मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ७९

3
काशीखण्डः · 79

आनंदबाष्पसलिलरुद्धकंठं विलोक्य तम्

स्कंद उवाच

आनंदबाष्पसलिलरुद्धकंठं विलोक्य तम् ॥

मृडः पस्पर्श पाणिभ्यां सौधाभ्यां तु सुधांबुधिः

॥१॥

अथ तत्स्पर्शसौख्येन धर्मराजो महातपाः ॥

पुनरंकुरयामास तपोग्नि ज्वलितां तनुम्

॥२॥

ततः प्रोवाच स ब्राध्निर्देव देवमुमापतिम् ॥

प्रसन्नवदनं शांतं शांतपारिषदावृतम्

॥३॥

प्रसन्नोसि यदीशान सर्वज्ञ करुणानिधे ॥

किमन्येन वरेणात्र यत्त्वं साक्षात्कृतो मया

॥४॥

यं न वेदा विदुः सम्यङ्न च तौ वेदपूरुषौ ॥

ततोपि वरयोग्योस्मि तन्नाथ प्रार्थयाम्यहम्

॥५॥

श्रीकंठांडज डिंभानाममीषां मधुरब्रुवाम् ॥

मत्तपश्चिरसाक्षीणां मत्पुरः प्राप्तजन्मनाम्

॥६॥

पितृभ्यां परिहीनानामितिहास कथाविदाम् ॥

त्यक्ताहारविहाराणां कीराणां वरदो भव

॥७॥

एतत्प्रसूतिसमये आमयेन प्रपीडिता ॥

शुकी पंचत्वमापन्ना शुकः श्येनेन भक्षितः

॥८॥

रक्षितानामनाथानां सदा मन्मुखदर्शिनाम् ॥

अनाथनाथ भवता ह्यायुःशेषस्वरूपिणा

॥९॥

इति धर्मवचः श्रुत्वा परोपकृतिनिर्मलम् ॥

तानाहूय मुने शंभुर्विनयावनताननान् ॥

उवाच धर्मेति प्रीतः शुकशावानिदं वचः ॥

अयि पत्त्ररथा ब्रूत साधवो धर्मसंगताः

॥११॥

को वरो भवता देयो धर्मेश परिचारिणाम् ॥

साधुसंसर्गसंक्षीण जन्मांतरमहैनसाम्

॥१२॥

इति श्रुत्वा महेशस्य वचनं ते पतत्त्रिणः ॥

प्रोचुः प्रणम्य देवेशं नमस्ते भवनाशन

॥१३॥

पक्षिण ऊचुः

अनाथनाथ सर्वज्ञ को वरो नः समीहितः ॥

इतोपि त्र्यक्ष यत्साक्षात्तिर्यक्त्वेपि समीक्षिताः

॥१४॥

लाभाः संतूद्यमवतां गिरीशेह परः शताः ॥

परं परोयं लाभोत्र यत्त्वं दृग्गोचरी भवेः

॥१५॥

यदेतद्दृश्यते नाथ तत्सर्वं क्षणभंगुरम् ॥

अभंगुरो भवानेकस्त्वत्सपर्याप्यभंगुरा

॥१६॥

विचित्रजन्मकोटीनां स्मृतिर्नोत्र परिस्फुरेत् ॥

एतत्तपस्विरचितलिंगपूजा विलोकनात्

॥१७॥

देवयोनिरपि प्राप्ता चिरमस्माभिरीशितः ॥

दिव्यांगना सहस्राणि तत्र भुक्त्वा स्वलीलया

॥१८॥

आसुरी दानवी नागी नैर्ऋती चापि कैन्नरी ॥

विद्याधरी च गांधर्वी योनिरस्माभिरर्जिता

॥१९॥

नरत्वे भूपतित्वं च परिप्राप्तमनेकशः ॥

जले जलचरत्वं च स्थले च स्थलचारिता

॥२०॥

वने वनौकसो जाता ग्रामेषु ग्रामवासिनः ॥

दातारो याचितारश्च रक्षितारश्च घातुकाः

॥२१॥

सुखिनोपि वयं जाता दुःखिनो वयमास्म च ॥

जेतारश्च वयं जाताः पराजेतार एव च

॥२२॥

अधीतिनोपि मूर्खाश्च स्वामिनः सेवका अपि ॥

चतुर्षु भूतग्रामेषु उत्तमाधममध्यमाः

॥२३॥

अभूम भूरिशः शंभो न क्वापि स्थैर्यमागताः ॥

