सदाचारः
कुंभयोनिरुवाच
अविमुक्तं महाक्षेत्रं परनिर्वाणकारणम् ॥
क्षेत्राणां परमं क्षेत्रं मंगलानां च मंगलम्
॥१॥श्मशानानां च सर्वेषां श्मशानं परमं महत् ॥
पीठानां परमं पीठमूषराणां महोषरम्
॥२॥धर्माभिलाषिबुद्धीनां धर्मराशिकरं परम् ॥
अर्थार्थिनां शिखिरथ परमार्थ प्रकाशकम्
॥३॥कामिनां कामजननं मुमुक्षूणां च मोक्षदम् ॥
श्रूयते यत्र यत्रैतत्तत्र तत्र परामृतम्
॥४॥क्षेत्रैकदेशवर्तिन्या ज्ञानवाप्याः कथां पराम् ॥
श्रुत्वेमामिति मन्येहं गौरीहृदयनंदन
॥५॥अणुप्रमाणमपि या मध्ये काशिविकासिनी ॥
मही महीयसी ज्ञेया सा सिद्ध्यै न मुधा क्वचित्
॥६॥कियंति संति तीर्थानि नेह क्षोणीतलेऽखिले ॥
परं काशीरजोमात्र तुलासाम्यं क्व तेष्वपि
॥७॥कियंत्यो न स्रवंत्योत्र रत्नाकर मुदावहाः ॥
परं स्वर्गतरंगिण्याः काश्यां का साम्यमुद्वहेत्
॥८॥कियंति संति नो भूम्यां मोक्षक्षेत्राणि षण्मुख ॥
परं मन्येऽविमुक्तस्य कोट्यंशोपि न तेष्वहो
॥९॥गंगा विश्वेश्वरः काशी जागर्ति त्रितयं यतः ॥
तत्र नैःश्रेयसी लक्ष्मीर्लभ्यते चित्रमत्र किम्
॥१०॥कथमेषा त्रयी स्कंद प्राप्यते नियतं नरैः ॥
तिष्ये युगे विशेषेण नितरां चंचलेंद्रियैः
॥११॥तपस्तादृक्क्व वा तिष्ये तिष्ये योगः क्व तादृशः ॥
क्व वा व्रतं क्व वा दानं तिष्ये मोक्षस्त्वतः कुतः
॥१२॥विनापि तपसा स्कंद विनायोगेन षण्मुख ॥
विना व्रतैर्विना दानैः काश्यां मोक्षस्त्वयेरितः
॥१३॥किं किमाचरता स्कंद काशी प्राप्येत तद्वद ॥
मन्ये विना सदाचारं न सिद्ध्येयुर्मनोरथाः
॥१४॥आचारः परमो धर्म आचारः परमं तपः ॥
आचाराद्वर्धते ह्यायुराचारात्पापसंक्षयः
॥१५॥आचारमेव प्रथमं तस्मादाचक्ष्व षण्मुख ॥
देवदेवो यथा प्राह तवाग्रे त्वं तथा वद
॥१६॥स्कंद उवाच
मित्रावरुणजाख्यामि सदाचारं सतां हितम् ॥
यदाचरन्नरो नित्यं सर्वान्कामानवाप्नुयात्
॥१७॥स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ॥
क्रमेण धार्मिकास्त्वेते ह्येतेभ्यो धार्मिकाः सुराः
॥१८॥सहस्रभागः प्रथमा द्वितीयोनुक्रमात्तथा ॥
सर्व एते महाभागा यावन्मुक्ति समाश्रयाः
॥१९॥चतुर्णामपि भूतानां प्राणिनोऽतीव चोत्तमाः ॥
प्राणिभ्यामपि मुने श्रेष्ठाः सर्वे बुद्ध्युपजीविनः
॥२०॥मतिमद्भ्यो नराः श्रेष्ठास्तेभ्यः श्रेष्ठास्तु वाडवाः ॥
विप्रेभ्योपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः
॥२१॥कृतधीभ्योपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ॥
न तेषामर्चनीयोऽन्यस्त्रिषु लोकेषु कुंभज
॥२२॥अन्योन्यमर्चकास्ते वै तपोविद्याऽविशेषतः ॥
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः
॥२३॥अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ॥
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ॥
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना
॥२४॥विद्वेष रागरहिता अनुतिष्ठंति यं मुने ॥
विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः
॥२५॥लक्षणैः परिहीनोपि सम्यगाचारतत्परः ॥
श्रद्धालुरनसूयुश्च नरो जीवेत्समाः शतम
॥२६॥श्रुतिस्मृतिभ्यामुदितं स्वेषु स्वेषु च कर्मसु ॥
सदाचारं निषेवेत धर्ममूलमतंद्रितः
॥२७॥दुराचाररतो लोके गर्हणीयः पुमान्भवेत् ॥
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक्
॥२८॥त्याज्यं कर्म पराधीनं कायमात्मवशं सदा ॥
दुःखी यतः पराधीनः सदैवात्मवशः सुखी
॥२९॥यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति ॥
तदेव कर्म कर्तव्यं विपरीतं न च क्वचित्
॥३०॥प्रथमं धर्मसर्वस्वं प्रोक्ता यन्नियमा यमाः ॥
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता
