मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८०

3
काशीखण्डः · 80

कुंभोद्भूत तदाश्चर्यं विलोक्य जगदंबिका

स्कंद उवाच

कुंभोद्भूत तदाश्चर्यं विलोक्य जगदंबिका ॥

उवाच शंभुं प्रणता प्रणतार्तिहरं परम्

॥१॥

अंबिकोवाच

अस्य पीठस्य माहात्म्यं महादेव महेश्वर ॥

तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम्

॥२॥

अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे ॥

धर्मेश्वरसमीपेहं स्थास्याम्यद्य दिनावधि

॥३॥

अत्र लिंगे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा ॥

तेषामभीष्टां संसिद्धिं साधयिष्याम्यहं सदा

॥४॥

ईश्वर उवाच

साधुकृतं त्वया देवि कृतवत्या परिग्रहम् ॥

अस्येह धर्मपीठस्य मनोरथकृतः सताम्

॥५॥

त एव विश्वभोक्तारो विश्वमान्यास्त एव हि ॥

ये त्वां विश्वभुजामत्र पूजयिष्यंति मानवाः

॥६॥

विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे ॥

नरास्त्वदर्चकाश्चात्र भविष्यंत्यमलात्मकाः

॥७॥

मनोरथतृतीयायां यस्ते भक्तिं विधास्यति ॥

तन्मनोरथसंसिद्धिर्भवित्री मदनुग्रहात्

॥८॥

नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये ॥

मनोरथानिह प्राप्य ज्ञानमंते च लप्स्यते

॥९॥

देव्युवाच

मनोरथतृतीयायां व्रतं कीदृक्कथा कथम् ॥

किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु

॥१०॥

ईश्वर उवाच

शृणु देवि यथा पृष्टं भवत्या भवतारिणि ॥

मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम्

॥११॥

पुलोमतनया पूर्वं तताप परमं तपः ॥

किंचिन्मनोरथं प्राप्तुं न चाप तपसः फलम्

॥१२॥

अपूपुजत्ततो मां सा भक्त्या परमया मुदा ॥

गीतेन सरहस्येन कलकंठीकलेन हि

॥१३॥

तद्गानेनातिसंतुष्टो मृदुना मधुरेण च ॥

सुतालेन सुरंगेण धातुमात्राकलावता

॥१४॥

प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे ॥

अनेन च सुगीतेन त्वनया लिंगपूजया

॥१५॥

पुलोमजोवाच

यदि प्रसन्नो देवेश तदा यो मे मनोरथः ॥

तं पूरय महादेव महादेवी महाप्रिय

॥१६॥

सर्वदेवेषु यो मान्यः सर्वदेवेषु सुंदरः ॥

यायजूकेषु सर्वेषु यः श्रेष्ठः सोस्तु मे पतिः

॥१७॥

यथाभिलषितं रूपं यथाभिलषितं सुखम् ॥

यथाभिलषितं चायुः प्रसन्नो देहि मे भव

॥१८॥

यदायदा च पत्या मे संगः स्याद्धृत्सुखेच्छया ॥

तदातदा च तं देहं त्यक्त्वान्यं देहमाप्नुयाम्

॥१९॥

सदा च लिंगपूजायां मम भक्तिरनुत्तमा ॥

भव भूयाद्भवहर जरामरणहारिणी

॥२०॥

भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न ॥

मम भावि महादेव पातिव्रत्यं च यातु मा

॥२१॥

स्कंद उवाच

इमं मनोरथं तस्याः पौलोम्याः पुरसूदनः ॥

समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः

॥२६॥

ईश्वर उवाच

पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः ॥

लप्स्यसे व्रतचर्यातस्तत्कुरुष्व जितेंद्रिये

॥२३॥

मनोरथतृतीयायाश्चरणेन भविष्यति ॥

तत्प्राप्तये व्रतं वक्ष्ये तद्विधेहि यथोदितम्

॥२४॥

तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ॥

अवश्यं भविता बाले तव चैवं मनोरथः

॥२५॥

पुलोमकन्यावोच ॥

कारुण्यवारिधे शंभो प्रणतप्राणि सर्वद ॥

किमात्मिकाथ का शक्तिः का पूज्या तत्र देवता

॥२६॥

कदा च तद्विधातव्यमिति कर्तव्यता च का ॥

इत्याकर्ण्य शिवो वाक्यं तां तु प्रणिजगाद ह

॥२७॥

ईश्वर उवाच

मनोरथतृतीयायां व्रतं पौलोमि तच्छुभम् ॥

पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी

॥२८॥

वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः ॥

देव्याः पुरस्ताद्व्रतिना पूज्य आशाविनायकः

॥२९॥

चैत्रशुक्ल तृतीयायां कृत्वा वै दंतधावनम् ॥

सायंतनीं च निर्वर्त्य नातितृप्त्या भुजिक्रियाम्

॥३०॥

नियमं चेति गृह्णीयाज्जितक्रोधो जितेंद्रियः ॥

संत्यक्तास्पृश्य संस्पर्शः शुचिस्तद्गतमानसः

॥३१॥

प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे ॥

विधेहि तत्र सांनिध्यं मन्मनोरथसिद्धये

॥३२॥

नियमं चेति संगृह्य स्वपेद्रात्रौ शुभं स्मरन् ॥

प्रातरुत्थाय मेधावी विधायावश्यकं विधिम्

॥३३॥

शौचमाचमनं कृत्वा दंतकाष्ठं समाददेत् ॥

अशोकवृक्षस्य शुभं सर्वशोकनिशातनम्

॥३४॥

नित्यंतनं च निष्पाद्य विधिं विधिविदांवरः ॥

स्नात्वा शुद्धांबरः सायं गौरीपूजां समाचरेत्

॥३५॥

आदौ विनायकं पूज्य घृतपूरान्निवेद्य च ॥

ततोर्चयेद्विश्वभुजामशोककुसुमैः शुभैः

॥३६॥

अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसंभवैः ॥

कुंकुमेनानुलिप्यादावेकभक्तं ततश्चरेत्

॥३७॥

अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः ॥

एवं चैत्रतृतीयायां व्यतीतायां पुलोमजे

॥३८॥

राधादिफाल्गुनांतासु तृतीयासु व्रतं चरेत् ॥

क्रमेण दंतकाष्ठानि कथयामि तवानघे

॥३९॥

अनुलेपनवस्तूनि कुसुमानि तथैव च ॥

नैवेद्यानि गजास्यस्य देव्याश्चापि शुभव्रते

॥४०॥

अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये ॥

जंब्वपामार्ग खदिर जाती चूतकदंबकम्

॥४१॥

प्लक्षोदुंबरखर्जूरी बीजपूरी सदाडिमी ॥

दंतकाष्ठ द्रुमा एते व्रतिनः समुदाहृताः

॥४२॥

सिंदूरागुरु कस्तूरी चंदनं रक्तचंदनम् ॥

गोरोचना देवदारु पद्माक्षं च निशाद्वयम्

॥४३॥

प्रीत्यानुलेपनं बाले यक्षकर्दमसंभवम् ॥

सर्वेषामप्यलाभे च प्रशस्तो यक्षकर्दमः

॥४४॥

कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुंकुमस्य च ॥

चंदनस्य त्रयो भागाः शशिनस्त्वेक एव हि

॥४५॥

यक्षकर्दम इत्येष समस्तसुरवल्लभः ॥

अनुलिप्याथ कुसुमैरर्चयेद्वच्मि तान्यपि

॥४६॥

पाटला मल्लिका पद्म केतकी करवीरकः ॥

उत्पलै राजचंपैश्च नंद्यावर्तैश्च जातिभिः

॥४७॥

कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह ॥

सुगंधिभिः प्रसूनोघैः सर्वालाभेपि पूजयेत्

॥४८॥

करंभो दधिभक्तं च सचूतरसमंडकाः ॥

फेणिका वटकाश्चैव पायसं च सशर्करम्

॥४९॥

समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् ॥

इंडेरिकाश्च लड्डूका माघे लंपसिका शुभा

॥५०॥

मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः ॥

निवेद्याः फाल्गुने देव्यै सार्धं विघ्नजिता मुदा

॥५१॥

निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम् ॥

अन्यन्निवेद्य संमूढो भुंजानोऽन्यत्पतेदधः

॥५२॥

प्रतिमासं तृतीयायामेवमाराध्य वत्सरम् ॥

व्रतसंपूर्तये कुर्यात्स्थंडिलेऽग्निसमर्चनम्

॥५३॥

जातवेदसमंत्रेण तिलाज्यद्रविणेन च ॥

शतमष्टाधिकं होमं कारयेद्विधिना व्रती

॥५४॥

सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ॥

नक्त एव हि होमोऽयं नक्त एव क्षमापनम्

॥५५॥

गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह ॥

नमोस्तु ते विश्वभुजे पूरयाशु मनोरथम्

॥५६॥

नमो विघ्नकृते तुभ्यं नम आशाविनायक ॥

त्वं विश्वभुजया सार्धं मम देहि मनोरथम्

॥५७॥

एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ ॥

व्रतक्षमापने देयः पर्यंकस्तूलिकान्वितः

॥५८॥

उपधान्या समायुक्तो दीपीदपर्णसंयुतः ॥

आचार्यं च सपत्नीकं पर्यंक उपवेश्य च