इतोयोनेस्ततो योनौ ततो योनेस्ततोन्यतः

॥२४॥

पिनाकिन्क्वापि न प्रापि सुखलेशो मनागपि ॥

इदानीं पुण्यसंभारैर्धर्मेश्वरविलोकनात्

॥२५॥

तापनेःसुतपो वह्निज्वालाप्रज्वलितैनसः ॥

संवीक्ष्य त्र्यक्ष साक्षात्त्वां कृतकृत्या बभूविम

॥२६॥

तथापि चेद्वरो देयस्तिर्यक्ष्वस्मासु धूर्जटे ॥

कृपणेष्वपि शोच्येषु ज्ञानं सर्वज्ञ देहि तत्

॥२७॥

येन ज्ञानेन मुक्ताः स्मोऽमुष्मात्संसारबंधनात् ॥

यंत्रिताः प्राकृतैः पाशैरदुर्भेद्यैश्च मादृशैः

॥२८॥

ऐंद्रं पदं न वांछामो न चांद्रं नान्यदेव हि ॥

वाञ्छामः केवलं मृत्युं काश्यां शंभोऽपुनर्भवम्

॥२९॥

त्वत्सान्निध्याद्विजानीमः सर्वज्ञ सकलं वयम् ॥

यथा चंदनसंसर्गात्सर्वे सुरभयो द्रुमाः

॥३०॥

एतदेव परं ज्ञानं संसारोच्छित्तिकारणम् ॥

वपुर्विसर्जनं काले यत्तवानंदकानने

॥३१॥

निर्मथ्य विष्वग्वाग्जालं सारभूतमिदं परम् ॥

ब्रह्मणोदीरितं पूर्वं काश्यां मुक्तिस्तनुत्यजाम्

॥३२॥

यद्वाच्यं बहुभिर्ग्रंथैस्तदष्टाभिरिहाक्षरैः ॥

हरिणोक्तं रविपुरः कैवल्यं काशिसंस्थितौ

॥३३॥

याज्ञवल्क्यो मुनिवरः प्रोक्तवान्मुनिसंसदि ॥

रवेरधीत्य निगमान्काश्यामंते परं पदम्

॥३४॥

स्वामिनापि जगद्धात्री पुरतो मंदराचले ॥

इदमेव पुरा प्रोक्तं काशीनिर्वाणजन्मभूः

॥३५॥

कृष्णद्वैपायनोप्येवं शंभो वक्ष्यति नान्यथा ॥

यत्रविश्वेश्वरः साक्षान्मुक्तिस्तत्र पदेपदे

॥३६॥

वदंत्यन्येपि मुनयस्तीर्थसंन्यासकारिणः ॥

चिरंतना लोमशाद्याः काशिका मुक्तिकाशिका

॥३७॥

वयमप्येवं जानीमो यत्र स्वर्गतरंगिणी ॥

आनंदकानने शंर्भोमोक्षस्तत्रैव निश्चितम्

॥३८॥

भूतं भावि भविष्यं यत्स्वर्गे मर्त्ये रसातले ॥

तत्सर्वमेव जानीमो धर्मेशानुग्रहात्परात्

॥३९॥

अतो हिरण्यगर्भोक्तं हरिप्रोक्तं मुनीरितम् ॥

भवतोक्तं च निखिलं शंभो जानीमहे वयम्

॥४०॥

करामलकवत्सर्वमेतद्ब्रह्मांडगोलकम् ॥

अस्मद्वाग्गोचरेऽस्त्येव धर्मपीठनिषेवणात्

॥४१॥

धर्मराजस्य तपसा तिर्यञ्चोपि वयं विभो ॥

जाताः स्म निर्विकल्पं हि सर्वज्ञानस्य भाजनम्

॥४२॥

मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम् ॥

हितं मितं सदृष्टांतं श्रुत्वा पक्षिसुभाषितम्

॥४३॥

देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम् ॥

त्रैलोक्यनगरे चात्र काशीराजगृहं मम

॥४४॥

तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम् ॥

मोक्षलक्ष्मीविलासाख्यः प्रासादो मेति शर्मभूः

॥४५॥

पतत्त्रिणो पिमुच्यंते यं कुर्वाणाः प्रदक्षिणम् ॥

स्वेच्छया विचरंतः खे खेचरा अपि देवताः

॥४६॥

मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात् ॥

शरीराद्दूरतो याति ब्रह्महत्यापि नान्यथा

॥४७॥

मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः ॥

निधानकलशास्तांस्तु न मुंचंति पदेपदे

॥४८॥

दूरतोपि पताकापि मम प्रासादमूर्धगा ॥

नेत्रातिथी कृता यैस्तु नित्यं तेऽतिथयो मम

॥४९॥

भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि ॥

आनंदाख्यस्य कंदस्य कोप्येष परमोंकुरः

॥५०॥

ब्रह्मादिस्थावरांतानि यत्र रूपण्यनेकशः ॥

मामेवोपासते नित्यं चित्रं चित्रगतान्यपि

॥५१॥

ससौधो मेखिले लोके स्थानं परमनिर्वृतेः ॥

रतिशाला स मे रम्या स मे विश्वासभूमिका

॥५२॥

मम सर्वगतस्यापि प्रासादोयं परास्पदम् ॥

परं ब्रह्म यदाम्नातं परमोपनिषद्गिरा ॥

अमूर्तं तदहं मूर्तो भूयां भक्तकृपावशात्

॥५३॥

नैःश्रेयस्याः श्रियो धाम तद्याम्यां मंडपोस्ति मे ॥

तत्राहं सततं तिष्ठे तत्सदोमंडपं मम

॥५४॥

निमेषार्धप्रमाणं च कालं तिष्ठति निश्चलः ॥

तत्र यस्तेन वै योगः समभ्यस्तः समाः शतम्

॥५५॥

निर्वाणमंडपं नाम तत्स्थानं जगतीतले ॥

तत्रर्चं संजपन्नेकां लभेत्सर्वश्रुतेः फलम्

॥५६॥

प्राणायामं तु यः कुर्यादप्येकं मुक्तिमंडपे ॥

तेनाष्टांगः समभ्यस्तो योगोऽन्यत्रायुतं समाः

॥५७॥

निर्वाणमंडपे यस्तु जपेदेकं षडक्षरम् ॥

कोटिरुद्रेण जप्तेन यत्फलं तस्य तद्भवेत्

॥५८॥

शुचिर्गंगांभसि स्नातो यो जपेच्छतरुद्रियम् ॥

निर्वाणमंडपे ज्ञेयः स रुद्रो द्विजवेषभृत्

॥५९॥

ब्रह्मयज्ञसकृत्कृत्वा मम दक्षिणमंडपे ॥

ब्रह्मलोकमवाप्याथ परं ब्रह्माधिगच्छति

॥६०॥

धर्मशास्त्रं पुराणानि सेतिहासानि तत्र यः ॥

पठेन्निरभिलाषुः सन्स वसेन्मम वेश्मनि

॥६१॥

तिष्ठेदिंद्रियचापल्यं यो निवार्य क्षणं कृती ॥

निर्वाणमंडपेन्यत्र तेन तप्तं महत्तपः

॥६२॥

वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम् ॥

तत्पुण्यं घटिकार्धेन मौनं दक्षिणमंडपे

॥६३॥

मितं कृष्णलकेनापि योदद्यान्मुक्तिमंडपे ॥

स्वर्णं सौवर्णयानेन स तु संचरते दिवि

॥६४॥

तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः ॥

उपोषितोर्चयेल्लिंगं स सर्वव्रतपुण्यभाक्

॥६५॥

तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम् ॥

तत्राधीत्याखिलं वेदं च्यवते न नरो दिवः

॥६६॥

प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमंडपे ॥

समामनुप्रविष्टोत्र तिष्ठेद्यावदहं खलु

॥६७॥

जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया ॥

यदंबुपानमात्रेण ज्ञानं जायेत निमर्लम्

॥६८॥

तज्जलक्रीडनस्थानं मम प्रीतिकरं महत् ॥

