकर्णिका
॥५॥लिंगेष्वेको हि विश्वेशस्तीर्थेषु मणिकर्णिका ॥
इति संव्याहरन्व्यासस्तद्द्वयं बहु मन्यते
॥६॥त्यक्त्वा स बहु वाग्जालं प्रातः स्नात्वा दिनेदिने ॥
निर्वाणमंडपे वक्ति महिमानं महेशितुः
॥७॥शिष्याणां पुरतो नित्यं क्षेत्रस्य महिमा महान् ॥
व्याख्यायते मुदा तेन व्यासेन परमर्षिणा
॥८॥अत्र यत्क्रियते क्षेत्रे शुभं वाऽशुभमेव वा ॥
संवर्तेपि न तस्यांतस्तस्माच्छ्रेयः समाचरेत्
॥९॥क्षेत्रसिद्धिं समीहंते ये चात्र कृतिनो जनाः ॥
यावज्जीवं न तैस्त्याज्या सुधीभिर्मणिकर्णिका
॥१०॥चक्रपुष्करिणी तीर्थे स्नातव्यं प्रतिवासरम् ॥
पुष्पैः पत्रैः फलैस्तोयैरर्च्यो विश्वेश्वरः सदा
॥११॥स्ववर्णाश्रमधर्मश्च त्यक्तव्यो न मनागपि ॥
प्रत्यहं क्षेत्रमहिमा श्रोतव्यः श्रद्धया सकृत्
॥१२॥यथाशक्ति च देयानि दानान्यत्र सुगुप्तवत् ॥
अन्नान्यपि च देयानि विघ्नान्परिजिहीर्षुणा
॥१३॥परोपकरणं चात्र कर्तव्यं सुधिया सदा ॥
पर्वस्वपि विशेषेण स्नानदानादिकाः क्रियाः
॥१४॥विशेषपूजा कर्तव्या सुमहोत्सवपूर्वकम ॥
कार्यास्तथाधिका यात्राः समर्च्याः क्षेत्रदेवताः
॥३५॥अत्र मर्म न वक्तव्यं सुधियां कस्यचित्क्वचित् ॥
परदार परद्रव्य परापकरणं त्यजेत्
॥१६॥परापवादो नो वाच्यः परेर्ष्यां न च कारयेत् ॥
असत्यं नैव वक्तव्यं प्राणैः कंठगतैरपि
॥१७॥अत्रत्य जंतुरक्षार्थमसत्यमपि भाषयेत् ॥
येनकेनप्रकारेण शुभेनाप्यशुभेन वा
॥१८॥अत्रत्यः प्राणिमात्रोपि रक्षणीयः प्रयत्नतः ॥
एकस्मिन्रक्षिते जंतावत्र काश्यां प्रयत्नतः ॥
त्रैलोक्यरक्षणात्पुण्यं यत्स्यात्तत्स्यान्न संशयः
॥१९॥ये वसंति सदा काश्यां क्षेत्रसंन्यासकारिणः ॥
त एव रुद्रा मंतव्या जीवन्मुक्ता न संशयः
॥२०॥ते पूज्यास्ते नमस्कार्यास्ते संतोष्याः प्रयत्नतः ॥
तेषु वै परितुष्टेषु तुष्येद्विश्वेश्वरः स्वयम्
॥२१॥काश्यां वसंति ये मर्त्या दूरस्थैरपि सन्नरैः ॥
योगक्षेमो विधातव्यस्तेषां विश्वेशितुर्मुदे
॥२२॥प्रसरस्त्विंद्रियाणां च निवार्योत्र निवासिभिः ॥
मनसोपि हि चांचल्यमिह वार्यं प्रयत्नतः
॥२३॥मरणं नाभिकांक्षेद्धि कांक्ष्यो मोक्षोऽपिनो पुनः ॥
शरीरशोषणोपायः कर्तव्यः सुधिया नहि
॥२४॥शरीरसौष्ठवं कांक्ष्यं व्रतस्नानादिसिद्धये ॥
आयुर्बह्वत्र वै चिंत्यं महाफलसमृद्धये
॥२८५॥आत्मरक्षात्र कर्तव्या महाश्रेयोभिवृद्धये ॥
अत्रात्म त्यजनोपायं मनसापि न चिंतयेत्
॥२५॥एकस्मिन्नपि यच्चाह्नि काश्यां श्रेयोभिलभ्यते ॥
न तु वर्षशतेनापि तदन्यत्राप्यते क्वचित्
॥२७॥अन्यत्र योगाभ्यसनाद्यावज्जन्म यदर्ज्यते ॥
वाराणस्यां तदेकेन प्राणायामेन लभ्यते
॥२८॥सर्वतीर्थावगाहाच्च यावज्जन्म यदर्ज्यते ॥
तदानंदवने प्राप्यं मणिकर्ण्येकमज्जनात्
॥२९॥सर्वलिंगार्चनात्पुण्यं यावज्जन्म यदर्ज्यते ॥
सकृद्विश्वेशमभ्यर्च्य श्रद्धया तदवाप्यते
॥३०॥यज्जन्मनां सहस्रेण निर्मलं पुण्यमर्जितम् ॥