॥३१॥सत्यं क्षमार्जवं ध्यानमानृशंस्यमहिंसनम् ॥
दमः प्रसादो माधुर्यं मृदुतेति यमा दश
॥३२॥शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ॥
उपोषणोपस्थ दंडौ दशैते नियमाः स्मृताः
॥३३॥कामं क्रोधं मदं मोहं मात्सर्यं लोभमेव च ॥
अमून्षड्वै(?)रिणो जित्वा सर्वत्र विजयी भवेत्
॥३४॥शनैः शनैः स चिनुयाद्धर्मं वल्मीक शृंगवत् ॥
परपीडामकुर्वाणः परलोकसहायिनम्
॥३५॥धर्म एव सहायी स्यादमुत्र न परिच्छदः ॥
पितृ मातृ सुत भ्रातृ योषिद्बंधुजनादिकः
॥३६॥जायते चैकलः प्राणी प्रम्रियेत तथैकलः ॥
एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः
॥३७॥देहं पंचत्वमापन्नं त्यक्त्वा कौ काष्ठलोष्ठवत् ॥
बांधवा विमुखा यांति धर्मो यांतमनुव्रजेत्
॥३८॥कृती संचिनुयाद्धर्मं ततोऽमुत्र सहायिनम् ॥
धर्मं सहायिनं लब्द्ध्वा संतरेद्दुस्तरं तमः
॥३९॥संबंधानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः ॥
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्
॥४०॥उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन् ॥
ब्राह्मणः श्रेष्ठतामेति प्रत्यवाये न शूद्रताम्
॥४१॥अनध्ययनशीलं च सदाचारविलंघिनम् ॥
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः
॥४२॥ततोऽभ्यसेत्प्रयत्नेन सदाचारं सदा द्विजः ॥
तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम्
॥४३॥रजनीप्रांतयामार्धं बाह्मः समय उच्यते ॥
स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सवर्दा
॥४४॥गजास्यं संस्मरेदादौ तत ईशं सहांबया ॥
श्रीरंगं श्रीसमेतं तु ब्रह्माण्या कमलोद्भवम्
॥४५॥इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ॥
गंगाद्याः सरितः सर्वाः श्रीशैलाद्यखिलान्गिरीन्
॥४६॥क्षीरोदादीन्समुद्रांश्च मानसादि सरांसि च ॥
वनानि नंदनादीनि धेनूः कामदुघादिकाः
॥४७॥कल्पवृक्षादि वृक्षांश्च धातून्कांचनमुख्यतः ॥
दिव्यस्त्रीरुर्वशीमुख्या गरुडादीन्पतत्त्रिणः
॥४८॥नागाश्च शेषप्रमुखान्गजानैरावतादिकान् ॥
अश्वानुच्चैःश्रवो मुख्यान्कौस्तुभादीन्मणीञ्छुभान्
॥४९॥स्मरेदरुंधतीमुख्याः पतिव्रतवतीर्वधूः ॥
नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः
॥५०॥विश्वेशादीनि लिंगानि वेदानृक्प्रमुखानपि ॥
गायत्रीप्रमुखान्मंत्रान्योगिनः सनकादिकान्
॥५१॥प्रणवादिमहाबीजं नारदादींश्च वैष्णवान् ॥
शिवभक्तांश्च बाणादीन्प्रह्लादादीन्दृढव्रतान्
॥५२॥वदान्यांश्च दधीच्यादीन्हरिश्चंद्रादि भूपतीन् ॥
जननी चरणौ स्मृत्वा सर्वतीर्थोत्तमोत्तमौ
॥५३॥पितरं च गुरूंश्चापि हृदि ध्यात्वा प्रसन्नधीः ॥
ततश्चावश्यकं कर्तुं नैर्ऋतीं दिशमाश्रयेत्
॥५४॥ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् ॥
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा
॥५५॥कर्णोपवीत्युदग्वक्त्रो दिवसे संध्ययोरपि ॥
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः
॥५६॥न तिष्ठन्नाप्सु नो विप्र गो वह्न्यनिल संमुखः ॥
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले
॥५७॥नालोकयेद्दिशोभागाञ्ज्योतिश्चक्रं नभोमलम् ॥
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान्
॥५८॥अथो मृदं समादाय जंतुकर्करवर्जिताम् ॥
विहाय मूषकोत्खातां शौचोच्छिष्टां च नाकुलाम्
॥५९॥गुह्ये दद्यान्मृदं चैकां पायौ पंचांबुसां तराः ॥
दश वामकरे चापि सप्त पाणिद्वये मृदः
॥६०॥एकैकां पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ॥
इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि
॥६१॥क्रमाद्द्वैगुण्यमेतस्माद्ब्रह्मचर्यादिषु त्रिषु ॥
दिवाविहित शौचस्य रात्रावर्धं समाचरेत्
