देवताधिष्ठानम्
अगस्त्य उवाच
कात्यायनेय कथय नंदिना विश्वनंदिना ॥
यथा व्यापारिता देव्यो देवदेवनिदेशतः
॥१॥अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः ॥
प्रसादं कुरु मे देव ताः समाचक्ष्व तत्त्वतः
॥२॥इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः ॥
कथयामास या यत्र स्थिताऽऽनंदवने मुदा
॥३॥स्कंद उवाच
वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा ॥
विशालतीर्थं गंगायां कृत्वा पृष्ठे व्यवस्थिता
॥४॥स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च ॥
विशालां लभते लक्ष्मीं परत्रेह च शर्मदाम्
॥५॥भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः ॥
कृत्वा जागरणं रात्रौ विशालाक्षीसमीपतः
॥६॥प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः ॥
अलंकृता यथाशक्त्या स्रगंबरविभूषणैः
॥७॥विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः ॥
सम्यग्वाराणसीवासफलं लभ्येत कुंभज
॥८॥तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः ॥
उपसर्ग प्रशांत्यर्थं निर्वाणकमलाप्तये
॥९॥वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः ॥
धूपदीपैः शुभैर्माल्यैरुपहारैर्मनोहरैः
॥१०॥मणिमुक्ताद्यलंकारैर्विचित्रोल्लोच चामरैः ॥
शुभैरनुपभुक्तैश्च दुकूलैर्गंधवासितैः
॥११॥मोक्षलक्ष्मी समृद्ध्यर्थं यत्रकुत्र निवासिभिः ॥
अप्यल्पमपि यद्दत्तं विशालाक्ष्यै नरोत्तमैः
॥१२॥तदानंत्याय जायंत मुने लोकद्वयेपि हि ॥
विशालाक्षी महापीठे दत्तं जप्तं हुतं स्तुतम्
॥१३॥मोक्षस्तस्य परीपाको नात्र कार्या विचाणा ॥
विशालाक्षी समर्चातो रूपसंपत्तियुक्पतिः
॥१४॥प्राप्यतेत्र कुमारीभिर्गुणशीलाद्यलंकृतः ॥
गुर्विणीभिः सुतनयो वंध्याभिगर्भसंभवः
॥१५॥असौभाग्यवतीभिश्च सौभाग्यं महदाप्यते ॥
विधवाभिर्न वैधव्यं पुनर्जन्मांतरे क्वचित्
॥१६॥सीमंतिनीभिः पुंभिर्वा परं निर्वाणमिच्छुभिः ॥
श्रुता दृष्टार्चिता काश्यां विशालाक्ष्यभिलाषदा
॥१७॥ततोन्यल्ललितातीर्थं गंगाकेशवसन्निधौ ॥
तत्रास्ति ललिता देवी क्षेत्ररक्षाकरी परा
॥१८॥सा च पूज्या प्रयत्नेन सर्वसंपत्समृद्धये ॥
ललितापूजकानां च जातु विघ्नो न जायते
॥१९॥इषे कृष्णद्वितीयायां ललितां परिपूज्य वै ॥
नारी वा पुरुषो वापि लभते वांछितं पदम्
॥२०॥स्नात्वा च ललिता तीर्थे ललितां प्रणिपत्य वै ॥
लभेत्सर्वत्र लालित्यं यद्वा तद्वाऽनुलप्य च
॥२१॥मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता ॥
संहरंती महाविघ्नं क्षेत्रभक्तिजुषां सदा
॥२२॥शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः ॥
देव्या विश्वभुजाया वै सर्वकामसमृद्धये
॥२३॥यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः ॥