अमुष्मिन्राजसदने जाड्यहृज्जलपूरितम्

॥६९॥

तत्प्रासादपुरोभागे मम शृंगारमंडपः ॥

श्री पीठं तद्धि विज्ञेयं निःश्रीकश्रीसमर्पणम्

॥७०॥

मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो ॥

माल्यानि सुविचित्राणि यक्षकर्दमवंति च

॥७१॥

नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि ॥

स श्रियालंकृतस्तिष्ठेद्यत्र कुत्रापि सत्तमः

॥७२॥

निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये ॥

यत्र कुत्रापि निधनं प्राप्नुयादपि स ध्रुवम्

॥७३॥

मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम ॥

ऐश्वर्यमडपं रम्यं तत्रैश्वर्यं ददाम्यहम्

॥७४॥

मत्प्रासादैंद्रदिग्भागे ज्ञानमंडपमस्ति यत् ॥

ज्ञानं दिशामि सततं तत्र मां ध्यायतां सताम्

॥७५॥

भवानि राजसदने ममास्ति हि महानसम् ॥

यत्तत्रोपहृतं पुण्यं निर्विशामि मुदैव तत्

॥७६॥

विशालाक्ष्या महासौधे मम विश्रामभूमिका ॥

तत्र संसृतिखिन्नानां विश्रामं श्राणयाम्यहम्

॥७७॥

नियमस्नानतीर्थं च चक्रपुष्करिणी मम ॥

तत्र स्नानवतां पुंसां तन्नैर्मल्यं दिशाम्यहम्

॥७८॥

यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम् ॥

स्वसंवेद्यं यदाहुश्च तत्तत्रांते दिशाम्यहम्

॥७९॥

यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् ॥

स्वात्मारामं यदाहुश्च तत्तत्रांते दिशाम्यहम्

॥८०॥

जगन्मंगलभूर्यात्र परमा मणिकर्णिका ॥

विपाशयामि तत्राहं कर्मभिः पाशितान्पशून्

॥८१॥

निर्वाणश्राणने यत्र पात्रापात्रं न चिंतये ॥

आनंदकानने तन्मे दानस्थानं दिवानिशम्

॥८२॥

भवांबुधौ महागाधे प्राणिनः परिमज्जतः ॥

भूत्वैव कर्णधारोंते यत्र संतारयाम्यहम्

॥८३॥

सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका ॥

ददामि तस्यां सर्वस्वमग्रजायांत्यजाय वा

॥८४॥

महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः ॥

दुष्प्रापोन्यत्र यो मोक्षः शोच्यैरपि स लभ्यते

॥८५॥

दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः ॥

तुल्यो मे मोक्षदीक्षायां संप्राप्य मणिकर्णिकाम्

॥८६॥

यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम् ॥

ददामि जंतुमात्राय सर्वस्वं चिरसंचितम्

॥८७॥

यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः ॥

अविचारं तदा देयं सर्वस्वं चिरसंचितम्

॥८८॥

शरीरमथ संपत्तिरथ सा मणिकर्णिका ॥

त्रिसंयोगोयमप्राप्यो देवैरिंद्रादिकैरपि

॥८९॥

पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च ॥

निर्वाणलक्ष्मीं यच्छामि सदोपमणिकर्णिकम्

॥९०॥

