मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६८

3
काशीखण्डः · 68

अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम्

स्कंद उवाच

अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम् ॥

महाश्चर्यप्रजननं महापातकहारि च

॥१॥

इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे ॥

कोलाहलो महानासीत्त्रातत्रातेति सर्वतः

॥२॥

महिषासुरपुत्रोसौ समायाति गजासुरः ॥

प्रमथन्प्रमथान्सर्वान्निजवीर्य मदोद्धतः

॥३॥

यत्रयत्र धरायां स चरणं प्रमिणोति हि ॥

अचलोल्लोलयांचक्रे तत्रतत्रास्य भारतः

॥४॥

ऊरुवेगेन तरवः पतंति शिखरैः सह ॥

यस्य दोर्दंडघातेन चूर्णाः स्युश्च शिलोच्चयाः

॥५॥

यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि ॥

नीलिमानं न चाद्यापि जह्युस्तक्लेशसंगजम्

॥६॥

यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः ॥

नद्योप्यमंदकल्लोला भवंति तिमिभिः सह

॥७॥

योजनानां सहस्राणि नवयस्य समुच्छ्रयः ॥

तावानेव हि विस्तारस्तनोर्मायाविनोस्य हि

॥८॥

यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ॥

विद्युता नोज्झ्यतेऽद्यापि सोयमायाति सत्वरः

॥९॥

यांयां दिशं समभ्येति सोयं दुःसह दानवः ॥

सासा समी भवेदस्य साध्वसादिव दिग्ध्रुवम्

॥१०॥

ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः ॥

अवध्योहं भवामीति स्त्रीपुंसैः कामनिर्जितैः

॥११॥

ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ॥

विज्ञायावध्यमन्येन शूलेनाभिजघान तम्

॥१२॥

प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥

छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम्

॥१३॥

गजासुर उवाच

त्रिशूलपाणे देवेश जाने त्वां स्मरहारिणम् ॥

तव हस्ते मम वधः श्रेयानेव पुरांतक

॥१४॥

किंचिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम् ॥

सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय

॥१५॥

त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ॥

अहं त्वदुपरिष्टाच्च स्थितोस्मी ति जितं मया

॥१६॥

धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ॥

कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः

॥१७॥

इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ॥

प्रोवाच प्रहसञ्छंभुर्घटोद्भव गजासुरम्

॥१८॥

ईश्वर उवाच

गजासुर प्रसन्नोस्मि महापौरुषशेवधे ॥

स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर

॥१९॥

इत्याकर्ण्य स दैत्येंद्रः प्रत्युवाच महेश्वरम् ॥

गजासुर उवाच ॥

यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे

॥२०॥

इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम् ॥

स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम्

॥२१॥

इष्टगंधिः सदैवास्तु सदैवास्त्वतिकोमला ॥

सदैव निर्मला चास्तु सदैवास्त्वतिमंडनम्

॥२२॥

महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो ॥

न दग्धा कृत्तिरेषा मे पुण्यगंधनिधिस्ततः

॥२३॥

यदि पुण्यवती नैषा ममकृत्तिर्दिगंबर ॥

तदा त्वदंगसंगोस्याः कथं जातो रणांगणे

॥२४॥

अन्यं च मे वरं देहि यदि तुष्टोसि शंकर ॥

नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम्

॥२५॥

इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शंकरः ॥

पुनःप्रोवाच तं दैत्यं भक्तिनिर्मलमानसम्

॥२६॥

ईश्वर उवाच

शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम् ॥

अविमुक्ते महाक्षेत्रे रण त्यक्त कलेवर

॥२७॥

इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने ॥