कुतो महोपसर्गेभ्यस्तस्य शांतिर्दुरात्मनः
॥२४॥यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता ॥
न हि तान्विघ्नसंघातो बाधते सुकृतात्मनः
॥२५॥अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ ॥
तां प्रणम्य नरो भक्त्या विपदब्धौ न मज्जति
॥२६॥शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी ॥
आनंदवनरक्षार्थमुद्यच्छूलारितर्जनी
॥२७॥वज्रहस्ता तथा चैंद्री गजराज रथास्थिता ॥
इंद्रेशाद्दक्षिणेभागेऽर्चिता संपत्करी सदा
॥२८॥स्कंदेश्वर समीपे तु कौमारी बर्हियानगा ॥
प्रेक्षणीया प्रयत्नेन महाफलसमृद्धये
॥२९॥महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः ॥
वृषयानवती पूज्या महावृषसमृद्धिदा
॥३०॥निर्वाणनरसिंहस्य समीपे मोक्षकांक्षिभिः ॥
नारसिंही समर्च्या च समुद्यच्चक्र रम्यदोः
॥३१॥हंसयानवती ब्राह्मी ब्रह्मेशात्पश्चिमे स्थिता ॥
गलत्कमंडलुजल चुलका ताडिता हिता
॥३२॥ब्रह्मविद्या प्रबोधार्थं काश्यां पूज्या दिनेदिने ॥
ब्राह्मणैर्यतिभिर्नित्यं निजतत्त्वावबोधिभिः
॥३३॥शार्ङ्गचापविनिर्मुक्त महेषुभिरितस्ततः ॥
उत्सादयंतीं प्रत्यूहान्काश्यां नारायणीं श्रयेत्
॥३४॥प्रतीच्यांगोपिगोविंदाद्भ्राम्यच्चक्रोच्च तर्जनीम् ॥
नारायणीं यः प्रणमेत्तस्य काश्यां महोदयः
॥३५॥ततो गौरीं विरूपाक्ष देवयान्या उदग्दिशि ॥
पूजयित्वा नरो भक्त्या वांछितां लभते श्रियम्
॥३६॥शैलेश्वरी समभ्यर्च्या शैलेश्वर समीपगा ॥
तर्जयंती च तर्जन्या संसर्गमुपसर्गजम्
॥३७॥चित्रकूपे नरः स्नात्वा विचित्रफलदे नृणाम् ॥
चित्रगुप्तेश्वरं वीक्ष्य चित्रघंटां प्रपूज्य च
॥३८॥बहुपातकयुक्तोपि त्यक्तधर्मपथोपि वा ॥
न चित्रगुप्तलेख्यः स्याच्चित्रघंटार्चको नरः
॥३९॥योषिद्वा पुरुषो वापि चित्रघंटां न योर्चयेत् ॥
काश्यां विघ्नसहस्राणि तं सेवंते पदेपदे
॥४०॥चैत्रशुक्लतृतीयायां कार्या यात्रा प्रयत्नतः ॥
महामहोत्सवः कार्यो निशि जागरणं तथा
॥४१॥महापूजोपकरणैश्चित्रघंटां समर्च्य च ॥
शृणोति नांतकस्येह घंटां महिषकंठगाम्
॥४२॥चित्रांगदेश्वरप्राच्यां चित्रग्रीवां प्रणम्य च ॥
न जातु जंतुर्वीक्षेत विचित्रां यमयातनाम्
॥४३॥भद्रकालीं नरो दृष्ट्वा नाभद्रं पश्यति क्वचित् ॥
भद्रनागस्य पुरतो भद्रवाप्यां कृतोदकः
॥४४॥हरसिद्धिं प्रयत्नेन पूजयित्वा नरोत्तमः ॥
महासिद्धिमवाप्नोति प्राच्यां सिद्धिविनायकात्
॥४५॥विधिं संपूज्य विधिवद्विविधैरुपहारकैः ॥
विविधां लभते सिद्धिं विधीश्वरसमीपगाम्
॥४६॥प्रयागतीर्थे सुस्नातो जनो निगडभंजनीम् ॥
सभाजयित्वा नो जातु निगडैः परिबाध्यते
॥४७॥भौमवारे सदा पूज्या देवीनिगडभंजनी ॥
कृत्वैकभुक्तं भक्त्यात्र बंदीमोक्षणकाम्यया
