ज्ञानवापीप्रशंसनम्
स्कंद उवाच
पुनर्ददर्श तन्वंगी चित्रपट्यां घटोद्भव ॥
स्वर्गद्वारात्पुरोभागे श्रीमतीं मणिकर्णिकाम्
॥१॥संसारसर्पदष्टानां जंतूनां यत्र शंकरः ॥
अपसव्येन हस्तेन ब्रूते ब्रह्मस्पृशञ्छ्रुतिम्
॥२॥न कापिलेन योगेन न सांख्येन न च व्रतैः ॥
या गतिः प्राप्यते पुंभिस्तां दद्यान्मोक्षभूरियम्
॥३॥वैकुंठे विष्णुभवने विष्णुभक्तिपरायणाः ॥
जपेयुः सततं मुक्त्यै श्रीमतीं मणिकर्णिकाम्
॥४॥हुत्वाग्निहोत्रमपि च यावज्जीवं द्विजोत्तमाः ॥
अंते श्रयंते मुक्त्यै यां सेयं श्रीमणिकर्णिका
॥५॥वेदान्पठित्वा विधिवद्ब्रह्मयज्ञरता भुवि ॥
यां श्रयंति द्विजा मुक्त्यै सेयं श्रीमणिकर्णिका
॥६॥इष्ट्वा क्रतूनपि नृपा बहून्पर्याप्तदक्षिणान् ॥
श्रयंते श्रेयसे धन्याः प्रांतेऽधिमणिकर्णिकम्
॥७॥सीमंतिन्योपि सततं पतिव्रतपरायणाः ॥
मुक्त्यै पतिमनुव्रज्य श्रयंति मणिकर्णिकाम्
॥८॥वैश्या अपि च सेवंते न्यायोपार्जितसंपदः ॥
धनानि साधुसात्कृत्वा प्रांते श्रीमणिकर्णिकाम्
॥९॥त्यक्त्वा पुत्रकलत्रादि सच्छूद्रा न्यायमार्गगाः ॥
निर्वाणप्राप्तये चैनां भजेयुर्मणिकर्णिकाम्
॥१०॥यावज्जीवं चरंतोपि ब्रह्मचर्य जितेंद्रियाः ॥
निःश्रेयसे श्रयंत्येनां श्रीमतीं मणिकार्णकाम्
॥११॥अतिथीनपि संतर्प्य पंचयज्ञरता अपि ॥
गृहस्थाश्रमिणो नेमां त्यजेयुर्मणिकर्णिकाम्
॥१२॥वानप्रस्थाश्रमयुजो ज्ञात्वा निर्वाणसाधनम् ॥
सन्नियम्येंद्रियग्रामं मणिकर्णीमुपासते
॥१३॥अनन्यसाधनां मुक्तिं ज्ञात्वा शास्त्रैरनेकधा ॥
मुमुक्षुभिस्त्वेकदंडैः सेव्यते मणिकर्णिका
॥१४॥दंडयित्वा मनोवाचं कायं नित्यं त्रिदंडिनः ॥
नैःश्रेयसीं श्रियं प्राप्तुं श्रयंते मणिकर्णिकाम्
॥१५॥संन्यस्ताखिलकर्माणो दंडयित्वा चलं मनः ॥
एकदंडव्रता मुक्त्यै भजेयुर्मणिकर्णिकाम्
॥१५॥शिखी मुंडी जटी वापि कौपीनी वा दिगंबरः ॥
मुमुक्षुः को न सेवेत मुक्तिदां मणिकर्णिकाम्
॥१७॥तपःकर्तुं न शक्ता ये दानं वा दातुमक्षमाः ॥
योगाभ्यास विहीना ये तेषामेषा विमुक्तिदा ॥
संत्युपायाः सहस्रं तु मुक्तये न तथा मुने ॥
हेलयैषा यथा दद्यान्निर्वाणं मणिकर्णिका
॥१९॥अनशनव्रतभृते त्रिकालाभ्यवहारिणे ॥
प्रांते दद्यात्समां मुक्तिमुभाभ्यां मणिकर्णिका
॥२०॥यथोक्तमाचरेदेको निष्ठा पाशुपतंव्रतम् ॥
निरंतरं स्मरेदेको हृद्येनां मणिकर्णिकाम्