मुक्तिदा न मही सा मे वाराणस्यां महीयसी ॥

तन्मही रजसा साम्यं त्रिलोक्यपि न चोद्वहेत्

॥९१॥

परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम् ॥

तत्र पूजां सकृत्कृत्वा कृतकृत्यो नरो भवेत्

॥९२॥

सायं पाशुपतीं संध्यां कुर्यां पशुपतीश्वरे ॥

विभूतिधारणात्तत्र पशुपाशैर्न बध्यते

॥९३॥

प्रातःसध्याकरोम्येव सदोंकारनिकेतने ॥

तत्रैकापि कृता संध्या सर्वपातककृंतनी

॥९४॥

वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि ॥

अत्र जागरणं कृत्वा चतुर्दश्यां न गर्भभाक्

॥९९॥

रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः ॥

रत्नैः समर्च्य तल्लिंगं स्त्रीरत्नादि लभेन्नरः

॥९६॥

विष्टपत्रितयांतःस्थोप्यहं लिंगे त्रिविष्टपे ॥

तिष्ठामि सततं भक्तमनोरथसमृद्धये

॥९७॥

विरजस्कं महापीठं तत्र संसेव्य मानवः ॥

विरजा जायते नूनं चतुर्नद कृतोदकः

॥९८॥

महादेवे महापीठं मम साधकसिद्धिदम् ॥

तत्पीठदर्शनादेव महापापैः प्रमुच्यते

॥९९॥

पितृप्रीतिप्रदं पीठं वृषभध्वजसंज्ञकम् ॥

पितृतर्पणकृत्तत्र पितॄंस्तारयति क्षणात्

॥१००॥

आदिकेशवपीठेहमादिकेशवरूपधृक् ॥

श्वेतद्वीपं नये भक्तान्वैष्णवानतिवल्लभान्

॥१॥

तत्रैव मंगलापीठे सर्वमंगलदायिनि ॥

उप पंचनदे तीर्थे भक्तान्संतारयाम्यहम्

॥२॥

बिंदुमाधवरूपेण यत्राहं वैष्णवाञ्जनान् ॥

नये पंचनदस्नातांस्तद्विष्णोः परमं पदम्

॥३॥

पंचमुद्रे महापीठे ये वीरेश्वरसेवकाः ॥

तेषां परमनिर्वाणं कालेनाल्पेन जायते

॥४॥

तत्र सिद्धेश्वरीपीठे चंद्रेश्वर समीपतः ॥

तत्र संनिधिकर्तॄणां सिद्धिः षण्मासतो भवेत्

॥५॥

काश्यां च योगिनीपीठे योगसिद्धिविधायिनि ॥

सिद्धीरुच्चाटनाद्याश्च कैर्न लब्धाः सुसाधकैः

॥६॥

अनेकानीह पीठानि संति काश्यां पदेपदे ॥

परं धर्मेशपीठस्य काचिच्छक्तिरनुत्तमा

॥७॥

यत्रामी बालकीराश्च निर्मलज्ञानभाजनम् ॥

आसुः सदुपदेशान्मे त्रातत्रातेति भाषिणः

॥८॥

एतद्धर्मेश्वरं पीठं त्यजाम्यद्यदिनावधि ॥

न कदाचित्तरणिजत्वत्तपोवनमुत्तमम्

॥९॥

ममानुग्रहतः कीरानेतान्पश्य रवेः सुत ॥

दिव्यविमानमारुह्य गंतारो मत्पुरं महत्

॥११०॥

तत्र भुक्त्वा चिरं भोगाञ्ज्ञानं प्राप्य मयेरितम् ॥

इह मुक्तिमवाप्स्यंति त्वत्संसर्गातिनिर्मलाः

॥११॥

इत्युक्तवति देवेशे कैलासशिखरोपमम् ॥

दिव्यं विमानमापन्नं रुद्रकन्यापरिष्कृतम्

॥१२॥

आरुह्यते न यानेन दिव्यरूपवराः खगाः ॥

कैलासमभिसंजग्मुर्धर्ममापृच्छ्यतेऽमलाः

॥११३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशाख्याननामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