॥४८॥संसारबंधविच्छित्तिमपि यच्छति सार्चिता ॥
गणना शृंखलादीनां का च तस्याः समर्चनात्
॥४९॥दूरस्थोपि हि यो बंधुः सोपि क्षिप्रं समेष्यति ॥
बंदी पदजुषां पुंसां श्रद्धया नात्र संशयः
॥५०॥किंचिन्नियममालंब्य यदि सा परिषेविता ॥
कामान्पूरयति क्षिप्रं काशी संदेहहारिणी
॥५१॥घनटंककरा देवी भक्तबंधनभेदिनी ॥
कं कं न पूरयेत्कामं तीर्थराजसमीपगा
॥५२॥देवी पशुऽपतेः पश्चादमृतेश्वर सन्निधौ ॥
स्नात्वा चैवामृते कूपे नमनीया प्रयत्नतः
॥५३॥पूजयित्वा नरो भक्त्या देवताममृतेश्वरीम् ॥
अमृतत्वं भजेदेव तत्पादांबुज सेवनात्
॥५४॥धारयंतीं महामायाममृतस्य कमंडलुम् ॥
दक्षिणेऽभयदां वामे ध्यात्वा को नाऽमृतत्वभाक्
॥५५॥सिद्धलक्ष्मी जगद्धात्री प्रतीच्याममृतेश्वरात् ॥
प्रपितामह लिंगस्य पुरतः सिद्धिदार्चिता
॥५६॥प्रासादं सिद्धलक्ष्म्याश्च विलोक्य कमलाकृतिम् ॥
लक्ष्मीविलाससंज्ञं च को न लक्ष्मीं समाप्नुयात्
॥५७॥ततः कुब्जा जगन्माता नलकूवरलिंगतः ॥
पूजनीया पुरोभागे प्रपितामहपश्चिमे
॥५८॥उपसर्गा न शेषांश्च कुब्जा हरति पूजिता ॥
तस्मात्कुब्जा प्रयत्नेन पूज्या काश्यां शुभार्थिभिः
॥५९॥कुब्जांबरेश्वरं लिंगं नलकूबर पश्चिमे ॥
त्रिलोकसुंदरी गौरी तत्रार्च्याभीष्टदायिनी
॥६०॥त्रिलोकसुंदरी सिद्धिं दद्यात्त्रैलोक्यसुंदरीम् ॥
वैधव्यं नाप्यते क्वापि तस्या देव्याः समर्चनात्
॥६१॥दीप्ता नाम महाशक्तिः सांबादित्यसमीपगा ॥
देदीप्यमान लक्ष्मीका जायंते तत्समर्चनात्
॥६२॥श्रीकंठ सन्निधौ देवी महालक्ष्मीर्जगज्जनिः ॥
स्नात्वा श्रीकुंड तीर्थे तु समर्च्या जगदंबिका
॥६३॥पितॄन्संतर्प्य विधिवत्तीर्थे श्रीकुंडसंज्ञिते ॥
दत्त्वा दानानि विधिवन्न लक्ष्म्या परिमुच्यते
॥६४॥लक्ष्मीक्षेत्रं महापीठं साधकस्यैव सिद्धिदम् ॥
साधकस्तत्र मंत्रांश्च नरः सिद्धिमवाप्नुयात्
॥६५॥संति पीठन्यनेकानि काश्यां सिद्धिकराण्यपि ॥
महालक्ष्मीपीठसमं नान्यल्लक्ष्मीकरं परम्
॥६६॥महालक्ष्म्यष्टमीं प्राप्य तत्र यात्रा कृतां नृणाम् ॥
संपूजितेह विधिवत्पद्मा सद्म न मुंचति
॥६७॥उत्तरे तु महालक्ष्म्या हयकंठीकुठारधृक् ॥
काशीविघ्रमहावृक्षांश्छिनत्ति प्रतिवासरम्
॥६८॥कौर्मी शक्तिर्महालक्ष्मी दक्षिणे पाशपाणिका ॥
बध्नाति विघ्नसंघातं क्षेत्रस्यास्य प्रतिक्षणम्
॥६९॥सा पूजितास्तुता मर्त्यैः क्षेत्रसिद्धिं प्रयच्छति ॥
वायव्यां च शिखी चंडी क्षेत्ररक्षाकरी परा
॥७०॥खादंती विघ्नसंघातं शिखी शब्दं करोति च ॥
तस्याः संदर्शनात्पुंसां नश्यंति व्याधयोखिलाः
॥७१॥भीमचंड्युत्तरद्वारं सदा रक्षेदतंद्रिता ॥
भीमेश्वरस्य पुरतः पाशमुद्गरधारिणीम्
॥७२॥भीमचंडीं नरो दृष्ट्वा भीमकुंडे कृतोदकः ॥
भीमाकृतीन्न वै पश्येद्याम्यान्दूतान्क्वचित्कृती
