केदारमहिमाख्यानम्
पार्वत्युवाच
नमस्ते देवदेवेश प्रणमत्करुणानिधे ॥
वद केदारमाहात्म्यं भक्तानामनुकंपया
॥१॥तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा ॥
तद्भक्ताश्च जना नित्यं देवदेवमहाधियः
॥२॥देवदेव उवाच
शृण्वपर्णेभिधास्यामि केदारेश्वर संकथाम् ॥
समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात्
॥३॥केदारं यातुकामस्य पुंसो निश्चितचेतसः ॥
आजन्मसंचितं पापं तत्क्षणादेव नश्यति
॥४॥गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम् ॥
जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत्
॥५॥मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ॥
देहगेहाद्विनिःसृत्य निराशं याति निःश्वसत्
॥६॥सायंकेदारकेदारकेदारेति त्रिरुच्चरन् ॥
गृहेपि निवसन्नूनं यात्राफलमवाप्नुयात्
॥७॥दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमंबु च ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः
॥८॥हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ॥
कोटिजन्मार्जितैनोभिर्मुच्यते नात्र संशयः
॥९॥सकृत्प्रणम्य केदारं हरपापकृतोदकः ॥
स्थाप्य लिंगं हृदंभोजे प्रांते मोक्षं गमिष्यति
॥१०॥हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ॥
उद्धृत्य सप्तपुरुषान्स मे लोकं गमिष्यति
॥११॥पुरा राथंतरे कल्पे यदभूदत्र तच्छृणु ॥
अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः
॥१२॥एको ब्राह्मणदायाद उज्जयिन्या इहागतः ॥
कृतोपनयनः पित्रा ब्रह्मचर्यव्रतेस्थितः
॥१३॥स्थलीं पाशुपतीं काशीं स विलोक्य समंततः ॥
द्विजैः पाशुपतैः कीर्णां जटामुकुटभूषितैः
॥१४॥कृतलिंगसमर्चैश्च भूतिभूषितवर्ष्मभिः ॥
भिक्षाहृतान्नसंतुष्टैः पुष्टैर्गंगामृतोदकैः
॥१५॥बभूवानंदितमना व्रतं जग्राह चोत्तमम् ॥
हिरण्यगर्भादाचार्यान्महत्पाशुपताभिधम्
॥१६॥स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः ॥
स्नात्वा ह्रदे हरपापे नित्यप्रातः समुत्थितः
॥१७॥विभूत्याहरहः स्नाति त्रिकालं लिंगमर्चयन् ॥
नांतरं स विजानाति शिवलिंगे गुरौ तथा
॥१८॥स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ॥
ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम्
॥१९॥यत्र गत्वा न शोचंति किंचित्संसारिणः क्वचित ॥
प्राश्योदकं लिंगरूपं लिंगरूपत्वमागताः
॥२०॥असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ॥
गुरुर्हिरण्यगर्भाख्यः पंचत्वमगमत्तदा
॥२१॥पश्यतां तापसानां च विमाने सार्वकामिके ॥
आरोप्य तं पारिषदाः कैलासमनयन्मुदा
॥२२॥यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो ॥
अकातरस्त्यजेत्प्राणान्कैलासे स चिरं वसेत्
॥२३॥तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः ॥
केदारमेव लिंगेषु बह्वमंस्त सुनिश्चितम्
॥२४॥अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ॥
अग्रहीन्नियमं चापि यथार्थं चाकरोत्पुनः
॥२५॥प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ॥
विलोकयिष्ये केदारं वसन्वाराणसीं पुरीम्
॥२६॥तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ॥
आनंदकानने नित्यं वसता ब्रह्मचारिणा
॥२७॥पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि ॥
परमोत्साहसंतुष्टः पलिता कलितोप्यलम्
॥२८॥तपोधनैस्तन्निधनं शंकमानैर्निवारितः ॥
कारुण्यपूर्णहृदयैरन्यैरपि च संगिभिः
॥२९॥ततोपि न तदुत्साहभंगोभूद्दृढचेतसः ॥
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम
॥३०॥इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ॥
अशूद्रान्न परीपुष्टे तुष्टोहं चंडिकेऽभवम्
॥३१॥स्वप्रेमया स संप्रोक्तो वशिष्ठस्तापसोत्तमः ॥
दृढव्रत प्रसन्नोस्मि केदारं विद्धि मामिह
॥३२॥अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम् ॥
इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोब्रवीत्
॥३३॥ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम् ॥
भवादृशाममिथ्यैव स्वाख्या सदृशवर्तिनाम्
॥३४॥वरं ब्रूहि प्रसन्नोस्मि स्वप्नशंकां त्यज द्विज ॥
तव सत्त्ववतः किंचिन्मयादेयं न किंचन
॥३५॥इत्युक्तं मे समाकर्ण्य वरयामास मामिति ॥
शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः
॥३६॥यदि प्रसन्नो देवेश तदा मे सानुगा इमे ॥
सर्वे शूलिन्नुग्राह्या एष एव वरो मम
॥३७॥देवि तस्येदमाकर्ण्य परोपकृतिशालिनः ॥