॥६२॥रुज्यर्धं च तदर्धं च पथि चौरादि बाधिते ॥
तदर्धं योषितां चापि सुस्थे न्यूनं न कारयेत्
॥६३॥अपि सर्वनदीतोयैर्मृत्कूटैश्चापि गोमयैः ॥
आपादमाचरच्छौचं भावदुष्टो न शुद्धिभाक्
॥६४॥आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥
सर्वाश्चाहुतयोप्येवं ग्रासाश्चांद्रायणेपि च ॥
प्रागास्य उदगास्योवा सूपविष्टः शुचौ भुवि ॥
उपस्पृशेद्विहीनायां तुषांगारास्थिभस्मभिः
॥६६॥अनुष्णाभिरफेनाभिरद्भिर्हृद्गाभिरत्वरः ॥
ब्राह्मणो ब्राह्मतीर्थेन दृष्टिपूताभिराचमेत्
॥६७॥कंठगाभिर्नृपः शुद्ध्येत्तालुगाभिस्तथोरुजः ॥
स्त्रीशूद्रावास्य संस्पर्शमात्रेणापि विशुद्ध्यतः
॥६८॥शिरः प्रावृत्य कंठं वा जले मुक्तशिखोऽपि च ॥
अक्षालितपदद्वंद्व आचांतोप्यशुचिर्मतः
॥६९॥त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् ॥
अंगुष्ठमूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत्
॥७०॥अंगुलीभिस्त्रिभिः पश्चात्पुनरास्यं स्पृशेत्सुधीः ॥
तर्जन्यंगुष्ठकोट्या च घ्राणरंध्रे पुनः पुनः
॥७१॥अंगुष्ठानामिकाग्राभ्यां चक्षुः श्रोत्रे पुनः पुनः ॥
कनिष्ठांगुष्ठयोगेन नाभिरंध्रमुपस्पृशेत्
॥७२॥स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत् ॥
अंगुल्यग्रैस्तथा स्कंधौ सांबु सर्वत्र संस्पृशेत्
॥७३॥आचांतः पुनराचामेत्कृते रथ्योपसर्पणे ॥
स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम्
॥७४॥सुप्त्वा वासः परीधाय तथा दृष्ट्वाप्यमंगलम् ॥
प्रमादादशुचिं स्पृष्ट्वा द्विराचांतः शुचिर्भवेत्
॥७५॥अथो मुखविशुद्ध्यर्थं गृह्णीयाद्दंतधावनम् ॥
आचांतोप्यशुचिर्यस्मादकृत्वा दंतधावनम्
॥७६॥प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ॥
दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम्
॥७७॥अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ॥
गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये
॥७८॥कनिष्ठाग्र परीमाणं सत्वचं निर्व्रणं ऋजुम् ॥
द्वादशांगुलमानं च सार्धं स्याद्दंतधावनम्
॥७९॥एकैकांगुलह्रासेन वर्णेष्वन्येषु कीर्तितम् ॥
आम्राम्रातक धात्रीणां कंकोल खदिरोद्भवम्
॥८०॥शम्यपामार्गखर्जूरीशेलुश्रीपर्णिपीलुजम् ॥
राजादनं च नारंगं कषायकटुकंटकम्
॥८१॥क्षीरवृक्षोद्भवं वापि प्रशस्तं दंतधावनम् ॥
जिह्वोल्लेखनिकां चापि कुर्याच्चापाकृतिं शुभाम्
॥८२॥अन्नाद्याय व्यूहध्वं सोमोराजाय मा गमत् ॥
समे मुखं प्रमार्क्ष्यते यशसा च भगेन च
॥८३॥आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च ॥
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते
॥८४॥मंत्रावेतौ समुच्चार्य यः कुर्याद्दंतधावनम् ॥
वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति
॥८५॥मुखे पर्युषिते यस्माद्भवेदशुचिभाग्नरः ॥
ततः कुर्यात्प्रयत्नेन शुद्ध्यर्थं दंतधावनम्
॥८६॥उपवासेपि नो दुष्येद्दंतधावनमंजनम् ॥
गंधालंकारसद्वस्त्रपुष्पमालानुलेपनम्
॥८७॥प्रातःसंध्यां ततः कुर्याद्दंतधावनपूर्विकाम् ॥
प्रातःस्नानं चरित्वा च शुद्धे तीर्थे विशेषतः
॥८८॥प्रातःस्नानाद्यतःशुद्ध्येत्कायोयं मलिनः सदा ॥
छिद्रितो नवभिश्छिद्रैः स्रवत्येव दिवानिशम्
॥८९॥उत्साह मेधा सौभाग्य रूप संपत्प्रवर्तकम् ॥
मनः प्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते
॥९०॥प्रस्वेद लालाद्याक्लिन्नो निद्राधीनो यतो नरः ॥
प्रातःस्नानात्ततोर्हः स्यान्मंत्रस्तोत्रजपादिषु
॥९१॥प्रातःप्रातस्तु यत्स्नानं संजाते चारुणोदये ॥
प्राजापत्यसमं प्राहुस्तन्महाघविघातकृत्
॥९२॥प्रातःस्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ॥