॥२१॥दृष्टात्र वपुषः पाते द्वयोश्च सदृशी गतिः ॥
तस्मात्सर्वविहायाशु सेव्यैषा मणिकर्णिका
॥२२॥स्वर्गद्वारे विशेयुर्ये विगाह्य मणिकर्णिकाम् ॥
तेषां विधूतपापानां कापि स्वर्गो न दूरतः
॥२३॥स्वर्गद्वाः स्वर्गभूरेषा मोक्षभूर्मणिकर्णिका ॥
स्वर्गापवर्गावत्रैव नोपरिष्टान्न चाप्यधः
॥२४॥दत्त्वा दानान्यनेकानि विगाह्य मणिकर्णिकाम् ॥
स्वर्गद्वारं प्रविष्टा ये न ते निरयगामिनः
॥२५॥स्वर्गापवर्गयोरर्थः कोविदैश्च निरूपितः ॥
स्वर्गः सुखं समुद्दिष्टमपवर्गो महासुखम्
॥२६॥मणिकर्ण्युपविष्टस्य यत्सुखं जायते सतः ॥
सिंहासनोपविष्टस्य तत्सुखं क्व शतक्रतोः
॥२७॥महासुखं यदुद्दिष्टं समाधौ विस्मृतात्मनाम् ॥
श्रीमत्यां मणिकर्ण्यां तत्सहजेनैव जायते
॥२८॥स्वर्गद्वारात्पुरोभागे देवनद्याश्च पश्चिमे ॥
सौभाग्यभाग्यैकनिधिः काचिदेका महास्थली
॥२९॥यावंतो भास्वतः स्पर्शाद्भासंते सैकताः कणाः ॥
तावंतो द्रुहिणा जग्मुर्नैत्येषा मणिकर्णिका
॥३०॥संति तीर्थानि तावंति परितो मणिकर्णिकाम् ॥
यावद्भिस्तिलमात्रापि न भूमिर्विरलीकृता
॥३१॥यदन्वये कोपि मुक्तः संप्राप्य मणिकर्णिकाम् ॥
तद्वंश्यास्तत्प्रभावेण मान्याः स्वर्गौकसामपि
॥३२॥तर्पिताः पितरो येन संप्राप्य मणिकर्णिकाम् ॥
सप्तसप्त तथा सप्त पूर्वजास्तेन तारिताः
॥३३॥आमध्याद्देवसरित आ हरिश्चंद्रमडपात् ॥
आ गंगा केशवादा च स्वर्द्वारान्मणिकर्णिका
॥३४॥एतद्रजःकणतुलां त्रिलोक्यपि न गच्छति ॥
एतत्प्राप्त्यै प्रयतते त्रिलोकस्थोऽखिलो भवी
॥३५॥कलावती चित्रपटीं पश्यंतीत्थं मुहुर्मुहुः ॥
ज्ञानवापीं ददर्शाथ श्रीविश्वेश्वरदक्षिणे
॥३६॥यदंबुसततं रक्षेद्दुर्वृत्ताद्दंडनायकः ॥
संभ्रमो विभ्रमश्चासौ दत्त्वा भ्रातिं गरीयसीम्
॥३७॥योष्टमूर्तिर्महादेवः पुराणे परिपठ्यते ॥
तस्यैषांबुमयी मूर्तिर्ज्ञानदा ज्ञानवापिका
॥३८॥नेत्रयोरतिथीकृत्य ज्ञानवापी कलावती ॥
कदंबकुसुमाकारां बभार क्षणतस्तनुम्
॥३९॥अंगानि वेपथुं प्रापुः स्विन्ना भालस्थली भृशम् ॥
हर्षवाष्पांबुकलिले जाते तस्या विलोचने
॥४०॥तस्तंभ गात्रलतिका मुखवैवर्ण्यमाप च ॥
स्वरोथ गद्गदो जातो व्यभ्रंशत्तत्करात्पटी
॥४१॥साक्षणं स्वं विसस्मार काहं क्वाहं न वेत्ति च ॥
सौषुप्तायां दशायां च परमात्मेव निश्चला
॥४२॥अथ तत्परिचारिण्यस्त्वरमाणा इतस्ततः ॥
किं किं किमेतदेतत्किं पृच्छंति स्म परस्परम्