तत्पुण्यपरिवर्तेन भवेद्विश्वेशदर्शनम्
॥३॥गवां कोटि प्रदानेन सम्यग्दत्तेन यत्फलम ॥
तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात्
॥३२॥यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः ॥
तत्पुण्यं जायते पुंसां विश्वेशे पुष्पदानतः
॥३३॥अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः ॥
पंचामृतानां स्नपनाद्विश्वेशे तदवाप्यते
॥३४॥वाजपेयसहस्रेण सम्यगिष्टेन यत्फलम् ॥
सकृन्महार्हैर्नैवेद्यैर्विश्वेशे तच्छताधिकम्
॥३२॥ध्वजातपत्रं चमरं विश्वेशे यः समर्पयेत् ॥
एकच्छत्रं स वै राज्यं प्राप्नुयाद्वसुधातले
॥३५॥महापूजोपकरणं योर्पयेद्विश्वभर्तरि ॥
न तं संपत्तिसंभारा विमुंचंतीह कुत्रचित्
॥३७॥सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम् ॥
तदंगणे कल्पवृक्षाश्छायां कुर्वंति शीतलाम्
॥३८॥यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत् ॥
क्षीरार्णवतटे तस्य निवसेयुः पितामहाः
॥३९॥विश्वेशराजसदने यः सुधां चित्रमेव वा ॥
कारयेत्तस्य भवनं कैलासचित्रितं भवेत्
॥४०॥ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः ॥
भोजयेद्योत्र वै काश्यामेकैक गणना क्रमात्
॥४१॥कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः ॥
तपस्त्वत्र प्रकर्तव्यं दानमत्र प्रदापयेत्
॥४२॥विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः ॥
अन्यत्र कोटिजप्येन यत्फलं प्राप्यते नरैः ॥
अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते
॥४३॥कोटिहोमेन यत्प्रोक्तं फलमन्यत्र सूरिभिः ॥
अष्टोत्तराहुतिशतात्तदत्रानंदकानने
॥४४॥यो जपेद्रुद्रसूक्तानि काश्यां विश्वेशसन्निधौ ॥
पारायणेन वेदानां सर्वेषां फलमाप्यते
॥४५॥तस्य पुण्यं न जानामि चिंतिते चाक्षरे परे ॥
काश्यां नित्यं प्रवस्तव्यं सेव्योत्तरवहा सदा
॥४६॥आपद्यपि हि घोरायां काशी त्याज्या न कुत्रचित् ॥
यतः सर्वापदांहर्ता त्राता विश्वपतिः प्रभुः
॥४७॥अवंध्यं दिवसं कुर्यात्स्नानदानजपादिभिः ॥
यतः काश्यां कृतं कर्म महत्त्वाय प्रकल्पते
॥४८॥कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ॥
तथेंद्रियविकाराश्च न बाधंतेत्र कर्हिचित्
॥४९॥यदींद्रियाणि कुर्वंति विक्रियामिह देहिनाम् ॥
तदात्रवाससं सिद्धिर्विघ्नेभ्यो नैव लभ्यते
॥५०॥अगस्त्य उवाच
कृच्छ्र चांद्रायणादीनि व्यासो वक्ष्यति यानि वै ॥
तेषां स्वरूपमाख्याहि स्कंदेंद्रिय विशुद्धये
॥५१॥स्कंद उवाच
कथयामि महाबुद्धे कृच्छ्रादीनि तवाग्रतः ॥
यानि कृत्वात्र मनुजो देहशुद्धिं लभेत्पराम्
॥५२॥एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः
॥५३॥वटोदुंबरराजीव बिल्वपत्रकुशोदकम् ॥
प्रत्येकं प्रत्यहं पीतं पर्णकृच्छ्रः प्रकीर्तितः
॥५४॥पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम् ॥
एकैकमुपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः
॥५५॥हविषा प्रातरश्नीत हविषा सायमेव च ॥
हविषा याचितं त्रींस्तु सोपवासस्त्रयहं वसेत्
॥५६॥एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥
त्र्यहं चोपवसेदंत्यमतिकृच्छ्रं चरन्द्विजः
॥५७॥कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः ॥
द्वादशाहोपवासेन पराकः परिकीर्तितः
॥५८॥त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम् ॥
त्र्यहं चोपवसेदंत्यं प्राजापत्यं चरन्द्विजः
॥५९॥गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः
॥६०॥पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ॥
सप्ताहेन तु कृच्छ्रोयं महासांतपनः स्मृतः
॥६१॥तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ॥
एतांस्त्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः
॥६२॥त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ॥
त्र्यहमुष्णघृतं प्राश्य वायुभक्षो दिनत्रयम्
॥६३॥पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम् ॥
पलमेकं तु तोयस्य तप्तकृच्छ्र उदाहृतः
॥६४॥गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत् ॥
कृच्छ्रमेकाह्न्किं प्रोक्तं शरीरस्य विशोधनम्
॥६५॥हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः ॥
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम्
॥६६॥एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत् ॥
उपस्पृशं स्त्रिषवणमेतच्चांद्रायणं स्मृतम्
॥६७॥एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत् ॥
भुंजीत दर्शे नो किंचिदेष चांद्रायणो विधिः
॥६८॥चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः ॥
चतुरोस्तमिते सूर्ये शिशुचांद्रायणं स्मृतम्
॥६९॥अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते ॥
नियतात्मा हविष्यस्य यतिचांद्रायणं स्मृतम्
॥७०॥यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः ॥
मासेनाश्नन्हविष्यस्य चंद्रस्यैति सलोकताम्
॥७१॥अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति ॥
विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति
॥७२॥तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात् ॥
काशीनिषेवणेन स्याद्विश्वेशकरुणोदयः
॥७३॥ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा ॥
अतः काश्यां प्रयत्नेन स्नान दान तपो जपः
॥७४॥व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम् ॥
प्रतिक्षणे प्रतिदिनं विश्वेश पदचिंतनम्
॥७५॥लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः ॥
साधुभिः सह संलापो जल्पः शिवशिवेति च
॥७६॥अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः ॥
आस्तिक्यबुद्धिर्विनयो मानामान समानधीः
॥७७॥अकामिता त्वनौद्धत्यमरागित्वमहिंसनम् ॥
