प्रपंचः
स्कंद उवाच
अथेशाज्ञां समादाय गजवक्त्रः प्रतस्थिवान् ॥
शंभोः काश्यागमोपायं चिंतयन्मंदराद्रितः
॥१॥प्राप्य वाराणसीं तूर्णमाशु स्यंदनगो विभुः ॥
वाडवीं मूर्तिमालंब्य प्राविशच्छकुनैः स्तुतः
॥२॥नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः ॥
चचार मध्ये नगरं पौराणां प्रीतिमावहन्
॥३॥स्वयमेव निशाभागे स्वप्नं संदर्शयन्नृणाम् ॥
प्रातस्तेषां गृहान्गत्वा तेषां वक्ति बलाबलम्
॥४॥भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम् ॥
भवत्कौतूहलोत्पत्त्यै तदेव कथयाम्यहम्
॥५॥स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः ॥
अदर्शि तत्र च भवान्मज्जन्मज्जंस्तटंगतः
॥६॥तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः ॥
दुःस्वप्नस्यास्य च महान्विपाकोति भयप्रदः
॥७॥काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः ॥
परितापं महानेष जनयिष्यति दारुणम्
॥८॥रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम् ॥
ऐंद्रधनुर्द्वयं रात्रौ यदलोकि न तच्छुभम्
॥९॥प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् ॥
पातयामास भूपृष्ठे तद्राज्यभयसूचकम्
॥१०॥युगपत्केतुयुगलं युध्यमानं परस्परम् ॥
यददर्शि न तद्भद्रं राष्ट्रभंगाय केवलम्
॥११॥विशीर्यत्केशदशनं नीयमानं च दक्षिणे ॥
आत्मानं यत्समद्राक्षीः कुटुंबस्यापि भीषणम्
॥१२॥प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये ॥
राज्यक्षयकरं विद्धि महोत्पाताय निश्चितम्
॥१३॥नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः ॥
पक्षैस्त्रिचतुरैः शंके महाशंकां पुरौकसाम्
॥१४॥स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम् ॥
अतस्तद्वंचनोपायः पुरत्यागो महामते
॥१५॥रुदती या त्वया दृष्टा महिलैका निशात्यये ॥
मुक्तकेशी विवसना सा नारी श्रीरिवोद्गता
॥१६॥देवालयस्य कलशो यत्त्वया वीक्षितः पतन् ॥
दिनैः कतिपयैरेव राज्यभंगो भविष्यति
॥१७॥पुरी परिवृता स्वप्ने मृगयूथैः समंततः ॥
रोरूयमाणैरत्यर्थं मासेनैवोद्वसी भवेत्
॥१८॥आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः ॥
सूच्यतेत्याहितं किंचिद्ध्रुवमत्र निवासिनाम्
॥१९॥स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः ॥
बहूनुच्चाटयांचक्रे स विघ्नेशः पुरौकसः
॥२०॥केषांचित्पुरतो वादीद्ग्रहचारं प्रदर्शयन् ॥
एकराशिस्थिताः सौरि सितभौमा न शोभनाः
॥२१॥सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमंडलम् ॥
प्रयातः पश्चिमामाशां स नाशाय विशांपतेः
॥२२॥अतिचारगतो मंदः पुनर्वक्राध्व संस्थितः ॥
पापग्रहसमायुक्तो न युक्तोयमिहेष्यते
॥२३॥व्यतीते वासरे योयं भूकंपः समपद्यत ॥
कंपं जनयतेऽतीव हृदो मेपि पुरौकसः
॥२४॥उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता ॥
विलीना च वियत्येव स निर्घातं न सा शुभा
॥२५॥उन्मूलितो महामूलो महानिलरयेण यः ॥
चत्वरे चैत्यवृक्षोयं महोत्पातं प्रशंसति
॥२६॥सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि ॥
करटो रारटीत्येष कटूत्कट भयप्रदः
॥२७॥मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ ॥
मृगौ मृगयतां यातौ पौराणां पुरतोऽहितौ
॥२८॥रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः ॥
महाकालभयं मन्येप्यकालेपि पुरौकसाम्
॥२९॥साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः ॥
तेन विघ्नकृतापौराः कपटद्विजरूपिणा
॥३०॥अथ मध्येवरोधं स प्रविश्य निजमायया ॥
दृष्टार्थमेव कथयन्स्त्रीणां विस्रंभभूरभूत्
॥३१॥तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे ॥
तेष्वेकस्तुरगारूढो बाह्याल्यां पतितो मृतः
॥३२॥अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम् ॥
एषा हि दुर्भगा पूर्वं सांप्रतं सुभगाऽभवत्