॥४३॥तदवस्थां समालोक्य तां ताश्चतुरचेतसः ॥
विज्ञाय सात्त्विकैर्भावैरिदमूचूः परस्परम्
॥४४॥भवांतरे प्रेमपात्रमेतयैक्षितु किंचन ॥
चिरात्तेन च संगत्य सुखमूर्च्छामवाप ह
॥४५॥अथनेत्थं कथमियमकांडात्पर्यमूमुहत् ॥
प्रेक्षमाणा रहश्चित्रपटीमति पटीयसीम्
॥४६॥तन्मोहस्य निदानं ताःसम्यगेव विचार्य च ॥
उपचेरुर्महाशांतैरुपचारैरनाकुलम्
॥४७॥काचित्तां वीजयांचक्रे कदलीतालवृंतकैः ॥
बिसिनीवलयैरन्या धन्यां तां पर्यभूषयत्
॥४८॥अमंदैश्चंदनरसैरभ्यषिंचदमुं परा ॥
अशोकपल्लवैरस्याः काचिच्छोकमनीनशत्
॥४९॥धारामंडपधारांबुसीकरैस्तत्तनूलताम् ॥
इष्टार्थविरहग्लानां सिंचयामास काचन
॥५०॥जलार्द्रवाससा काचिदेतस्यास्तनुमावृणोत् ॥
कर्पूरक्षोदजालेपैरन्यास्तामन्वलेपयन्
॥५१॥पद्मिनीदलशय्या च काचित्यरचयन्मृदुम् ॥
काचित्कुलिशनेपथ्यं दूरीकृत्य तदंगतः
॥५२॥मुक्ताकलापं रचयांचक्रे वक्षोजमंडले ॥
काचिच्छशिमुखी तां तु चंद्रकांतशिलातले
॥५३॥स्वापयामास तन्वंगीं स्रवच्छीतांबुशीतले ॥
दृष्ट्वोपचार्यमाणां तामित्थं बुद्धिशरीरिणी
॥५४॥अतितापपरीतांगी ताः सखीः प्रत्यभाषत ॥
एतस्यास्तापशांत्यर्थं जानेहं परमौषधम्
॥५५॥उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम् ॥
अपतापां करोम्येनां सद्यः पश्यत कौतुकम्
॥५६॥दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात् ॥
अत्रैव काचिदेतस्याः प्रेमभूरस्ति निश्चितम्
॥५७॥अतश्चित्रपटीस्पर्शात्परितापं विहास्यति ॥
वाक्याद्बुद्धिशरीरिण्यास्ततस्तत्परिचारिकाः
॥५८॥निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति ॥
तवानंदकरी यत्र काचिदस्तीष्टदेवता
॥५९॥सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च ॥
सुधासेकमिव प्राप्य मूर्छां हित्वोत्थिता द्रुतम्
॥६०॥अवग्रहपरिम्लाना वर्षासारैरिवौषधीः ॥
पुनरालोकयांचक्रे ज्ञानदां ज्ञानवापिकाम्
॥६१॥स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि ॥
लेभे भवांतरज्ञानं यथासीत्पूर्वर्जन्मनि
॥६२॥पुनर्विचारयांचक्रे वापी माहात्म्यमुत्तमम् ॥
अहो चित्रगतापीयं संस्पृष्टा ज्ञानवापिका
॥६३॥ज्ञानं मे जनयामास भवांतर समुद्भवम् ॥
अथ तासां पुरो हृष्टा कथयामास सुंदरी
॥६४॥निजं प्राग्भव वृत्तांतं ज्ञानवापीप्रभावजम् ॥
कलावत्युवाच ॥
एतस्माज्जन्मनः पूर्वमहं ब्राह्मणकन्यका