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति
॥९३॥नोपसर्पंति वै दुष्टाः प्रातःस्नायिजन क्वचित् ॥
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत्
॥९४॥प्रसंगतः स्नानविधिं वक्ष्यामि कलशोद्भव ॥
विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम्
॥९५॥विशुद्धां मृदमादाय बर्हींषि तिल गोमयम् ॥
शुचौ देशे परिस्थाप्य त्वाचम्य स्नानमाचरेत्
॥९६॥उपग्रही बद्धशिखो जलमध्ये समाविशेत् ॥
उरुँ हीति मंत्रेण तोयमावर्त्य सृष्टितः
॥९७॥ये ते शतं ततो जप्त्वा तोयस्यामंत्रणाय च ॥
सुमित्रिया नो मंत्रेण पूर्वं कृत्वा जलांजलिम् ॥
क्षिपेद्द्वेष्यं समुद्दिश्य जपन्दुर्मित्रिया इति
॥९८॥इदं विष्णुरिमं जप्त्वा लिंपेदंगानि मृत्स्नया ॥
मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि
॥९९॥नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत् ॥
मज्जेत्प्रवाहाभिमुख आपो अस्मानिमं जपन्
॥१००॥उदिदाभ्यः शुचिरिति मंत्र उन्मज्जने मतः ॥
मानस्तोक इमं जप्त्वा लिंपेद्गात्राणि गोमयैः
॥१॥इमं मे वरुणेत्यादि मंत्रः स्वात्माभिषेचनम् ॥
तत्त्वायामि तथात्वन्नः सत्वं नश्चाप्युदुत्तमम्
॥२॥धाम्नोधाम्नस्तथा मापो मौषधीरिति संजपेत् ॥
यदाहुरघ्न्या मुंचंतु मेति चावभृथेति च
॥३॥अब्दैवता इमे मंत्राः प्रोक्ताः स्वात्माभिषेचने ॥
प्रणवेन ततो विप्रो महाव्याहृतिभिस्ततः
॥४॥आत्मानं पावयेद्विद्वान्गायत्र्या च ततः कृती ॥
आपो हिष्ठेति तिसृभिः प्रत्यृचं पावनं स्मृतम्
॥५॥एतेपि पावना मंत्रा इदमापो हविष्मतीः ॥
देवीराप अपो देवा द्रुपदादिव संज्ञकाः
॥६॥शन्नो देवीरपोदेवीस्तथापाँरसमित्यपि ॥
पुनंतु मेति च नव पावमान्यः प्रकीर्तिताः
॥७॥ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो जपेत् ॥
प्राणायामं च विधिवदथवांतर्जले जपेत्
॥८॥प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत्सुधीः ॥
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ॥
आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्विताम् ॥
यो न संध्यामुपासीत ब्राह्मणो हि विशेषतः
॥११०॥स जीवन्नेव शूद्रस्तु मृतः श्वा जायते ध्रुवम् ॥
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु
॥११॥यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥
प्रणवं प्राग्दिशि स्मृत्वा ततो दत्त्वा कुशासनम्
॥१२॥चतुःस्रक्तिरिमं मंत्रं पठित्वा नान्यदृङ्मनाः
॥१३॥प्राङ्मुखो बद्धचूडो वाप्युपविष्ट उदङ्मुखः ॥
प्रदक्षिणं स्वमभ्युक्ष्य प्राणायामं समाचरेत्
॥१४॥गायत्रीं शिरसा सार्धंं सप्तव्याहृतिपूर्विकाम् ॥
त्रिर्जपेत्सदशोंकारः प्राणायामोयमुच्यते
॥१५॥प्राणायामांश्चरन्विप्रो नियतेंद्रिय मानसः ॥
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात्
॥१६॥दशद्वादश संख्या वा प्राणायामाः कृता यदि ॥
नियम्य मानसं तेन तदा तप्तं महत्तपः
॥१७॥सव्याहृति प्रणवकाः प्राणायामास्तु षोडश ॥
अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः
॥१८॥यथा पार्थिवधातूनां दह्यंते धमनान्मलाः ॥
तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात्
॥१९॥एकं संभोज्य विधिवद्ब्राह्मणं यत्फलं लभेत् ॥
प्राणायामैर्द्वादशभिस्तत्फलं श्रद्धयाप्यते
॥१२०॥वेदादि वाङ्मयं सर्वं प्रणवे यत्प्रतिष्ठितम् ॥
ततः प्रणवमभ्यस्येद्वेदादिं वेदजापकः
॥२१॥प्रणवे नित्ययुक्तस्य सप्तसु व्याहृतिष्वपि ॥
त्रिपदायां तु गायत्र्यां न भयं जायते क्वचित्
॥२२॥एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥
गायत्र्यास्तु परं नास्ति पावनं कलशोद्भव
॥२३॥कर्मणा मनसा वाचा यद्रात्रौ कुरुतेत्वघम् ॥
उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत्
॥२४॥यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ॥
आसीनः पश्चिमां संध्यां तत्प्राणायामतो हरेत्
॥२५॥पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ॥
पश्चिमां तु समासीनः सम्यगृक्षविभावनात्
॥२६॥पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ॥
पश्चिमां तु समासीनो मलं हंति दिवाकृतम्
॥२७॥नोपतिष्ठेत्तु यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः
॥२८॥अपां समीपमासाद्य नित्यकर्म समाचरेत् ॥
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः
॥२९॥गृहाद्बहुगुणा यस्मात्संध्या बहिरुपासिता ॥
गायत्र्यभ्यासमात्रोपि वरं विप्रो जितेंद्रियः
॥१३०॥त्रिवेद्यपि च नो मान्यः सर्वभुक्सर्वविक्रयी ॥
सविता देवता यस्या मुखमग्निस्त्रिपाच्च या
॥३१॥विश्वामित्रे ऋषिश्छंदो गायत्री सा विशिष्यते ॥
गायत्रीमुषसि ध्यायेल्लोहितां ब्रह्मदैवताम्
॥३२॥हंसारूढामष्टवर्षां रक्तस्रगनुलेपनाम् ॥
ऋक्स्वरूपामभयदामक्षमालावलंबिनीम्
॥३३॥व्यासर्षिणा स्तूयमानां छंदसानुष्टुभायुताम् ॥
एतद्ध्यानादुषर्देव्या नैशमेनो व्यपोहति
॥३४॥सूर्यश्चेति च मंत्रेण स्यादाचमनमुत्तमम् ॥
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत्
॥३५॥भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ॥
मस्तके च तथाकाशे भूमौ च नवधा क्षिपेत्
॥३६॥भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ॥
शिरस्येव शिरः शब्दो मार्जनज्ञैरुदाहृतः
॥३७॥वारुणादपि चाग्नेयाद्वायव्यादपि चैंद्रतः ॥
मंत्रस्नानादपि परं ब्राह्मं स्नानमिदं परम्
॥३८॥ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरे शुचिः ॥
सर्वत्र चार्हतामेति देवपूजादिकर्मणि
॥३९॥नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ॥
शतशोपि तथा स्नाता न शुद्धा भावदूषिता
॥१४०॥अंतःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् ॥
किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः
॥४१॥स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः ॥
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम्
॥४२॥तदेव निर्मलं चेतो यथास्यात्तन्मुने शृणु ॥
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित्
॥४३॥तस्माच्चेतोविशुद्ध्यर्थं काशीनाथं समाश्रयेत् ॥
तदाश्रयेण नियतं संक्षीयंते मनोमलाः
॥४४॥संक्षीणमान स मलो विश्वेशानु ग्रहात्परात् ॥
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति
॥४५॥विश्वेशानुग्रहे हेतुः सदाचारो मतो नृणाम् ॥
श्रुतिस्मृतिभ्यामुदितं तस्मात्तमनु संश्रयेत्
॥४६॥द्रुपदां तु ततो जप्त्वा जलमादाय पाणिना ॥
कुर्यादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम्
॥४७॥निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ॥
यथाश्वमेधावभृथस्तस्य स्यात्तत्तथा ध्रुवम्
॥४८॥जले वापि स्थले वापि यः कुयार्दघमषर्णम् ॥
तस्याघौघो विनश्येत यथा सूर्योदये तमः
॥४९॥इमं मंत्रं ततश्चोक्त्वा कुर्यादाचमनं द्विजः ॥
आचार्याः केचिदिच्छंति शाखाभेदेन चापरे
॥१५०॥अंतश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥
त्वं यज्ञस्त्वं वषट्कार आपो ज्योतीरसोऽमृतम्
॥५१॥गायत्रीं शिरसा हीनां महाव्याहृतिपूर्विकाम् ॥
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम्
॥५२॥तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ॥
सूर्यारयः प्रलीयंते शैला वज्रहता इव
॥५३॥विवस्वतः सहायार्थं यो द्विजो नांजलित्रयम् ॥
क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत्
