मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय २१

3
काशीखण्डः · 21

नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने

ध्रुव उवाच

नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ॥

हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने

॥१॥

नमो हरस्वरूपाय भूतसंहारकारिणे ॥

महाभूतात्मभूताय भूतानां पतये नमः

॥२॥

नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥

तृष्णाहराय कृष्णाय महाभार सहिष्णवे

॥३॥

नमो दैत्यमहारण्य दाववह्निस्वरूपिणे ॥

दैत्यद्रुमकुठाराय नमस्ते शार्ङ्गपाणये

॥४॥

नमः कौमोदकीव्यग्र कराग्राय गदाधर ॥

महादनुजनाशाय नमो नंदकधारिणे

॥५॥

नमः श्रीपतये तुभ्यं नमश्चक्रधराय च ॥

धराधराय वाराह रूपिणे परमात्मने

॥६॥

नमः कमलहस्ताय कमलावल्लभाय ते ॥

नमो मत्स्यादिरूपाय नमः कौस्तुभवक्षसे

॥७॥

नमो वेदांतवेद्याय नमः श्रीवत्सधारिणे ॥

नमो गुणस्वरूपाय गुणिने गुणवर्जिते

॥८॥

नमस्ते पद्मनाभाय पांचजन्यधराय च ॥

वासुदेव नमस्तुभ्यं देवकीनंदनाय च

॥९॥

प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥

नमः कंसविनाशाय नमश्चाणूरमर्दिने

॥१०॥

दामोदरहृषीकेश गोर्विदाच्युतमाधव ॥

उपेंद्रकैटभाऽराते मधुहंतरधोक्षज

॥११॥

नारायणाय नरकहारिणे पापहारिणे ॥

वामनाय नमस्तुभ्यं हरये शौरये नमः

॥१२॥

अनंताय नमस्तुभ्यमनंतशयनाय च ॥

रुक्मिणीपतये तुभ्यं रुक्मिप्रमथनाय च

॥१३॥

चैद्यहंत्रे नमस्तुभ्यं दानवारेसुरारये ॥

मुकुंदपरमानंद नंदगोपप्रियाय च

॥१४॥

नमस्ते पुंडरीकाक्ष दनुजेंद्र निषूदिने ॥

नमो गोपालरूपाय वेणुवादनकारिणे

॥१५॥

गोपीप्रियाय केशिघ्ने गोवर्धनधराय च ॥

रामाय रघुनाथाय राघवाय नमोनमः

॥१६॥

रावणारे नमस्तुभ्यं विभीषणशरण्यद ॥

अजाय जयरूपाय रणांगणविचक्षण

॥१७॥

क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे ॥

गदिने चक्रिणे तुभ्यं दैत्यचक्रविमर्दिने

॥१८॥

बलाय बलभद्राय बलारातिप्रियाय च ॥

बलियज्ञप्रमथन नमो भक्तवरप्रद

॥१९॥

हिरण्यकशिपोर्वक्षो विदारण रणप्रिय ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च