वचनं नितरां प्रीतस्तथेति तमुवाच ह
॥३८॥पुनः परोपकरणात्तत्तपो द्विगुणीकृतम् ॥
तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु
॥३९॥स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः ॥
देवि मे प्रार्थयामास हिमशैलादिह स्थितिम्
॥४०॥ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि ॥
हिमशैले ततश्चात्र सर्वभावेन संस्थितः
॥४१॥ततः प्रभाते संजाते सर्वेषां पश्यतामहम् ॥
हिमाद्रे प्रस्थितः प्राप्तस्तूयमानः सुरर्षिभिः
॥४२॥वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम् ॥
हरपापह्रदे तीर्थे स्थितोहं तद्नुग्रहात्
॥४३॥मत्परिग्रहतः सर्वे हरपापे कृतोदकाः ॥
आराध्य मामनेनैव वपुषा सिद्धिमागताः
॥४४॥तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये ॥
अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः
॥४५॥तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम् ॥
तत्फलं सप्तगुणितं काश्यां केदारदर्शने
॥४६॥गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम् ॥
यथा मधुस्रवा गंगा काश्यां तदखिलं तथा
॥४७॥इदं तीर्थं हरपापं सप्तजन्माघनाशनम् ॥
गंगायां मिलितं पश्चाज्जन्मकोटिकृताघहम्
॥४८॥अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः ॥
पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ
॥४९॥गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे ॥
गौरीतीर्थं ततः ख्यातं सर्वतीर्थोत्तमोत्तमम्
॥५०॥अत्रामृतस्रवा गंगा महामोहांधकारहृत् ॥
अनेकजन्मजनित जाड्यध्वंसविधायिनी
॥५१॥सरसा मानसेनात्र पूर्वं तप्तं महातपः ॥
अतस्तु मानसं तीर्थं जने ख्यातिमिदं गतम्
॥५२॥अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते ॥
पश्चात्प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः
॥५३॥सर्वे मुक्तिं गमिष्यंति यदि देवेह मानवाः ॥
केदारकुंडे सुस्नातास्तदोच्छित्तिर्भविष्यति
॥५४॥सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम् ॥
तस्मात्तनुविसर्गेत्र मोक्षं दास्यति नान्यथा
॥५५॥ततस्तदुपरोधेन तथेति च मयोदितम् ॥
तदारभ्य महादेवि स्नानात्केदारकुंडतः
॥५६॥समर्चनाच्च भक्त्या वै मम नाम जपादपि ॥
नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम
॥५७॥केदारतीर्थे यः स्नात्वा पिंडान्दास्यति चात्वरः ॥
एकोत्तरशतं वंश्यास्तस्य तीर्णा भवांबुधिम्
॥५८॥भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः ॥
केदारकुंडमासाद्य गयाश्राद्धेन किं ततः
॥५९॥केदारं गंतुकामस्य बुद्धिर्देया नरैरियम् ॥
काश्यां स्पृशंस्त्वं केदारं कृतकृत्यो भविष्यसि
॥६०॥चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥
त्रिगंडूषान्पिबन्प्रातर्हृल्लिंगमधितिष्ठति
॥६१॥केदारोदकपानेन यथा तत्र फलं भवेत् ॥
तथात्र जायते पुंसां स्त्रीणां चापि न संशयः
॥६२॥केदारभक्तं संपूज्य वासोन्नद्रविणादिभिः ॥
आजन्मजनितं पापं त्यक्त्वा याति ममालयम्
॥६३॥आषण्मासं त्रिकालं यः केदारेशं नमस्यति ॥
तं नमस्यंति सततं लोकपाला यमादयः
॥६४॥कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति ॥
यो वेत्स्यति सुपुण्यात्मा सर्वं वेत्स्यति स ध्रुवम्
॥६५॥केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत् ॥
तस्मात्काश्यां प्रयत्नेन केदारेशं विलोकयेत्
॥६६॥चित्रांगदेश्वरं लिंगं केदारादुत्तरे शुभम् ॥
तस्यार्चनान्नरो नित्यं स्वर्गभोगानुपाश्नुते
॥६७॥केदाराद्दक्षिणे भागे नीलकंठ विलोकनात् ॥
संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम्
॥६८॥तद्वायव्यंबरीषेशो नरस्तदवलोकनात् ॥
गर्भवासं न चाप्नोति संसारे दुःखसंकुले
॥६९॥इंद्रद्युम्नेश्वरं लिंगं तत्समीपे समर्च्य च ॥
तेजोमयेन यानेन स स्वर्ग भुवि मोदते
॥७०॥तद्दक्षिणे नरो दृष्ट्वा लिंगं कालंजरेश्वरम् ॥
जरां कालं विनिर्जित्य मम लोके वसेच्चिरम्
॥७१॥दृष्ट्वा क्षेमेश्वरं लिंगमुद्क्चित्रांगदेश्वरात् ॥
सर्वत्र क्षेममाप्नोति लोकेऽत्र च परत्र च
॥७२॥स्कंद उवाच
देवदेवेन विंध्यारे केदार महिमा महान् ॥
इत्याख्यायि पुरांबायै मया तेपि निरूपितः
॥७३॥केदारेश्वरलिंगस्य श्रुत्वोत्पत्तिं कृती नरः ॥
शिवलोकमवाप्नोति निष्पापो जायते क्षणात्
॥७४॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे केदारमहिमाख्यानं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