॥६५॥उपविश्वेश्वरं काश्यां ज्ञानवाप्यां रमे मुदा ॥
जनको मे हरिस्वामी जनयित्री प्रियंवदा
॥६६॥आख्या मम सुशीलेति मां च विद्याधरोऽहरत् ॥
मध्येमार्गं निशीथेथ तदोप मलयाचलम्
॥६७॥रक्षसा सहतो वीरो राक्षसं स जघानह ॥
रक्षोपि मुक्तं शापात्तु दिव्यवपुरवाप ह
॥६८॥अवाप जन्मगंधर्वस्त्वसौ मलयकेतुतः ॥
कर्णाटनृपतेः कन्या बभूवाहं कलावती
॥६९॥इति ज्ञानं ममोद्भूतं ज्ञानवापीक्षणात्क्षणात् ॥
इति तस्या वचः श्रुत्वा सापि बुद्धिशरीरिणी
॥७०॥ताश्च तत्परिचारिण्यः प्रहृष्टास्यास्तदाऽभवन् ॥
प्रोचुस्तां प्रणिपत्याथ पुण्यशीलां कलावतीम्
॥७१॥अहो कथं हि सा लभ्या यत्प्रभावोयमीदृशः ॥
धिग्जन्म तेषां मर्त्येऽस्मिन्यैर्नैक्षि ज्ञानवापिका
॥७२॥कलावति नमस्तुभ्यं कुरुनोपि समीहितम् ॥
जनिं सफलयास्माकं नय नः प्रार्थ्य भूपतिम्
॥७३॥अयं च नियमोस्माकमद्यारभ्य कलावति ॥
निर्वेक्ष्यामो महाभोगान्दृष्ट्वा तां ज्ञानवापिकाम्
॥७४॥अवश्यं ज्ञानवापी सा नाम्ना भवितुमर्हति ॥
चित्रं चित्रगतापीह या तव ज्ञानदायिनी
॥७५॥ॐकृत्य तासां वाक्यं सा स्वाकारं परिगोप्य च ॥
प्रियाणि कृत्वा भूभर्तुः प्रस्तावज्ञा व्यजिज्ञपत्
॥७६॥कलावत्युवाच
जीवितेश न मे त्वत्तः किंचित्प्रियतरं क्वचित् ॥
त्वामासाद्य पतिं राजन्प्राप्ताः सर्वे मनोरथाः
॥७७॥एको मनोरथः प्रार्थ्यो ममास्त्यत्रार्यपुत्रक ॥
विचारपथमापन्नस्तवापि स महाहितः
॥७८॥मम तु त्वदधीनायाः सुदुष्प्रापतरो महान् ॥
तव स्वाधीनवृत्तेस्तु सिद्धप्रायो मनोरथः
॥७९॥प्राणेश किं बहूक्तेन यदि प्राणैः प्रयोजनम् ॥
तदाभिलषितं देहि प्राणा यास्यंत्यथान्यथा
॥८०॥प्राणेभ्योपि गरीयस्यास्तस्या वाक्यं निशम्य सः ॥
उवाच वचनं राजा तस्याः स्वस्यापि च प्रियम्
॥८१॥राजोवाच
नाहं प्रिये तवादेयमिह पश्यामि भामिनि ॥
प्राणा अपि मम क्रीतास्त्वया शीलकलागुणैः
॥८२॥अविलंबितमाचक्ष्व कृतं विद्धि कलावति ॥
भवद्विधानां साध्वीनामन्येऽप्राप्यं न किंचन
॥८३॥कः प्रार्थ्यः प्रार्थनीयं किं को वा प्रार्थयिता प्रिये ॥
न पृथग्जनवत्किंचिद्वर्तनं नौ कलावति
॥८४॥देशः कोशो बलं दुर्गं यदन्यदपि भामिनि ॥
तत्त्वदीयं न मे किंचित्स्वाम्यमात्रमिहास्ति मे
॥८५॥तच्च स्वाम्यं ममान्यत्र त्वदृते जीवितेश्वरि ॥
राज्यं त्यजेयं त्वद्वाक्यात्तृणीकृत्यापि मानिनि