मम लिंगं भवत्वत्र सर्वेषांमुक्तिदायकम्

॥२८॥

कृत्तिवासेश्वरं नाम महापातकनाशनम् ॥

सर्वेषामेव लिंगानां शिरोभूतमिदं वरम्

॥२९॥

यावंति संति लिंगानि वाराणस्यां महांत्यपि ॥

उत्तमं तावतामेतदुत्तमांगवदुत्तमम्

॥३०॥

मानवानां हितायात्र स्थास्येहं सपरिग्रहः ॥

दृष्टेनानेन लिंगेन पूजितेन स्तुतेन च ॥

कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः

॥३१॥

रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिंतकाः ॥

शांता दांता जितक्रोधा निर्द्वंद्वा निष्परिग्रहाः

॥३२॥

अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः ॥

मानापमानयोस्तुल्याः समलोष्टाश्मकांचनाः

॥३३॥

कृत्तिवासेश्वरे लिंगे स्थास्येहं तदनुग्रहे ॥

दशकोटिसहस्राणि तीर्थानि प्रतिवासरम्

॥३४॥

त्रिकालमागमिष्यंति कृत्तिवासे न संशयः ॥

कलिद्वापरसंभूता नराः कल्मषबुद्धयः

॥३५॥

सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः ॥

मायया दंभलोभाभ्यां मोहाहंकृतिसंयुताः

॥३६॥

शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः ॥

संध्यास्नानजपेज्यासु दूरीकृत मनोधियः

॥३७॥

कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः ॥

सुखेन मोक्षमेष्यंति यथा सुकृतिनस्तथा

॥३८॥

कृत्तिवासेश्वरं लिंगं सेव्यं काश्यां ततो नरैः ॥

जन्मांतरसहस्रेषु मोक्षोन्यत्र सुदुर्लभः

॥३९॥

कृत्तिवासेश्वरे लिंगे लभ्यस्त्वेकेन जन्मना ॥

पृर्वजन्मकृतं पापं तपोदानादिभिः शनैः ॥

नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात्

॥४०॥

कृत्तिवासेश्वरं लिंगं येर्चयिष्यंति मानवाः ॥

प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः

॥४१॥

अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम् ॥

कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनःपुनः

॥४२॥

सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत् ॥

तत्फलं लभ्यते काश्यां पूजनात्कृत्तिवाससः

॥४३॥

माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात् ॥

कृत्तिवासेशमभ्यर्च्य यः स यायात्परां गतिम्

॥४४॥

शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम् ॥

कृत्तिवासेश्वरे लिंगे न स गर्भं प्रवक्ष्येते

॥४५॥

कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च ॥

गजासुरस्य महतीं प्रावृणोद्धरिदंबरः

॥४६॥

महामहोत्सवो जातस्तस्मिन्नहनि कुंभज ॥

कृत्तिवासत्वमापेदे यस्मिन्देवो दिगंबरः

॥४७॥

यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले ॥

तच्छूलोत्पाटनाज्जातं तत्र कुंडं महत्तरम्

॥४८॥

तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम् ॥

कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यो नरो भवेत्

॥४९॥

स्कंद उवाच

तस्मिंस्तीर्थे तु यद्वृत्तं तदगस्ते निशामय ॥

काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः

॥५०॥

एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा ॥

अन्नं राशीकृतं तत्र ह्युपहारसमुद्भवम्

॥५१॥

बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन् ॥

परस्परं तदन्नार्थं युध्यंतो व्योमवर्त्मनि

॥५२॥

बलिपुष्टैरपुष्टांगा रटतः करटाः कटु ॥

वलिभिश्चातिपुष्टांगैरबलाश्चंचुभिर्हताः

॥५३॥

ते हन्यमाना न्यपतंस्तस्मिन्कुंडे नभोंगणात् ॥

आयुःशेषेण संत्राता हंसीभूतास्तु वायसाः

॥५४॥

आश्चर्यवंतस्तत्रत्या यात्रायां मिलिता जनाः ॥

ऊचुरंगुलिनिर्देशैरहो पश्यत पश्यत

॥५५॥

अस्मासु वीक्षमाणेषु काकाः कुंडेत्र ये पतन् ॥