॥५४॥प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम् ॥
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात्
॥५५॥काललोपो न कर्तव्यो द्विजेन स्वहितेप्सुना ॥
अर्धोदयास्त समये तस्माद्वज्रोदकं क्षिपेत्
॥५६॥विधिनापि कृता संध्या कालातीताऽफला भवेत् ॥
अयमेव हि दृष्टांतो वंध्या स्त्री मैथुनं यथा
॥५७॥जलं वामकरे कृत्वा यासंध्या चरिता द्विजैः ॥
वृषली सा परिज्ञेया रक्षोगण मुदावहा
॥५८॥उद्वयं तमुदुत्यं च चित्रं देवेति तत्परम् ॥
तच्चक्षुरित्युपस्थानमंत्रा ब्रध्नस्य सिद्धिदाः
॥५९॥सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ॥
दशकृत्वोथ देव्यैव कुर्यात्सौरीमुपस्थितिम्
॥१६०॥सहस्रपरमां देवीं शतमध्यां दशावराम् ॥
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते
॥६१॥विभ्राडित्यनुवाकं वा सूक्तं वा पौरुषं जपेत् ॥
शिवसंकल्पमथवा ब्राह्मणं मंडलं तु वा
॥६२॥एतानि चोपस्थानानि रविप्रीतिकराणि च ॥
रक्तचंदनमिश्राद्भिरक्षतैः कुसुमैः कुशैः
॥६३॥वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ॥
अर्चितः सविता येन तेन त्रैलोक्यमर्चितम्
॥६४॥अर्चितः सविता सूते सुतान्पशु वसूनि च ॥
व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि
॥६५॥अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ॥
रविर्हिरण्यगर्भोसौ त्रयीरूपोयमर्यमा
॥६६॥रवेस्तु तोषणात्तुष्टा ब्रह्मविष्णुमहेश्वराः ॥
इंद्रादयोखिला देवा मरीच्याद्या महर्षयः
॥६७॥मानवा मनुमुख्याश्च सोमपाद्याः पितामहाः ॥
रवेरर्चां विधायेत्थं ततस्तर्पणमारभेत्
॥६८॥दर्भानगर्भानादाय नव सप्त च पंच वा ॥
साग्रान्समूलानच्छिन्नान्द्विजो दक्षिणपाणिना
॥६९॥अन्वारब्धेन सव्येन तर्पयेत्षड्विनायकान् ॥
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन्
॥१७०॥चंदनागुरुकस्तूरी गंधवत्कुसुमैरपि ॥
तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरन्
॥७१॥सनकादीन्मनुष्याँश्च निवीती तर्पयेद्यवैः ॥
अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः
॥७२॥कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्पयेत् ॥
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः
॥७३॥रवौ शुक्रे त्रयोदश्यां सप्तम्यां निशि संध्ययोः ॥
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्पणम्
॥७४॥यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ॥
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन्
॥७५॥ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वपितॄन्मुदा ॥
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः
॥७६॥एकैकमंजलिं देवा द्वौ द्वौ तु सनकादिकाः ॥
पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम्
॥७७॥अंगुल्यग्रे भवेद्दैवमार्षमंगुलि मूलगम् ॥
ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः
॥७८॥मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ॥
नवर्चमुच्चरन्विद्वान्विदध्यात्पितृतर्पणम्
॥७९॥उदीरतामगिंरस आयंतुन इतीष्यते ॥
ऊर्जं वहंती पितृभ्यः स्वधायिभ्यस्ततः पठेत्
॥१८०॥ये चेह पितरस्तद्वन्मधुवाता इति तृचम् ॥
नमो वः पितरश्चोक्त्वा पठन्सिंचेज्जलं भुवि
॥८१॥आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥
तृप्यंतु पितरः सर्वे मातृमातामहादयः
॥८२॥अतीतकुलकोटीनां सप्तद्वीप निवासिनाम् ॥
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्
॥६३॥ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः ॥
सर्वे ते तृप्तिमायांतु वस्त्रनिष्पीडनोदकैः