॥८६॥माल्पकेतोर्महीजानेरिति वाक्यं निशम्य सा ॥
प्राह गंभीरया वाचा वचश्चारु कलावती
॥८७॥कलावत्युवाच
नाथ प्रजासृजापूर्वं सृष्टा नानाविधाः प्रजाः ॥
प्रजाहिताय संसृष्टं पुरुषार्थचतुष्टयम्
॥८८॥तद्विहीनाजनिरपि जल बुद्बुदवन्मुधा ॥
तस्मादेकोपि संसाध्यः परत्रेह च शर्मणे
॥८९॥यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥
यदुच्यते पुराविद्भिरिति तत्तथ्यमीक्षितम्
॥९०॥मद्विधाना तु दासीनां शतं तेऽस्तीह मंदिरे ॥
तथापि नितरां प्रेम स्वामिनो मयि दृश्यते
॥९१॥तव दास्यपि भोगाढ्या किमुतांकस्थलीचरी ॥
तत्राप्यनन्यसंपत्तिस्तत्र स्वाधीनभर्तृता
॥९२॥विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे ॥
तपोर्थमायुर्निर्विघ्नं दारांश्चापत्यलब्धये
॥९३॥तवैतत्सर्वमस्तीह विश्वेशानुग्रहात्प्रिय ॥
पूरणीयोऽभिलाषो मे यदि तद्वचम्यहं शृणु
॥९४॥तूर्णं प्रहिणु मां नाथ विश्वनाथपुरीं प्रति ॥
प्राणाः प्रयाता प्रागेव वपुः शेषास्मि केवलम्
॥९५॥माल्यकेतुः कलावत्या इत्याकर्ण्य वचः स्फुटम् ॥
क्षणं विचार्य स्वहृदि राजा प्रोवाच तां प्रियाम्
॥९६॥प्रिये कलावति यदि तव गंतव्यमेव हि ॥
राज्यलक्ष्म्यानया किं मे चलया त्वद्विहीनया
॥९७॥न राज्यं राज्यमित्याहू राज्यश्रीः प्रेयसी ध्रुवम् ॥
सप्तांगमपि तद्राज्यं तया हीनं तृणायते
॥९८॥निःसपत्नं कृतं राज्यं भुक्त्वा भोगान्निरंतरम् ॥
हृषीकार्थाः कृतार्थाश्च विधृता आधृतिः प्रिये
॥९९॥अपत्यान्यपि जातानि किं कर्तव्यमिहास्ति मे ॥
अवश्यमेव गंतव्याऽऽवाभ्यां वाराणसी पुरी
॥१००॥माल्यकेतुः प्रियामित्थमाश्वास्य कृतनिश्चयः ॥
समाहूय च देवज्ञान्प्रकृतीः परिपूज्य च
॥१॥पुत्रे राज्यं निधायाथ राजा काशीं प्रतस्थिवान् ॥
रत्नजातं कियदपि पुत्रादर्थं प्रगृह्य च
॥२॥दृष्ट्वा विश्वेश्वरपुरीं हृष्टरोमा नरेश्वरः ॥
मेने कृतार्थमात्मानं संसारांबुधिपारगम् ॥
प्राग्जन्मवासनायोगात्सापि राज्ञी कलावती ॥
ग्रामांतरादागतेव पुरीमार्गानवैत्स्वयम
॥४॥मणिकर्ण्यामथस्नात्वा भूरि दत्त्वा ततो वसु ॥
विश्वेशमर्चयित्वाथ रत्नजातैरनेकशः
॥५॥दत्त्वा तत्रापि रत्नानि गजानश्वान्गवां व्रजम् ॥
दुकूलानि विचित्राणि पूजोपकरणानि च
॥५॥सुवर्णरूप्यकलशान्दीपी दर्पण चामरान् ॥
ध्वजस्तंभ पताकाश्च विचित्रोल्लोचकानि च
॥७॥अथ प्रदक्षिणीकृत्य मुक्तिमंडपमाविशत् ॥