अप्रतिग्रहवृत्तिश्च मतिश्चानुग्रहात्मिका
॥७८॥अदंभितात्वमात्सर्यमप्रार्थितधनागमः ॥
अलोभित्वमनालस्यमपारुष्यमदीनता
॥७९॥इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना ॥
प्रत्यहं चेति शिष्येभ्यः सधर्ममुपदेक्ष्यति
॥८०॥नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः ॥
लिंगपूजार्चको नित्यमित्थं व्यासो वसेत्पुरा
॥८१॥एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत् ॥
अद्य भिक्षाटनं प्राप्ते व्यासे परमधार्मिके
॥८२॥अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि ॥
तथेत्युक्ता भवानी सा भवं भवनिवारणम्
॥८३॥नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत् ॥
स मुनिः सहितः शिष्यैर्भिक्षामप्राप्य दूनवत्
॥८४॥वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम् ॥
गृहेगृहे परिप्राप्ता भिक्षान्यैः सर्वभिक्षुकैः
॥८५॥तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित् ॥
अथ सायंतनं कर्म कृत्वा छात्रैः समन्वितः
॥८६॥उपोषणपरो भूत्वा तथैवासीदहर्निशम् ॥
अथान्येद्युर्मुनिर्व्यासः कृत्वा माध्याह्निकं विधिम्
॥८७॥ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम् ॥
सर्वत्र स परिभ्रांतः प्रतिसौधं मुहुर्मुहुः
॥८८॥न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा ॥
अथ चिंतितवान्व्यासः परिश्रांतः परिभ्रमन्
॥८९॥को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता ॥
अंतेवासिन आहूय व्यासः पप्रच्छ चाखिलान्
॥९०॥भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते ॥
किमत्र पुरि संवृत्तं द्वित्रा यात ममाज्ञया
॥९१॥द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः ॥
अनिष्टं किंचिदत्रासीन्महागुरुनिपातजम्
॥९२॥अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात् ॥
राजदंडोथ युगपज्जातः सर्वपुरौकसाम्
॥९३॥अथवा वारिता भिक्षा केनाप्यस्मासु चेर्ष्यया ॥
पुरौकसोभवन्दुस्थास्तूपसर्गेण केनचित्
॥९४॥किमेतदखिलमज्ञात्वा समागच्छत सत्वरम् ॥
द्वित्राः पवित्रचरणात्प्राप्यानुज्ञां गुरोरथ ॥
समाचख्युः समागम्य दृष्ट्वर्द्धि तत्पुरौकसाम्
॥९५॥शिष्या ऊचुः
शृण्वंत्वाराध्यचरणा नोपसर्गोत्र कश्चन ॥
नान्नक्षयो वा सर्वस्यां नगर्यामिह कुत्रचित्
॥९६॥यत्र विश्वेश्वरः साक्षाद्यत्राऽमरधुनी स्वयम् ॥
त्वादृशा यत्र मुनयः क्व भीस्तत्रोपसर्गजा
॥९७॥समृद्धिर्या गृहस्थानामिह विश्वेशितुः पुरि ॥
न सर्द्धिरस्ति वैकुंठे स्वल्पास्ता अलकादयः
॥९८॥रत्नाकरेषु रत्नानि न तावंति महामुने ॥
यावंति संति विश्वेशनिर्माल्योपभुजां गृहे
॥९९॥गृहेगृहेत्र धान्यानां राशयो यादृशः पुनः ॥
न तादृशः कल्पवृक्षदत्ता ऐंद्रे पुरे क्वचित्
॥१००॥यत्र साक्षाद्विशालाक्षी सुविस्तारफलप्रदा ॥
न तत्र पुरि सर्वस्यां नरो वै निर्धनः क्वचित्