॥५९॥

व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः ॥

सुगंधचंदनैर्माल्यैर्दक्षिणाभिर्मुदान्वितः

॥६०॥

दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये ॥

तथोपभोगवस्तूनिच्छत्रोपानत्कमंडलुम्

॥६१॥

मनोरथतृतीयाया व्रतमेतन्मया कृतम् ॥

न्यूनातिरिक्तं संपूर्णमेतदस्तु भवद्गिरा

॥६२॥

इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै ॥

आसीमांतमनुव्रज्य दत्त्वान्येभ्योपि शक्तितः

॥६३॥

नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः ॥

प्रातश्चतुर्थ्यां संभोज्य चतुरश्च कुमारकान्

॥६४॥

अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः ॥

एवं संपूर्णतां याति व्रतमेतत्सुनिर्मलम्

॥६५॥

कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम् ॥

पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम्

॥६६॥

तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ॥

कुर्वन्नेतद्व्रतं वर्षं कुमारः प्राप्नुयात्स्फुटम्

॥६७॥

कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ॥

सुवासिनी लभेत्पुत्रान्पत्युः सौख्यमखंडितम्

॥६८॥

दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी ॥

विधवापि न वैधव्यं पुनराप्नोति कुत्रचित्

॥६९॥

गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् ॥

ब्राह्मणो लभते विद्यां सर्वसौभाग्यदायिनीम्

॥७०॥

राज्यभ्रष्टो लभेद्राज्यं वैश्यो लाभं च विंदति ॥

चिंतितं लभते शूद्रो व्रतस्यास्य निषेवणात्

॥७॥

धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥

कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात्

॥७२॥

यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम् ॥

मनोरथतृतीयाया व्रतस्य चरणाद्व्रती

॥७३॥

स्कंद उवाच

इत्थं निशम्य शिवतः शिवा संतुष्टमानसा ॥

पुनः पप्रच्छ विश्वेशं प्रबद्धकरसंपुटा

॥७४॥

अन्यत्र ये व्रतं चैतत्करिष्यंति सदाशिव ॥

ते कथं पूजयिष्यंति मां च आशाविनायकम्

॥७५॥

शिव उवाच

साधु पृष्टं त्वया देवि सर्वसंदेहभेदिनि ॥

वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी

॥७६॥

आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा ॥

हारिणानंतविघ्नानां मम क्षेत्र शुभार्थिना

॥७७॥

क्षिप्रमागमयित्वा च नत्वा दूरंगतानपि ॥

कृतकृत्यान्विधायाथ चिंतितैः समनोरथैः

॥७८॥

अन्यत्र व्रतिभिर्विश्वे कांचनीप्रतिमा तव ॥

पंचकृष्णलकादूर्ध्वं कार्या विघ्नहृतोपि च

॥७९॥

आचार्याय व्रती दद्याद् व्रतांते प्रतिमा द्वयम् ॥

सकृत्कृते व्रती चास्मिन्कृतकृत्यो व्रती भवेत्

॥८०॥

ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम् ॥

कृत्वा मनोरथं प्राप यथाभिवांछितं हृदि

॥८१॥

अरुंधत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया ॥

सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोंऽगजोत्तमः

॥८२॥

सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम् ॥

चतुर्भुजः पतिः प्राप्तः क्षीरनीरधिजन्मना

॥८३॥

किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम् ॥

व्रतानि तेन सर्वाणि कृतानि व्रतिना ध्रुवम्

॥८४॥

श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः ॥

शुभबुद्धिमवाप्नोति पापैरपि विमुच्यते

॥८५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याने विश्वभुजाशाविनायकप्रशंसने मनोरथतृतीयाव्रताख्यानं नामाशीतितमोध्यायः ॥ ८० ॥