तत्र धर्मकथां श्रुत्वा दत्त्वा तत्रापि सद्धनम्
॥८॥सायंतनीं महापूजां पुनः कृत्वा क्षितीश्वरः ॥
तत्र जागरणं कृत्वा तौर्यत्रिक महोत्सवैः
॥९॥अथ प्रातः समुत्थाय कृत्वा शौचाचमक्रियाम् ॥
राज्ञ्या विनिर्दिष्टपथा ज्ञानवापीं नृपो ययौ
॥११०॥नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ॥
अथ पिंडान्सनिर्वाप्य संतर्प्य श्रद्धया पितॄन्
॥११॥तत्र रूप्य सुवर्णादि पात्रेभ्यः प्रतिपाद्य च ॥
दीनांध कृपणानाथान्महार्है रत्नजातकैः
॥१२॥प्रीणयित्वा नरपतिः पारणां कृतवांस्ततः ॥
संस्कार्य रत्नसोपानैर्ज्ञानवापी कलावती
॥१३॥आबबंध रतिं तत्र सह भर्त्रा तपस्विनी ॥
एकांतरोपवासैश्च कदाचिच्च त्र्यहोव्रतैः
॥१४॥षडहोभोजनैश्चापि पक्षार्धनियमैरथ ॥
पक्षांतरोपवासैश्च मासोपवसनादिभिः
॥१५॥चांद्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रूषणैरपि ॥
निनाय क्षणवत्कालमायुःशेषस्य सानघा
॥१६॥एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ॥
आगत्य जटिलः कश्चिद्विभूतिं दत्तवान्करे
॥१७॥उवाच च प्रसन्नास्य आशीर्भिरभिनद्य च ॥
उत्तिष्ठतं प्रकुरुतं महानेपथ्यमद्य वै
॥१८॥तारकोदय संप्राप्तिर्भवित्री वां क्षणादिह ॥
यावदित्थं समाचष्ट जटिलोऽग्रे तयोर्वचः
॥१९॥तावद्विमानमापन्नं सक्वणत्किंकिणीगणम् ॥
पश्यतां सर्वलोकानां चन्द्रमौलिरथोरथात्
॥१२०॥उत्तीर्य तच्छ्रुतिपुटे किमपि स्वयमादिशत् ॥
अनाख्यं यत्परंज्योतिरुच्चक्राम च तत्क्षणात्
॥२१॥उद्योतयन्नभोवर्त्म देवोपि स्वालयं ययौ ॥
स्कन्द उवाच ॥
तदा प्रभृति लोकेऽत्र ज्ञानवापी विशिष्यते
॥२२॥सर्वेभ्यस्तीर्थर्मुख्येभ्यः प्रत्यक्ष ज्ञानदा मुने ॥
सर्वज्ञानमयी चैषा सर्वलिंगमयी शुभा
॥२३॥साक्षाच्छिवमयी मूर्तिर्ज्ञानकृज्ज्ञानवापिका ॥
सन्ति तीर्थान्यनेकानि सद्यः शुचिकराण्यपि
॥२४॥परंतु ज्ञानवाप्या हि कलां नार्हंति षोडशीम् ॥
ज्ञानवाप्याः समुत्पत्तिं यः श्रोष्यति समाहितः ॥
न तस्य ज्ञानविभ्रंशो मरणे जायते क्वचित्
॥२५॥महाख्यानमिदं पुण्यं महापातकनाशनम् ॥
महादेवस्य गौर्याश्च महाप्रीतिविवर्धनम्
॥२६॥पठित्वा पाठयित्वा वा श्रुत्वा वा श्रद्धयान्वितः ॥
ज्ञानवाप्याः शुभाख्यानं शिवलोके महीयते
॥१२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीप्रशंसनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