॥२०॥

नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च ॥

नमः सहस्रशिरसे पुरुषाय पराय च

॥२१॥

सहस्राक्ष सहस्रांघ्रे सहस्रकिरणाय च ॥

सहस्रमूर्ते श्रीकांत नमस्ते यज्ञपूरुष

॥२२॥

वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥

वेदाय वेदगदिने सदाचाराध्वगामिने

॥२३॥

वैकुंठाय नमस्तुभ्यं नमो वैकुंठवासिने ॥

विष्टरश्रवसे तुभ्यं नमो गरुडगामिने

॥२४॥

विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन ॥

त्रिविक्रमाय सत्याय नमः सत्यप्रियाय च

॥२५॥

केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने ॥

तपोरूपाय तपसां नमस्ते फलदायिने

॥२६॥

स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च ॥

नमस्ते श्रुतिरूपाय श्रुत्याचार प्रियाय च

॥२७॥

अंडजाय नमस्तुभ्यं स्वेदजाय नमोस्तु ते ॥

जरायुज स्वरूपाय नम उद्भिज्जरूपिणे

॥२८॥

देवानामिंद्ररूपोसि ग्रहाणामसि भानुमान् ॥

लोकानां सत्यलोकोऽसि सिंधूनां क्षीरसागरः

॥२९॥

सुरापगाऽसि सरितां सरसां मानसं सरः ॥

हिमवानसि शैलानां धेनूनां कामधुग्भवान्

॥३०॥

धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि ॥

नीलोत्पलं प्रसूनेषु वृक्षेषु तुलसी भवान्

॥३१॥

सर्वपूज्यशिलानां वै शालग्राम शिला भवान् ॥

मुक्तिक्षेत्रेषु काशी त्वं प्रयागस्तीर्थपंक्तिषु

॥३२॥

वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान् ॥

गरुडोस्यंडजेष्वीश व्यवहारेषु वाग्भवान्

॥३३॥

वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि ॥

अक्षराणामकारोसि यज्वनां सोमरूपधृक्

॥३४॥

प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम् ॥

दातॄणामसि पर्जन्यः पवित्राणां परोह्यसि

॥३५॥

चापोसि सर्वशस्त्राणां वातो वेगवतामसि ॥

मनोसींद्रियवर्गेषु निर्भयाणां करोह्यसि

॥३६॥

व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम् ॥

संध्योपास्तिर्भवान्देव सर्वनित्येषु कर्मसु

॥३७॥

क्रतूनामश्वमेधोसि दानानामभयं भवान् ॥

लाभानां पुत्रलाभोसि वसंतस्त्वमृतुष्वहो

॥३८॥

युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि ॥

पुष्योसि नक्षत्रगणे संक्रमः सर्वपर्वसु

॥३९॥

योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् ॥

उद्यमानां हि सर्वेषां निर्वाणं त्वमसि प्रभो

॥४०॥

सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज ॥

अश्वत्थः सर्ववृक्षेषु सोमवल्ली लतासु च

॥४१॥

प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो ॥

सर्वदः सर्वलिंगेषु श्रीमान्विश्वेश्वरो भवान्

॥४२॥

मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु ॥

त्वत्तो नान्यज्जगत्यस्मिन्नारायण चराचरे

॥४३॥

त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम् ॥

त्वमेव सौख्यसंपत्तिस्त्वमायुर्जीवनेश्वरः

॥४४॥

सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम् ॥

तत्कर्म यत्त्वदर्थं वै तत्तपो यद्भवत्स्मृतिः

॥४५॥

तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम् ॥

स एव सकलः कालो यस्मिञ्जिष्णो त्वमर्च्यसे

॥४६॥

तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे ॥

रोगाः प्रशममायांति त्वत्पादोदक सेवनात्

॥४७॥

महापापानि गोविंद बहुजन्मार्जितान्यपि ॥

सद्यो विलयमायांति वासुदेवेति कीर्तनात्

॥४८॥

अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ॥

वासुदेवमनादृत्य यदन्यत्र कृतश्रमाः

॥४९॥

इदमेव हि मांगल्यमिदमेव धनार्जनम् ॥

जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम्

॥५०॥

अधोक्षजात्परोधर्मो नार्थो नारायणात्परः ॥

न कामः केशवादन्यो नापवर्गो हरिं विना

॥५१॥

इयमेव परा हानिरुपसर्गो यमेवहि ॥

अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत्

॥५२॥

हरेराराधनं पुंसां किं किं न कुरुते बत ॥

पुत्रमित्रकलत्रार्थ राज्यस्वर्गापवर्गदम्

॥५३॥

हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति ॥

धर्मं विवर्धयेत्क्षिप्रं प्रयच्छति मनोरथम्

॥५४॥

भगवच्चरणद्वंद्वं निर्द्द्वंद्व ध्यानमुत्तमम् ॥

पापिनापि प्रसंगेन विहितं स्वहितं परम्

॥५५॥

पापिनां यानि पापानि महोपपदभांज्यपि ॥

सुलीनध्यानसंपन्नो नामोच्चारो हरेर्हरेत्

॥५६॥

प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत् ॥

तथौष्ठपुटसंस्पृष्ट हरिनाम हरेदघम्

॥५७॥

नितांतं कमलाकांते शांतचित्तं विधाय यः ॥

संशीलयेत्क्षणं नूनं कमला तत्र निश्चला

॥५८॥

अयमेव परोधर्मस्त्विदमेव परं तपः ॥

इदमेव परं तीर्थं विष्णुपादांबु यत्पिबेत

॥५९॥

तवोपहारं भक्त्याय सेवते यजपूरुष ॥

सेवितस्तेन नियतं पुरोडाशो महाधिया

॥६०॥

स चैवावभृथस्नातः स च गंगाजलाप्लुतः ॥

विष्णुपादोदकं कृत्वा शंखे यः स्नाति मानवः

॥६१॥

शालग्राम शिला येन पूजिता तुलसी दलैः ॥

स पारिजातमालाभिः पूज्यते सुरसद्मनि

॥६२॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ॥

विष्णुभक्ति समायुक्तो ज्ञेयः सर्वोत्तमश्च सः

॥६३॥

शंखचक्रांकिततनुः शिरसां मंजरीधरः ॥

गोपीचंदनलिप्तांगो दृष्टश्चेत्तदघं कुतः

॥६४॥

प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ॥

द्वारवत्याः शिलायुक्तः स वैकुंठे महीयते

॥६५॥

तुलसी यस्य भवने प्रत्यहं परिपूज्यते ॥

तद्गृहं नोपसर्पंति कदाचिद्यमकिंकराः

॥६६॥

हरिनामाक्षरमुखं भाले गोपीमृदांकितम् ॥

तुलसीमालितोरस्कं स्पृशेयुर्नयमानुगाः

॥६७॥

गोपीमृत्तुलसी शंखः शालग्रामः सचक्रकः ॥

गृहेपि यस्य पंचैते तस्य पापभयं कुत.