॥८४॥अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ॥
श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोर्थविचारणम्
॥८५॥अभ्यासश्च जपश्चापि शिष्येभ्यः प्रतिपादनम् ॥
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये
॥८६॥दातारं समुपेयाद्वै स्वगुरुत्वं च वर्धयेत् ॥
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां द्विजोत्तम
॥८७॥अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ॥
शौचाचमनमादाय भक्षयेद्दंतधावनम्
॥८८॥विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ॥
वेदार्थानधिगच्छेच्च शास्त्राणि विविधान्यपि
॥८९॥अध्यापयेच्छुचीञ्शिष्यान्हितान्मेधासमन्वितान् ॥
उपेयादीश्वरं चैव योगक्षेमादि सिद्धये
॥१९०॥ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ॥
स्नात्वा माध्याह्निका संध्यामुपासीत विचक्षणः
॥९१॥नवयौवनभिन्नांगीं शुद्धस्फटिकनिर्मलाम् ॥
त्रिष्टुप्छंदः समायुक्तां सावित्रीं रुद्रदैवताम्
॥९२॥कश्यपर्षिसमायुक्तां यजुर्वेदस्वरूपिणीम् ॥
त्र्यक्षरां वृषभारूढां भक्ताभयकरां पराम्
॥९३॥देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत् ॥
पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत्
॥९४॥निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ॥
तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत्
॥९५॥आढकीश्च मसूरांश्च वर्तुलान्वरटांस्तथा ॥
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत्
॥९६॥दर्भपाणिः समाचम्य प्राणायामं विधाय च ॥
पृष्ठो दिवीति मंत्रेण पर्युक्षणमथाचरेत्
॥९७॥प्रदक्षिणं च पर्युक्ष्य त्रिःपरिस्तीर्य वै कुशान् ॥
एषो ह देव मंत्रेण कुर्याद्वह्निं सुसंमुखम्
॥९८॥वैश्वानरं समभ्यर्च्य साज्यपुष्पाक्षतैरथ ॥
भूराद्याश्चाहुतीस्तिस्रः स्वाहांताः प्रणवादिकाः
॥९९॥ॐभूर्भुवःस्वःस्वाहेति विप्रो दद्यात्तथाहुतिम् ॥
तथा देवकृतस्याद्या जुहुयाच्च षडाहुतीः
॥२००॥यमाय तूष्णीमेकां च तथा स्विष्टकृतीद्वयम् ॥
विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्ततो बलिम्
॥१॥सर्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे ॥
तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिको ददेत्
॥२॥निर्णेजनोदकान्नं चैशान्यां वै यक्ष्मणेऽर्पयेत् ॥
ततो ब्रह्मादि देवेभ्यो नमो दद्यात्तदुत्तरे
॥३॥निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् ॥
हंतः षोडशभिर्ग्रासश्चतुर्भिः पुष्कलं स्मृतम्
॥४॥ग्रासमात्राभवेद्भिक्षा गृहस्थसुकृतप्रदा ॥
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः
॥५॥यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः ॥
अतिथिः पथिको ज्ञेयो ऽनूचानः श्रुतिपारगः
॥६॥मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ॥
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत्
॥७॥अन्नार्थिनि समायाते पात्रापात्रं न चिंतयेत् ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम्
॥८॥काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ॥
ऐंद्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये
॥९॥प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् ॥
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ
॥२१०॥ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ ॥
देवा मनुष्याः पशवो रक्षो यक्षोरगाः खगाः
॥११॥दैत्याः सिद्धाः पिशाचाश्च प्रेता भूताश्च दानवाः ॥
तृणानि तरवश्चापि मद्दत्तान्नाभिलाषुकाः
॥१२॥कृमि कीट पतंगाद्याः कर्मबद्धा बुभुक्षिताः ॥
तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेस्तु वै
॥१३॥इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम् ॥
प्रतीक्ष्यातिथिमायांतं विशेद्भोज्यगृहं ततः
॥१४॥अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ॥
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा
॥१५॥भोजयेत्पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः ॥
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम्
॥१६॥दक्षिणारहितं त्वेतद्दातृभोक्तृ व्रतोज्झितम् ॥
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः
॥१७॥अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ॥
सुगंधिः सुमनाः स्रग्वी शुचिवासो द्वयान्वितः
॥१८॥प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम्
॥१९॥विधायान्नमनग्नं तदुपरिष्टादधस्तथा ॥
आपोशनविधानेन कृत्वाश्नीयात्सुधीर्द्विजः
॥२२०॥प्रदद्याद्भुवःपतये भुवनपतये तथा ॥
भूतानांपतये स्वाहेत्युक्त्वा भूमौ बलित्रयम्
॥२१॥सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ॥
दद्याज्जठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः
॥२२॥दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ॥
केशकीटादि संभूतस्तदश्नीयात्सदर्भकः
॥२३॥यावद्रुच्यन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् ॥
भुंजते पितरस्तावद्यावन्नोक्ता गुणागुणाः
॥२४॥अतो मौनेन यो भुंक्ते स भुंक्ते केवलामृतम् ॥
अनुपीय ततः क्षीरं तक्रं पानीयमेव वा
॥२५॥अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् ॥
पीतशेषं क्षिपेद्भूमौ तोयं मंत्रमिमं पठन्
॥२६॥अप्रक्षालितहस्तस्य दक्षिणांगुष्ठमूलतः ॥
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम्
॥२७॥उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम्
॥२८॥पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ॥
हस्तेनोदकमादाय मंत्रमेतमुदीरयेत्
॥२९॥अंगुष्ठमात्रः पुरुषस्त्वंगुष्ठं च समाश्रितः ॥
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्
॥२३०॥इत्यन्नं परिसंकल्प्य प्रक्षाल्य चरणौ करौ ॥
ततोन्नपरिणामार्थं मंत्रानेतानुदीरयेत्
॥३१॥अग्निराप्याययन्धातून्पार्थिवान्पवनेरितः ॥
दत्तावकाशो नभसा जरयत्वस्तु मे सुखम्
॥३२॥प्राणापानसमानानामुदानव्यानयोस्तथा ॥
अन्नपुष्टिकरं चास्तु ममास्त्वव्याहतं सुखम्
॥३३॥समुद्रो वडवाग्निश्च ब्रध्नो ब्रध्नस्यनंदनः ॥
मयाभ्यवहृतं यत्तदशेषं जरयंत्विमे
॥३४॥मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ॥
अतिवाह्य दिवाशेषं ततः संध्यां समारभेत्
॥३५॥गृहे गोष्ठे नदीतीरे संध्या दशगुणा क्रमात् ॥
संभेदे स्याच्छतगुणा ह्यनंता शिवसन्निधौ
॥३६॥उपासिता बहिः संध्या दिवामैथुनपातकम् ॥
शमयेदनृतोक्ताघं मद्यगंधजमेव च
॥३७॥सामवेदस्वरूपां च वसिष्ठर्षि समायुताम् ॥
कृष्णांगीं कृष्णवसनां मनाक्स्खलित यौवनाम्
॥३८॥सरस्वतीं तार्क्ष्ययानां विघ्नघ्नीं विष्णुदैवताम् ॥
जगतीच्छंदसा युक्तां ध्यायेदेकाक्षरां पराम्
॥३९॥अग्निश्चेति च मंत्रेण विधायाचमने सुधीः ॥
पश्चिमास्यो जपेत्तावद्यावन्नक्षत्रदर्शनम्
॥२४०॥अतिथिं सायमायांतमपिवाग्भूतृणोदकैः ॥
संभाव्य परिकल्प्येत्थं निशःप्राक्प्रहरं सुधीः
॥४१॥इत्थं दिवाकर्म कृत्वा श्रुतेः पठनपाठनैः ॥
एककाष्ठमयीं शय्यां नातितृप्तोथ संविशेत्
॥४२॥उद्देशतः समाख्यातो ह्येष नित्यतमो विधिः ॥
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित्
॥२४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सदाचारो नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