॥१॥निर्वाणलक्ष्म्याः सदने त्वस्मिन्नानंदकानने ॥
मोक्षोपि यत्र सुलभः किमन्यत्तत्र दुर्लभम्
॥२॥सीमंतिन्यः स्त्रियः सर्वाः पतिव्रतपरायणाः ॥
सर्वा भवानी रूपिण्यो विश्वेशार्पितसत्क्रियाः
॥३॥यावंतः पुरुषाः काश्यां सर्व एव गणाधिपाः ॥
सर्व एव कुमारा वै सर्वे तारकदृष्टयः
॥४॥त्रिपुंड्रांकितभाला ये ते सर्वे चंद्रमौलयः ॥
उपसर्गसहस्रैश्च पीड्यमाना अपीह ये
॥५॥न त्यजंति सदा काशीं सर्वज्ञा एव तेखिलाः ॥
गृहेगृहेपि वटवो ब्रह्मवादविवादिनः
॥६॥स्वर्धुनी धूतकलुषाः संतीह चतुराननाः ॥
निर्वाणलक्ष्मीपतयः क्षेत्रसंन्यासकारिणः
॥७॥सर्व एव हृषीकेशाः सर्वे वै पुरुषोत्तमाः ॥
अच्युता एव विज्ञेया एतत्क्षेत्रपरिग्रहाः
॥८॥स्त्रियो वा पुरुषा वापि सर्व एव न संशयः ॥
सर्व एव त्रिनयनाः सर्व एव चतुर्भुजाः
॥९॥श्रीकंठाः सर्व एवात्र सर्वे मृत्युंजया ध्रुवम् ॥
मोक्षश्री श्रितवर्ष्माणस्त्वर्धनारीश्वरायतः
॥११०॥धर्मराशिः परश्चात्र महांतोऽत्रार्थराशयः ॥
सर्वे कामाः फलंत्यत्र कैवल्यं चात्र निर्मलम्
॥११॥न गर्भवाससंसर्गः काशीसंस्थितिकारिणाम् ॥
न कलिश्चात्र बाधेत कालो नैव प्रबाधते
॥१२॥एनांसि नात्र बाधंते विश्वेशशरणार्थिनः ॥
यत्र विश्वेश्वरः साक्षान्नादबिंदुकलात्मकः
॥१३॥ध्वनिरूपी हि तत्रास्ति प्रणवो मंत्रविग्रहः ॥
अतो विग्रहवंतोत्र संति वेदा विनिश्चितम्
॥१४॥सरस्वती सरिद्रूपा ह्यतः शास्त्रनिकेतनम् ॥
आनंदकाननं सर्वं धर्मशास्त्रकृतालयम्
॥१५॥यावंतो दिवि वै देवास्तावंतोत्र मृषा न हि ॥
नीराजयंति विश्वेशं रात्रौ रात्रौ सदाऽहयः
॥१६॥स्वफणामणिदीपैश्च प्राप्य काशीं रसातलात् ॥
समुद्राः सर्व एवात्र कामधेनुव्रजान्विताः
॥१७॥पंचपीयूषधाराभिर्विश्वेशं स्नपयंति हि ॥
मंदारः पारिजातश्च संतानो हरिचंदनः
॥१८॥कल्पद्रुमश्च पंचैते तरुभिः सह सर्वदा
॥१९॥सर्वे सुरनिकायाश्च सर्व एव महर्षयः ॥
योगिनः सर्व एवात्र काशीनाथमुपासते
॥१२०॥विद्यानां सदनं काशी काशी लक्ष्म्याः परालयः ॥
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी
॥२१॥इति श्रुत्वा मुनिवरः पाराशर्यो महातपाः ॥
एवं बभाषे ताञ्शिष्यान्पुनःश्लोकं पठंत्वमुम्
॥२२॥शिष्या ऊचुः
विद्यानां चाश्रयः काशी काशी लक्ष्म्याः परालयः ॥
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी
॥२३॥स्कंद उवाच
निशम्येति तदा व्यासः क्रोधांधीकृतलोचनः ॥
क्षुत्कृशानुज्वलन्मूर्तिः काशीं शप्स्यति कुंभज
॥२४॥व्यास उवाच
मा भूत्त्रैपूरुषीविद्या मा भूत्त्रैपूरुषं धनम् ॥
मा भूत्त्रैपृरुषी मुक्तिः काशीं व्यासः शपन्निति
॥२५॥गर्वः परोत्र विद्यानां धनगर्वोत्र वै महान् ॥
मुक्तिगर्वेण नो भिक्षां प्रयच्छंत्यत्र वासिनः
॥२६॥इति कृत्वा मतिं व्यासः काश्यां शापमदात्तदा ॥
दत्त्वापि शापं स मुनिर्भिक्षितुं क्रोधवान्ययौ