धार्तराष्ट्रास्तु ते जातास्तीर्थस्यास्य प्रभावतः

॥५६॥

हंसतीर्थं तदारभ्य कृत्तिवास समीपतः ॥

नाम्ना ख्यातमभूल्लोके तत्कुंडं कलशोद्भव

॥५७॥

अतीव मलिनात्मानो महामलिन कर्मभिः ॥

क्षणान्निर्मलतां यांति हंसतीर्थकृतोदकाः

॥५८॥

काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके ॥

द्रष्टव्यः कृत्तिवासेशः प्राप्तव्यं परमं पदम्

॥५९॥

काश्यां लिंगान्यनेकानि मुने संति पदेपदे ॥

कृत्तिवासेश्वरं लिंगं सर्वलिंगशिरः स्मृतम्

॥६०॥

कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा ॥

सर्वलिंगाराधनजं फलं काश्यामवाप्यते

॥६१॥

जपो दानं तपो होमस्तर्पणं देवतार्चनम् ॥

समीपे कृत्तिवासस्य कृतं सर्वमनंतकम्

॥६२॥

तीर्थं त्वनादिसंसिद्धमेतत्कलशसंभव ॥

पुनर्देवस्य सान्निध्यादाविरासीन्महेशितुः

॥६३॥

एतानि सिद्धलिंगानिच्छन्नानि स्युर्युगेयुगे ॥

अवाप्य शंभुसान्निध्यं पुनराविर्भवंति हि

॥६४॥

हंसतीर्थस्य परितो लिंगानामयुतं मुने ॥

प्रतिष्ठितं मुनिवरैरत्रास्ति द्विशतोत्तरम्

॥६५॥

एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम् ॥

लिंगं कात्यायनेशादि च्यवनेशां तमेव हि

॥६६॥

लोमशेशं महालिंगं लोमशेन प्रतिष्ठितम् ॥

कृत्तिवासः प्रतीच्यां तु तद्दृष्ट्वा क्वांतकाद्भयम्

॥६७॥

मालतीशं शुभं लिंगं कृत्तिवासोत्तरे महत् ॥

सपर्ययित्वा तल्लिंगं राजा गजपतिर्भवेत्

॥६८॥

अंतकेश्वर संज्ञं च लिंगं तद्रुद्रदिक्स्थितम् ॥

अतिपापोपि निष्पापो जायते तद्विलोकनात्

॥६९॥

जनकेशं महालिंगं तत्पार्श्वे ज्ञानदं परम् ॥

तल्लिंग वरिवस्यातो ब्रह्मज्ञानमवाप्यते

॥७०॥

तदुत्तरे महामूर्तिरसितांगोस्ति भैरवः ॥

तस्य दर्शनतः पुंसां न भवेद्यमदर्शनम्

॥७१॥

शुष्कोदरी च तत्रास्ति देवी विकटलोचना ॥

कृत्तिवासादुदीच्यां तु काशीप्रत्यूह भक्षिणी

॥७२॥

अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते ॥

ददाति वांछितां सिद्धिं सोर्चितो भौमवासरे

॥७३॥

वेतालकुंडं तत्रास्ति सर्वव्याधिविघातकृत् ॥

तत्कुंडोदकसंस्पर्शाद्व्रणविस्फोटरुग्व्रजेत्

॥७४॥

वेतालकुंडे सुस्नातो वेतालं प्रणिपत्य च ॥

लभेत वांछितां सिद्धिं दुर्लभां सर्वदेहिभिः

॥७५॥

गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः ॥

तस्य संवीक्षणादेव पापं याति सहस्रधा

॥७६॥

तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः ॥

त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि

॥७७॥

रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज ॥

काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः

॥७८॥

तेषां च संछिदां कर्तुमहं धृतकुठारकः ॥

ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः

॥७९॥

सुधाघटकरश्चाहं तद्वंशपरिषेककृत् ॥

तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः

॥८०॥

महामहोपचारैश्च न विघ्नैरभिभूयते ॥

मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि

॥८१॥

मणिकुंडं तदग्रे तु विषव्याधिहरं परम् ॥

तस्मिन्कुंडे कृतस्नानस्तं नागं परिवीक्ष्य च

॥८२॥

मणिमाणिक्यसंपूर्ण गजाश्वरथसंकुलम् ॥

स्त्रीरत्नपुत्ररत्नैश्च समृद्धं राज्यमाप्नुयात्

॥८३॥

कृत्तिवासेश्वरं लिंगं काश्यां यैर्न विलोकितम् ॥

ते मर्त्यलोके भाराय भुवो भूता न संशयः

॥८४॥

स्कंद उवाच

कृत्तिवासः समुत्पत्तिं ये श्रोष्यंतीह मानवाः ॥

तल्लिंगदर्शनाच्छ्रेयो लप्स्यंते नात्र संशयः

॥८५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तराधें कृत्तिवासः समुद्भवो नामाष्टषष्टितमोऽप्यायः

॥६८॥