॥६८॥

ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः ॥

ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः

॥६९॥

क्व द्वयक्षरं हरेर्नाम स्फुलिंगसदृशं ज्वलेत ॥

महती पातकानां च राशिस्तूलोपमा क्व च

॥७०॥

गोविंद परमानंदं मुकुंदं मधुसूदनम ॥

त्यक्त्वान्यं नैव जानामि न भजामि स्मरामि न

॥७१॥

न नमामि न च स्तौमि न पश्यामीह चक्षुषा ॥

न स्पृशामि न वायामि गायामि न न हरिं विना

॥७२॥

जले स्थले च पातालेप्यनिले चानलेऽचले ॥

विद्याधरासुरसुरे किं नरे वानरे नरे

॥७३॥

तृणेस्त्रैणे च पाषाणे तरुगुल्मलतासु च ॥

सर्वत्र श्यामलतनुं वीक्षे श्रीवत्सवक्षसम्

॥७४॥

सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि ॥

बहिरंतर्विना त्वां तु नह्यन्यं वेद्मि सर्वगम्

॥७५॥

इत्युक्त्वा विररामासौ शिवशर्मन्ध्रुवस्तदा ॥

देवोपि भगवान्विष्णुस्तमुवाच प्रसन्नदृक्

॥७६॥

श्रीभगवानुवाच

अपि बाल विशालाक्ष ध्रुव ध्रुवमतेऽनघ ॥

परिज्ञातो मया सम्यक्तवहृत्स्थो मनोरथः

॥७७॥

अन्नाद्भवंति भूतानि वृष्टेरन्नसमुद्भवः ॥

तद्वृष्टेः कारणं सूर्यः सूर्याधारो ध्रुवैधि भोः

॥७८॥

ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समंततः ॥

गगने भ्रमतो नित्यं त्वमाधारो भविष्यसि

॥७९॥

मेढीभूतस्तु वै सर्वान्वायुपाशैर्नियंत्रितान् ॥

आकल्पं तत्पदं तिष्ठ भ्रामयञ्ज्योतिषांगणान्

॥८०॥

आराध्य श्री महादेवं पुरापदमिदं मया ॥

आसादियत्तदेतत्ते तपसा प्रतिपादितम्

॥८१॥

केचिच्चतुर्युगं यावत्केचिन्मन्वंतरं ध्रुव ॥

तिष्ठंति त्वं तु वै कल्पं पदमेतत्प्रशास्यसि

॥८२॥

मनुनापि न यत्प्रापि किमन्यैर्मानवैर्ध्रुव ॥

तत्पदं विहितं त्वत्साच्छक्राद्यैरपि दुर्लभम्

॥८३॥

अन्यान्वरान्प्रयच्छामि स्तवेनानेन तोषितः ॥

सुनीतिरपि ते माता त्वत्समीपे चरिष्यति

॥८४॥

इदं स्तोत्रवरं यस्तु पठिष्यति समाहितः ॥

त्रिसंध्यं मनुजस्तस्य पापं यास्यति संक्षयम्

॥८५॥

न तस्य सदनं लक्ष्मीः परित्यक्ष्यत्यसंशयम् ॥

न जनन्या वियोगश्च न बंधुकलहोदयः

॥८६॥

ध्रुवस्तुतिरियं पुण्या महापातकनाशिनी ॥

ब्रह्महापि विशुद्ध्येत का कथेतर पापिनाम्

॥८७॥

महापुण्यस्य जननी महासंपत्तिदायिनी ॥

महोपसर्गशमनी महाव्याधिविनाशिनी ॥

८८ !।

यस्याऽस्तिपरमा भक्तिर्मयि निर्मलचेतसः ॥

ध्रुवस्तुतिरियं तेन जप्या मत्प्रीतिकारिणी