॥२७॥प्रतिगेहं त्वरायुक्तः प्रविशन्व्योमदत्तदृक् ॥
बभ्राम नगरीं सर्वां क्वापि भैक्षं न लब्धवान्
॥२८॥अंशुमालिनमावीक्ष्य मनाग्लोहितमंडलम् ॥
भिक्षापात्रं परिक्षिप्य निर्ययावाश्रमं प्रति
॥२९॥अथ गच्छन्महादेव्या गृहद्वारि निषण्णया ॥
प्राकृतस्त्रीस्वरूपिण्या भिक्षायै प्रार्थितोतिथिः
॥१३०॥गृहिण्युवाच
भगवन्भिक्षुकास्तावदद्य दृष्टा न कुत्रचित् ॥
असत्कृत्यातिथिं नाथो न मे भोक्ष्यति कर्हिचित्
॥३१॥वैश्वदेवादिकं कर्म कृत्वा गृहपतिर्मम ॥
प्रतीक्षेतातिथिपथं तस्मात्त्वमतिथिर्भव
॥३२॥विनातिथि गृहस्थोयस्त्वन्नमेको निषेवते ॥
निषेवतेऽघं स परं सहितः स्वपितामहैः
॥३३॥तस्मात्त्वरितमायाहि कुरु मे पत्युरीहितम् ॥
गार्हस्थ्यं सफलं कर्तुमिच्छतोऽतिथिपूजनात्
॥३४॥इति श्रुत्वा गतामर्षो व्यासस्तामाह विस्मितः ॥
व्यास उवाच ॥
भद्रे का त्वं कुतः प्राप्ता पूर्वं दृष्टा न कुत्रचित्
॥३५॥मन्ये धर्ममयी मूर्तिः कापि त्वं शुचिमानसा ॥
त्वद्दर्शनात्परां प्रीतिं संप्राप्तानींद्रियाणि मे
॥३६॥त्वं सुधैव भवेः प्रायः सर्वावयवसुंदरि ॥
मंदराघातसंत्रासात्यक्तक्षीरार्णवस्थितिः
॥३७॥कलासुधाकरस्याथ कुहू राहुभयार्दिता ॥
सीमंतिनी स्वरूपेण तिष्ठेः काश्यामनिर्भया
॥३८॥अथवा कमलासि त्वं विहाय कमलालयम् ॥
निशि संकोचिनं काश्यां विकाशिन्यां वसेः सदा
॥३९॥किंवा नु करुणामूर्तिरिह काशिनिवासिनाम् ॥
सर्वदुःखौघहरिणी परानंदप्रदायिनी
॥१४०॥वाराणस्याः किमथवाऽधिष्ठात्री देवता त्वमु ॥
किं वा निर्वाणलक्ष्मीस्त्वं या काश्यां परिगीयते
॥४१॥श्वपाकं यायजूकं वा प्रांतेऽलंकुर्वती समम् ॥
मद्भाग्यं वा परिणतमेतद्योषित्स्वरूपतः
॥४२॥अथवा सा भवेन्नूनं या क्षेत्रे परिगीयते ॥
भक्तपोतप्रदा भक्त्या भवानी भवनाशिनी
॥४३॥सर्वथैव न नारी त्वं नासुरी नैव किन्नरी ॥
विद्याधरा न नो नागी नो गंधर्वी न यक्षिणी
॥४४॥त्वमिष्टदेवतैवासि काचिन्मे मोहहारिणी ॥
केयं चिंताथवामेत्र काचित्त्वं भव सुंदरि
॥४५॥परवानस्म्यहं जातस्तवदर्शनतोऽधुना ॥
अवश्यमेवकर्तास्मि तवादेश्यं तदादिश
॥४६॥एकं तपोव्ययं हित्वा कारयिष्यसि यत्पुनः ॥
तदेवाहं करिष्यामि विधेयः शुभलोचने
॥४७॥न वचस्त्वादृशीनांहि महत्त्वं हापयेत्सताम् ॥
परं त्वं कासि सुभगे सत्यं ब्रूहि ममाग्रतः
॥४८॥अथवा तव देहेस्मिन्क्वा सत्यं निर्मलेक्षणे ॥
इति पृष्टाह मुनिना सा विश्वायुर्घटोद्भव
॥४९॥अत्रत्यस्यैव हि मुने गृहिणी गृहमेधिनः ॥
नित्यं वीक्षे चरंतं त्वां भिक्षां शिष्यगणैर्वृतम्
॥१५०॥त्वमेव मां नो जानीषे जाने त्वामहमेव हि ॥
तपस्विन्किं बहूक्तेन यावन्नास्तं व्रजेद्रविः
॥५१॥प्राणनाथस्य मे तावदातिथ्यं सफलीकुरु ॥
तच्छुत्वा स मुनिः प्राह विनयानतकंधरः
॥५२॥व्यास उवाच
अस्ति मे नियमः कश्चित्स सिद्धिं चेद्व्रजेच्छुभे ॥
एकभिक्षां तदाहं तु करिष्ये नान्यथा पुनः
॥५३॥तपस्व्युदीरितं श्रुत्वा सा प्रोवाच वचस्ततः ॥
