मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४४

3
काशीखण्डः · 44

परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे

स्कंद उवाच

अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे ॥

परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे

॥१॥

निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः ॥

लभते स्म न शर्म शंकरः प्रसरत्काशिवियोगज ज्वरः

॥२॥

विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः ॥

मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम् ।

३ परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि ॥

गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा

॥४॥

यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः ॥

स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः

॥५॥

यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे ॥

परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते

॥६॥

महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः ॥

विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः

॥७॥

अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना ॥

स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः

॥८॥

निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः ॥

स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु

॥९॥

गरलं गलनालिकातले विलसेदस्य न तेन तापितः ॥

अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम्

॥१०॥

विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये ॥

हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु

॥११॥

सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः ॥

इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसंभवः

॥१२॥

स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम् ॥

स हि काशिवियोगतापितः स्वगतं किंचिदजल्पदित्यजः

॥१३॥

अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम ॥

दवथुः परिशांतिमेति तन्नहि मानी परिगाहनैरपि

॥१४॥

अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः ॥

ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि

॥१५॥

न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् ॥

अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा

॥१६॥

अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम् ॥

अतिशीतलितानि येन मेऽद्भुतगात्राणि भवंति तत्क्षणात्

॥१७॥

अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः ॥

अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते

॥१८॥

अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन ॥

अधुना खलु नैव शांतिमीयां यदि काशीं न विलोकयेहमाशु

॥१९॥

मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः ॥

जगदंबिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि

॥२०॥

प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः ॥

वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः

॥२१॥

श्रीपार्वत्युवाच

तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते ॥

तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री

॥२२॥

त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत् ॥

च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोंकृतः

॥२३॥

भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः ॥

नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ

॥२४॥

भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ ॥

अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता

॥२५॥

इति संसृतिसंबीजजनन्याभिहिते हिते ॥

गिरां निगुंफे गिरिशो वक्तुमप्याददे गिरम्

॥२६॥

ईश्वर उवाच

अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् ॥

सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः

॥२७॥

अथबालसखी भूत तत्तत्काननवीरुधम् ॥

शिवाप्रस्तावयांचक्रे विमुक्तां मुक्तिदां पुरीम्

॥२८॥

पार्वत्युवाच

गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् ॥

कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः

॥२९॥

धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे ॥

धरागतापीह न या ध्रुवंधरा पुरीधुरीणा तव काशिका यथा

॥३०॥

न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः ॥

न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत्

॥३१॥

किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः ॥

परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव

॥३२॥

त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः ॥

तृणी भवंतीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः

॥३३॥

न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् ॥

उपाय एषोत्र निदाघशांतये पुरी तु सा वा ममजन्मभूरथ

॥३४॥

मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः ॥

अवाप्यकाशीं परितः प्रशांतिदां समस्तसंतापविघातहेतुकाम्

॥३५॥

न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् ॥

अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका

॥३६॥

न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना ॥

क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम्

॥३७॥

न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे ॥

वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि

॥३८॥

क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते ॥

मनोपि यः प्राणिवरः प्रयुंक्ते षडंगयोगं स सदैव युंक्ते

॥३९॥

षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते ॥

सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम्

॥४०॥

वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् ॥

अकाशिसंदर्शननिष्फलोदयं समंततः पुष्करबुद्बुदोपमम्

॥४१॥

दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी ॥

मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसंमुखम्

॥४२॥

वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् ॥

कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः

॥४३॥

न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः ॥

तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम्

॥४४॥

महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम् ॥

परः शतैर्जन्मभिरेधितापि या दिवाकराग्नींदुकरैरनिग्रहा

॥४५॥

किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः ॥

अथवा मणिकर्णिकास्थली परमानंदसुकंदजन्मभूमिः

॥४६॥

समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः ॥

विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः

॥४७॥

स्कंद उवाच

अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने ॥

पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्

॥४८॥

श्रीपार्वत्युवाच

प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन ॥

यथानंदवनं यायां तथा कुरु वरप्रद

॥४९॥

स्कन्द उवाच

जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् ॥

अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम्

॥५०॥

श्रीदेवदेव उवाच

अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः ॥

आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना

॥५१॥

त्वं जानासि महादेवि मम यत्तन्महद्व्रतम् ॥

अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत्

॥५२॥

पितामहस्य वचनाद्दिवोदासे महीपतौ ॥

धर्मेण शासति पुरीं क उपायो विधीयताम्

॥५३॥

कथं स राजा धर्मिष्ठः प्रजापालनतत्परः ॥

वियोज्यते पुरः काश्या दिवोदासो महीपतिः

॥५४॥

अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु ॥

तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत्

॥५५॥

धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् ॥

तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि

॥५६॥

विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे ॥

मयैव हि यतो रक्ष्याः प्रिये धर्मधुरंधराः

॥५७॥

न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति ॥

व्याधयस्तं न बाधंते धर्मवर्त्मभृदत्रयः

॥५८॥

इति संचिंतयन्देवो योगिनीचक्रमग्रतः ॥

ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम्

॥५९॥

अथ देव्या समालोच्य व्योमकेशो महामुने ॥

योगिनीवृंदमाहूय जगौ वाक्यमिदं हरः

॥६०॥

सत्वरं यात योगिन्यो मम वाराणसीं पुरीम् ॥

यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम्

॥६१॥

स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः ॥

तथोपचरत प्राज्ञा योगमायाबलान्विताः

॥६२॥

यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् ॥

इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम्

॥६३॥

इति प्रसादमासाद्य शासनं शिरसा वहन् ॥

कृतप्रणामो निर्यातो योगिनीनां गणस्ततः

॥६४॥

ययुराकाशमाविश्य मनसोप्य तिरंहसा ॥

परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः

॥६५॥

अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् ॥

कृतप्रसादाः प्रहिताः श्रीमदानंदकाननम्

॥६६॥

अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ ॥

त्रिनेत्रराजसंमानस्तथा काशी विलोकनम्

॥६७॥

इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात् ॥

नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलंभयत्पुरीं ताम्

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे काशीवर्णनं नाम चतुश्चत्वारिंशोध्यायः ॥ ४४ ॥