॥८९॥

समस्त तीर्थस्नानेन यत्फलं लभते नरः ॥

तत्फलं सम्यगाप्नोति जपन्स्तुत्यानया मुदा

॥९०॥

संति स्तोत्राण्यनेकानि मम प्रीतिकराणि च ॥

ध्रुवस्तुतेर्न चैतस्याः कलामर्हंति षोडशीम्

॥९१॥

श्रुत्वापीमां स्तुतिं मर्त्यः श्रद्धया परया मुदा ॥

पातकैर्मुच्यते सद्यो महत्पुण्यमवाप्नुयात्

॥९२॥

अपुत्रः पुत्रमाप्नोति निर्धनो धनमाप्नुयात् ॥

अभक्तो भक्तिमाप्नोति कीर्तनाच्च ध्रुवस्तुतेः

॥९३॥

दत्त्वा दानान्यनेकानि कृत्वा नाना व्रतानि च ॥

यथालाभानवाप्नोति तथा स्तुत्याऽनया नरः

॥९४॥

त्यक्त्वा सर्वाणि कार्याणि त्यक्त्वा जप्यान्यनेकशः ॥

ध्रुवस्तुतिरियं जप्या सर्वकामप्रदायिनी

॥९५॥

श्रीभगवानुवाच

ध्रुवावधेहि वक्ष्यामि हितं तव महामते ॥

येन ते निश्चलं सम्यक्पदमेतद्भविष्यति

॥९६॥

अहं जिगमिषुस्त्वासं पुरीं वाराणसीं शुभाम् ॥

साक्षाद्विश्वेश्वरो यत्र तिष्ठते मोक्षकारणम्

॥९७॥

विपन्नानां च जंतूनां यत्र विश्वेश्वरः स्वयम् ॥

कर्णे जापं प्रकुरुते कर्मनिर्मूलन क्षमम्

॥९८॥

अस्य संसारदुःखस्य सर्वोपद्रवदायिनः ॥

उपाय एक एवास्ति काशिकानंदभूमिका

॥९९॥

इदं रम्यमिदं नेति बीजं दुःखमहातरोः ॥

तस्मिन्काश्यग्निना दग्धे दुःखस्यावसरः कुतः

॥१००॥

प्राप्य संप्राप्यते येन न भूयो येन शोच्यते ॥

परायानिर्वृतेः स्थानं यत्तदानंदकाननम्

॥१॥

अमृतायनमुत्सृज्य पुरुषोन्यत्र यो वसेत् ॥

आनंदकाननं शंभोः कुतस्तस्य सुखोदयः

॥२॥

वरं शरावहस्तस्य चांडालागारवीथिषु ॥

भिक्षार्थमटनं काश्यां राज्यं नान्यत्र नीरिषु

॥३॥

वैकुंठनगरात्काशीं नित्यं विश्वेशमर्चितुम् ॥

अहमायामि नियमाज्जगदर्च्यं तदर्चिताम्

॥४॥

मयि या परमा शक्तिस्त्रिलोक्या रक्षणक्षमा ॥

तत्र हेतुर्महेशानः स सुदर्शनचक्रदः

॥५॥

पुरा जालंधरं दैत्यं ममापि परिकंपनम् ॥

पादांगुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत्

॥६॥

तच्च चक्रं मया लब्धं नेत्रपद्मार्चनाद्विभोः ॥

एतत्सुदर्शनाख्यं वै दैत्यचक्रप्रमर्दनम्

॥७॥

तन्मया तव रक्षार्थं भूतविद्रावणं परम् ॥

तावत्प्रणुन्नं पुरतस्ततश्चाहमिहागतः

॥८॥

काशीमिदानीं यास्यामि विश्वेश्वर विलोकने ॥

अद्य यात्राऽस्ति महती कार्तिक्यां बहुपुण्यदा

॥९॥

कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् ॥

स्नात्वा चोत्तरवाहिन्यां न तस्य पुनरागतिः