अविशंक वद मुने कस्तेस्ति नियमः सुधीः
॥५४॥मम भर्तुः प्रसादेन किंचिन्न्यूनं यतोऽत्र न ॥
इति श्रुत्वा प्रहृष्टात्मा स तामाह तपोधनः
॥५५॥अयुतं मम शिष्या ये तैः सपक्तिमहं वृणे ॥
अस्तं यावन्न यात्यर्कस्तावद्भोक्ष्येन्यथा नहि
॥५६॥निशम्येति प्रहृष्टास्या सा प्रोवाच मुनिंततः ॥
किं विलंबेन तद्याहि सर्वाञ्शिष्यान्समाह्वय ॥
पुनः प्राह स तां साध्वि त्वेतावत्सिद्धिरस्ति ते ॥
येन तृप्तिं गमिष्यंति मच्छिष्याः सर्व एव ते
॥५८॥स्मित्वाथ साब्रवीत्तं तु मुने भर्तुरनुग्रहात् ॥
सिद्धमेव सदैवास्ते सर्वं तावन्ममालये
॥५९॥यावतार्थिजनस्तृप्तिमेति सर्वोपि सर्वशः ॥
वयं न तादृङ्महिला भर्तृसंदेहकारिकाः
॥१६०॥आयातोर्थी यदा गेहे सिद्धं कार्यं तदैव हि ॥
परिपूर्णा दिशः सर्वाः परिपूर्णामनोरथाः
॥६१॥परिपूर्णगृहं सर्वं पत्युःपाद प्रसादतः ॥
याहि तूर्णं समायाहि यावदन्नार्थिभिः सह
॥६२॥पतिर्मे बहुकालीनः कालं न सहते चिरम् ॥
प्रियातिथिः प्रियतमस्तदातिथ्यसमृद्धये
॥६३॥आशु गत्वा समागच्छ यावन्नास्तमितो रविः ॥
इति प्रहृष्टस्त्वरितः शिष्यानाहूय सर्वतः
॥६४॥आगत्यतां पुनः प्राह दृष्ट्वा तन्मार्गलोचनाम् ॥
मातः सर्वे समायातास्त्वरितं देहि भोजनम्
॥६५॥अस्ताचलं हि समया समियादेष भास्करः ॥
इत्युक्त्वा मंदिरस्यांतर्विविशुस्ते तपोधनाः
॥६६॥तन्मंडपमणिज्योतिस्तत्याहितदिनश्रियः ॥
यावद्गच्छतितत्सौधमध्यमाशु तपस्विनः
॥६७॥पादौप्रक्षाल्य तावत्ते कैश्चित्कैश्चित्समर्च्य च ॥
कतिचित्परिविष्टान्ना भोक्तुमेवोपवेशिताः
॥६८॥तद्दिव्यपाकसंभारान्दृष्टवा तद्दृष्टयः क्षणात् ॥
परातृप्तिमुपागच्छन्घ्राणन्यामोदराजिभिः
॥६९॥अतितृप्तिं समापन्नास्ते तदन्ननिषेवणात् ॥
आचांताश्चंदनैः स्रग्भिरंबरैः परिभूषिताः
॥१७०॥अथ सांध्यं विधिं कृत्वा प्रोपविश्य तदग्रतः ॥
अभिनंद्य महाशीर्भिर्यावद्गंतुं प्रचक्रमुः
॥७१॥तावद्वृद्धगृहस्थेन गृहिणी सा कटाक्षिता ॥
पप्रच्छ तीर्थे वसतां को धर्मो मुख्य एव हि
॥७२॥तथा तदनुसारेण तीर्थे वर्तामहे वयम् ॥
सर्वधर्मविदां श्रेष्ठः श्रुत्वा तद्गृहिणी वचः
॥७३॥तदादरसुधाक्लिन्न महान्नस्वादतर्पितः ॥
प्रत्युवाच मुनिर्व्यासः स्मित्वा तां सर्ववित्तमाम्
॥७४॥व्यास उवाच
स्वच्छांतःकरणेमातर्महामिष्टान्नमानदे ॥
स एष धर्मो नान्योस्ति यत्त्वया परिचर्यते
॥७५॥त्वमेव धर्मं जानासि पतिशुश्रूषणे रता ॥
यदि पृच्छसि मां सत्यं तदा किंचन वच्मि ते
॥७६॥वक्तव्यमेव पृष्टेन मनागपि विजानता ॥
स एव धर्मः सुभगे नान्यो धर्मोस्ति कश्चन
॥७७॥येनैष तोषमायाति तव भर्ता चिरंतनः ॥
गृहिण्युवाच ॥
अयं धर्मो भवेन्नूनं क्रियते च स्वशक्तितः
॥७८॥साधारणानि धर्माणि संपृच्छे तानि मे वद ॥
व्यास उवाच ॥
अनुद्वेगकरं वाक्यं परोत्कर्षसहिष्णुता
॥७९॥विचार्य कारिता नित्यं स्वधिष्ण्योदय चिंतनम् ॥
गृहस्थ उवाच ॥