॥७३॥छागवक्त्रेश्वरी देवी दक्षिणे वृषभध्वजात् ॥
अहर्निशं भक्षयति विघ्नौघतरुपल्लवान्
॥७४॥तस्या देव्याः प्रसादेन काशीवासः प्रलभ्यते ॥
अतश्छागेश्वरीं देवीं महाष्टम्यां प्रपूजयेत्
॥७५॥तालजंघेश्वरी देवी तालवृक्षकृतायुधा ॥
उत्सादयति विघ्नौघानानंदवन मध्यगान्
॥७६॥संगमेश्वर लिंगस्य दक्षिणे विकटाननाम् ॥
तालजंघेश्वरीं नत्वा न विघ्नैरभिभूयते
॥७७॥उद्दालकेश्वराल्लिंगात्तीर्थं उद्दालकाभिधे ॥
याम्यां च यमदंष्ट्राख्या चर्वयेद्विघ्नसंहतिम्
॥७८॥प्रणता यमदंष्ट्रायैस्तीर्थेचोद्दालकाभिधे ॥
कृत्वापि पापसंघातं न यमाद्बिभ्यतीहते
॥७९॥दारुकेश्वर तीर्थे तु दारुकेशसमीपतः ॥
पातालतालुवदनामाकाशोष्ठीं धराधराम्
॥८०॥कपालकर्त्रीं हस्तां च ब्रह्मांडकवलप्रियाम् ॥
शुष्कोदरीं स्नायुबद्धां चर्ममुंडेति विश्रुताम्
॥८१॥क्षेत्रस्य पूर्वदिग्भागं रक्षंती विघ्नसंघतः ॥
लसत्सहस्रदोर्दंडां ज्वलत्केकरवीक्षणाम्
॥८२॥पारावारप्रसृमर हस्त न्यस्तारि मोदकाम् ॥
द्वीपि कृत्तिपरीधानां कटुकाट्टाट्टहासिनीम्
॥८३॥मृणालनालवत्तीव्रं चर्वंतीमस्थि पापिनः ॥
शूलाग्रप्रोत दुर्वृत्त क्षेत्रद्रोहिकलेवराम्
॥८४॥कपालमालाभरणां महाभीषणरूपिणीम् ॥
चर्ममुंडां नरो नत्वा क्षेत्रविघ्नैर्न बाध्यते
॥८५॥यथैव चर्ममुंडैषा महारुंडापि तादृशी ॥
एतावानेव भेदोस्या रुंडस्रग्भूषणात्वियम्
॥८६॥क्षेत्ररक्षां प्रकुरुत उभेदेव्यौ महाबले ॥
हसंत्यौ करतालीभिरन्योन्यं दोः प्रसारणात्
॥८७॥हयग्रीवेश्वरे तीर्थे लोलार्कादुत्तरे सदा ॥
महारुंडा प्रचंडास्या तिष्ठते भक्तविघ्नहृत्
॥८८॥चर्ममुंडा महारुंडा कथिते ये तु देवते ॥
तयोरंतरतस्तिष्ठेच्चामुंडा मुंडरूपिणी
॥८९॥एतास्तिस्रः प्रयत्नेन पूज्याः क्षेत्रनिवासिभिः ॥
धनधान्यप्रदाश्चैताः पुत्रपौत्रप्रदा इमाः
॥९०॥उपसर्गानमूर्घ्नंति दद्युर्नैःश्रेयसीं श्रियम् ॥
स्मृता दृष्टा न ताः स्पृष्टाः पूजिताः श्रद्धया नरैः
॥९१॥महारुंडा प्रतीच्यां च देवी स्वप्नेश्वरी शुभा ॥
भविष्यं कथयेत्स्वप्ने भक्तस्याग्रे शुभाशुभम्
॥९२॥तत्र स्वप्नेश्वरं लिंगं देवीं स्वप्नेश्वरीं तथा ॥
स्नात्वासिसंगमे पुण्ये यस्मिन्कस्मिंस्तिथावपि
॥९३॥उपोषणपरो धीमान्नारीवा पुरुषोपि वा ॥
संपूज्य स्थंडिलशयः स्वप्ने भावि विलोकयेत्
॥९४॥अद्यापि प्रत्ययस्तत्र कार्य एष विजानता ॥
भूतं भावि भवत्सर्वं वदेत्स्वप्नेश्वरी निशि
॥९५॥अष्टम्यां च चतुर्दश्यां नवम्यां निशि वा दिवा ॥
प्रयत्नतः समर्च्या सा काश्यां ज्ञानार्थिभिर्नरैः
॥९६॥स्वप्नेश्वर्याश्च वारुण्यां दुर्गादेवी व्यवस्थिता ॥
क्षेत्रस्य दक्षिणं भागं सा सदैवाभिरक्षति
॥९७॥इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे देवताधिष्ठानंनाम सप्ततितमोऽध्यायः ॥ ७० ॥