पार्वतीशवर्णनम्
अगस्त्य उवाच
पार्वतीहृदयानंद पार्वतीश समुद्भवम् ॥
कथयेह यदुद्दिष्टं भवता प्रागघापहम्
॥१॥स्कंद उवाच
शृण्वगस्ते यदा मेना हिमाचलपतिव्रता ॥
गिरींद्रजां सुतामाह पुत्रि तेस्य महेशितुः
॥२॥किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन ॥
प्रायो गृहं न जामातुरस्य कोपि च कुत्रचित्
॥३॥निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा ॥
आसाद्यावसरं शंभुं नत्वा गौरी व्यजिज्ञपत्
॥४॥मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम् ॥
नाथात्र नैव वस्तव्यं नय मां स्वं निकेतनम्
॥५॥गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित् ॥
हित्वा हिमगिरिं प्राप्तो निजमानंदकाननम्
॥६॥प्राप्यानंदवनं देवी परमानंदकारणम् ॥
विस्मृत्य पितृसंवासं जाता चानंदरूपिणी
॥७॥अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा ॥
अच्छिन्नानंदसंदोहः कुतः क्षेत्रेऽत्र तद्वद
॥८॥इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक् ॥
पंचक्रोशपरीमाणे क्षेत्रेस्मिन्मुक्तिसद्मनि
॥९॥तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् ॥
एकैकं परितो लिंगं क्रोशं क्रोशं च यावनिः
॥१०॥अन्यत्रापि हि सा देवि भवेदानंदकारणम् ॥
अत्रानंदवने देवि परमानंदजन्मनि
॥११॥परमानंदरूपाणि संति लिंगान्यनेकशः ॥
चतुर्दशसु लोकेषु कृतिनो ये वसंति हि
॥१२॥तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता ॥
अत्र येन महादेवि लिंगं संस्थापितं मम
॥१३॥वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित्
॥१४॥परिच्छेदव्यतीतस्यानंदस्य परकारणम् ॥
अतस्त्विदं परं क्षेत्रं लिर्गैर्भूयोभिरद्रिजे
॥१५॥निशम्येति महादेवी पुनः पादौ प्रणम्य च ॥
देह्यनुज्ञां महादेव लिंगसंस्थापनाय मे
॥१६॥पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता ॥
न तस्याः श्रेयसो हानिः संवर्तेपि कदाचन
॥१७॥इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः ॥
लिंगं संस्थापितं गौर्या महादेव समीपतः
॥१८॥तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम् ॥
विलीयेत न संदेहो देहबंधोपि नो पुनः
॥१९॥तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः ॥
निशामय मुने तं तु भक्तानां हितकाम्यया
॥२०॥लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति ॥
तद्देहावसितिं प्राप्य काशीलिंगं भविष्यति
॥२१॥काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति ॥
चैत्रशुक्लतृतीयायां पार्वतीशसमर्चनात्
॥२२॥इह सौभाग्यमाप्नोति परत्र च शुभां गतिम् ॥
पार्वतीश्वरमाराध्य योषिद्वा पुरुषोपि वा
॥२३॥न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम् ॥
पार्वतीशस्य लिंगस्य नामापि परिगृह्णतः
॥२४॥अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ॥
पार्वतीशस्य माहात्म्यं यः श्रोष्यति नरोत्तमः ॥
ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः
॥२५॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पार्वतीशवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