एषु धर्मेषु भो विद्वंस्त्वयि कोस्तीह तद्वद
॥१८०॥ततः स्थगितवद्व्यासस्तस्थौ किंचिन्न चोक्तवान् ॥
ततः पुनर्गृहस्थेन स हि प्रोक्तस्तपोधनः
॥८१॥यद्येत एव वै धर्मास्त्वया ये प्रतिपादिताः ॥
तद्दांतता तवैवैक्षि दानं शापस्य चोत्तमम्
॥८२॥त्वय्येव हि दया सम्यग्धैर्यं त्वय्येव चोत्तमम् ॥
त्वयि संभावनास्त्येव कामक्रोधविनिग्रहे
॥८३॥त्वमेव सम्यग्जानीषे वक्तुं चोद्वेगवर्जितम् ॥
त्वय्येव सम्यग्दृश्येत परोत्कर्ष सहिष्णुता
॥८४॥विचार्य कारितायाश्च त्वमेव निलयोमहान् ॥
स्वस्यधिष्ण्यस्य च भवांश्चिंतयेदुदयं ध्रुवम्
॥८५॥ममैकं ब्रूहि भो विद्वञ्छापं दद्याच्च यः क्रुधा ॥
अलभन्स्वार्थसंसिद्धिमभाग्यात्तस्य कस्य सः
॥८६॥व्यास उवाच
यः स्वार्थसिद्धिमलभन्नभाग्याच्छपति क्रुधा ॥
स शापः प्रत्युत भवेच्छप्तुरेवाविवेकिनः
॥८७॥गृहस्थ उवाच
भवता भ्रमता विप्र नाप्ताभिक्षा यदाप्यहो ॥
तदापराद्धं किमिह वराकैः क्षेत्रवासिभिः
॥८८॥तपस्विञ्शृणु मे वाक्यं राजधान्यां ममेह यः ॥
ऋद्धिं द्रष्टुं न शक्नोति परिशप्तः स एव हि
॥८९॥अद्य प्रभृति न क्षेत्रे मदीये शापवर्जिते ॥
आवस क्रोधन मुने न वासे योग्यतात्र ते
॥१९०॥इदानीमेव निर्गच्छ बहिः क्षेत्रादितो भव ॥
त्वद्विधानां न योग्यं मे क्षेत्रं मोक्षैकसाधनम्
॥९१॥अत्राल्पमपि यद्दौष्ट्यं कृतं मत्क्षेत्रवासिनाम् ॥
तद्दौष्ट्यस्य परीपाको रुद्रपैशाच्यमेव हि
॥९२॥तच्छ्रुत्वा वेपमानः स परिशुष्कौष्ठतालुकः ॥
जगाम शरणं गौरीं लुठंस्तच्चरणाग्रतः
॥९३॥उवाच च वचो मातस्त्राहि त्राहि भृशं रुदन् ॥
अनाथस्त्वत्सनाथोहं बालिशस्तव बालकः
॥९४॥शरणागतं च संत्राहि रक्ष मां शरणागतम् ॥
बहूनामागसां गेहमस्माकं दुष्टमानसम्
॥९५॥शंभुशापोऽन्यथाकर्तुं भवत्यापि न शक्यते ॥
अहं च शरणायातस्तदेकं क्रियतां शिवे
॥९६॥प्रत्यष्टमि सदा क्षेत्रे प्रतिभूतं च पार्वति ॥
दिश प्रवेशनादेशं नेशस्त्वद्वाक्यलंघकः
॥९७॥इत्युक्ता तेन मुनिना भवानी करुणाजनिः ॥
मुखं महेशितुर्वीक्ष्य तथेत्याह तदाज्ञया
॥९८॥अथांतर्हितवंतौ तौ शिवौ क्षेत्रशिवंकरौ ॥
व्यासोपि निर्ययौ क्षेत्रात्स्वापराधवशं वदन्
॥९९॥अहोरात्रं स पश्यन्वै क्षेत्रं दृष्टेरदूरगम् ॥
प्राप्याष्टमीं च भूतां च मध्ये क्षेत्रं सदा विशेत्
॥२००॥लोलार्कादग्निदिग्भागे स्वर्धुनीं पूर्वरोधसि ॥
स्थितो ह्यद्यापि पश्येत्स काशीप्रासादराजिकाम्
॥१॥स्कंद उवाच
इत्थं कुंभज स व्यासः क्षेत्रे शापं प्रदास्यति ॥
क्षेत्रशापप्रदानाच्च बहिर्यास्यति तत्क्षणात्
॥२॥अतएवाविमुक्तस्य क्षेत्रस्य शुभशंसिनः ॥
भविष्यति शुभं नित्यमन्यथा त्वन्यथैव हि
॥३॥श्रुत्वाध्यायमिमं पुण्यं व्यासशाप विमोक्षणम् ॥
महादुर्गोपसर्गेभ्यो भयं तस्य न कुत्रचित्
॥२०४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासशापविमोक्षणं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