॥११०॥

इत्युक्त्वा तार्क्ष्यमारोप्य ध्रुवमानंदमेदुरम् ॥

क्षणाद्वाराणसीं प्राप हरिः स्मरहरोषिताम्

॥११॥

पंचक्रोश्याश्च सीमानं प्राप्य देवो जनार्दनः ॥

वैनतेयादवारुह्य करे धृत्वा ध्रुवं ततः

॥१२॥

मणिकर्ण्यां परिस्नाय विश्वेशमभिपूज्य च ॥

ध्रुवं बभाषे भगवान्हितं तस्य चिकीर्षयन्

॥१३॥

लिंगं स्थापय यत्नेन क्षेत्रेऽत्रैवाविमुक्तके ॥

त्रैलोक्यस्थापनं पुण्यं यथा भवति तेऽक्षयम्

॥१४॥

नियुतं यत्परिस्थाप्य लिंगानि फलमाप्यते ॥

अन्यत्र तदिहैकेन लिंगेन परिलभ्यते

॥१५॥

कालेन भंगमापन्नं जीर्णोद्धारं करोति यः ॥

इह तस्य फलस्यांतः प्रलयेपि न जायते

॥१६॥

वित्तशाठ्यं परित्यज्य प्रासादं योऽत्र कारयेत् ॥

तेन दत्तो भवेत्सर्वो मेरुर्नियुतयोजनः

॥१७॥

कूपवापीतडागानि शक्त्या योऽत्र तु कारयेत् ॥

अन्यत्र करणात्तस्य पुण्यं कोटिगुणाधिकम्

॥१८॥

इज्यार्थमत्र यः कुर्यात्सुरम्यां पुष्पवाटिकाम् ॥

पुष्पेपुष्पे फलं तस्य सुवर्णकुसुमाधिकम्

॥१९॥

अत्र ब्रह्मपुरीं कृत्वा यो विप्रेभ्यः प्रयच्छति ॥

वर्षाशनेन संयुक्तां तस्य पुण्यफलं शृणु

॥१२०॥

क्षीयंते सलिलान्यब्धेर्भौमाश्च त्रसरेणवः ॥

क्षयो न तस्य पुण्यस्य शिवलोके समासतः

॥२१॥

मठानपि तपस्विभ्यः कारयित्वाऽत्र योर्पयेत् ॥

जीवनोपायसंयुक्तान्सोपि पूर्वफलाश्रयः

॥२२॥

कृत्वा महांति पुण्यानि योऽत्र विश्वेश्वरेऽर्पयेत् ॥

न तस्य पुनरावृरत्ति घोरे संसारसागरे

॥२३॥

अनंत इति वादोयं मयिलोकेऽत्र गीयते ॥

परं काशी गुणानां हि मयाप्यंतो न लभ्यते

॥२४॥

तस्मात्प्रयत्नतः काश्यां धुव श्रेयः समाश्रयेत् ॥

काशी श्रेयः फलं पुंसामक्षया योपजायते

॥२५॥

गणावूचतुः

ध्रुवमित्युपदिश्याथ जगाम गरुडध्वजः ॥

ध्रुवोपि लिंगं संस्थाप्य वैद्यनाथसमीपतः

॥२६॥

प्रासादं सुमहत्क्रृत्वा कृत्वा कुंडं तदग्रतः ॥

विश्वेश्वरं समभ्यर्च्य कृतकृत्यो गृहं ययौ

॥२७॥

ध्रुवेश्वरं समभ्यर्च्य ध्रुवकुंडे कृतोदकः ॥

ध्रुवलोकमवाप्नोति नरो भोगसमन्वितः

॥२८॥

ध्रुवस्य परमाख्यानं यः पठेत्पाठयेदपि ॥

स विष्णुलोकमासाद्य जायते विष्णुवल्लभः

॥२९॥

नरो ध्रुवस्य चरितं प्रसंगेन स्मरन्नपि ॥

न पापैरभिभूयेत महत्पुण्यमवाप्नुयात्

॥१३०॥

डति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवस्तुतिर्नामैकविंशतितमोऽध्यायः

॥२१॥