॥३३॥असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा ॥
मुक्तालंकृतिरेतस्यै राज्ञा दत्ता निजोरसः
॥३४॥पंचसप्तदिनान्येव जातानीतीह तर्क्यते ॥
अस्यै राज्ञा प्रसादेन ग्रामौ दातुमुदीरितौ
॥३५॥इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः ॥
वर्णयंति च ता राज्ञः परोक्षेपि गुणान्बहून्
॥३६॥अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः ॥
सुशीलश्च सुरूपश्च सत्यवाङ्मितभाषणः
॥३७॥अलोलुप उदारश्च सदाचारो जितेंद्रियः ॥
अपि स्वल्पेन संतुष्टः प्रतिग्रहपराङ्मुखः
॥३८॥जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवंचकः ॥
कृतज्ञः प्रीतिसुमुखः परिवादपराङ्मुखः
॥३९॥पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ॥
शुचिः शुचिचरित्रश्च श्रुतिस्मृतिविशारदः
॥४०॥धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसंमतः ॥
कलाकलापकुशलो ज्योतिःशास्त्रविदुत्तमः
॥४१॥क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः ॥
इत्यादि गुणसंपन्नः कोपि क्वापि न दृग्गतः
॥४२॥इत्थं तास्तद्गुणग्रामं वर्णयंत्यः पदेपदे ॥
कालं विनोदयंति स्म अंतःपुरचराः स्त्रियः
॥४३॥एकदावसरं प्राप्य दिवोदासस्य भूभुजः ॥
राज्ञी लीलावती नाम राज्ञे तं विन्यवेदयत्
॥४४॥राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः ॥
एकोस्ति स तु द्रष्टव्यो मूर्तो ब्रह्मनिधिः परः
॥४५॥राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम् ॥
आनिनाय च तं विप्रं ब्राह्मं तेज इवांगवत्
॥४६॥राजापि दूरादायांतं त विलोक्यमहीसुरम् ॥
यत्राकृतिर्गुणास्तत्र जहर्षेति वदन्हृदि
॥४७॥पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः ॥
चतुर्निगमजाभिः स तमाशीर्भिरनंदयत्
॥४८॥कृतप्रणामो राज्ञा स सादरं दत्तमासनम् ॥
भेजेथ कुशलं पृष्टः स राज्ञा तेन भूपतिः
॥४९॥परस्परं कुशलिनौ कुशलौ च कथागमे ॥
प्रश्नोत्तराभ्यां संतुष्टौ द्विजवर्य क्षमाभृतौ
॥५०॥कथावसाने राज्ञाथ गेहं विससृजे द्विजः ॥
लब्धमानमहापूजः स स्वमाश्रममाविशत्
॥५१॥गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः ॥
लीलावत्याः पुरो विप्रं वर्णयामास भूरिशः
॥५२॥महादेवि महाप्राज्ञे लीलावति गुणप्रिये ॥
यथाशंसि तथा विप्रस्ततोपि गुणवत्तरः
॥५३॥अतीतं वेत्ति सकलं वर्तमानमवैति च ॥
प्रष्टव्यः प्रातराहूय भविष्यं किंचिदेष वै
॥५४॥महाविभव संभारैर्महाभोगैरनेकधा ॥
व्युष्टायां स नृपो रात्र्यां प्रातराहूतवान्द्विजम्
॥५५॥सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः ॥
एकांते तं द्विजं राजा पप्रच्छ निजहृत्स्थितम्
॥५६॥राजोवाच
द्विजवर्यो भवानेकः प्रतिभातीति निश्चितम् ॥
यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः
॥५७॥दृष्ट्वा त्वां तु महाप्राज्ञं शांतं दांतं तपोनिधिम् ॥
किंचित्प्रष्टुमना विप्र तदाख्याहि यथार्थवत्
॥५८॥शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः ॥
यावद्भूति मया भुक्ता दिव्या भोगा अनेकधा
॥५९॥निजौरसेभ्योप्यधिकं रात्रिंदिवमतंद्रितम् ॥
विनिर्जित्य हठाद्दुष्टान्प्रजेयं परिपालिता
॥६०॥द्विजपादार्चनात्किंचित्सुकृतं वेद्मि नापरम् ॥
अनेनापरिकथ्येन कथितेनेह किं मम
॥६१॥निर्विस्ममिव मे चेतः सांप्रतं सर्वकर्मसु ॥
विचार्यार्य शुभोदर्कमत आख्याहि सत्तम
॥६२॥द्विज उवाच
अपि स्वल्पतरं कृत्यं यद्भवेद्भूभुजामिह ॥
एकांते तत्तु पृष्टेन वक्तव्यं सुधिया सदा
॥६३॥अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः ॥
महापमानभीतेन स्तोकमप्यत्र किंचन
॥६४॥पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम् ॥
तत्कृते तव गंता वै मनो निर्वेदकारणम्
॥६५॥शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम् ॥
विक्रांतोस्यतिशूरोसि भाग्यवानसि सर्वदा
॥६६॥पुण्येन यशसा बुद्ध्या संपन्नोस्ति भवान्यथा ॥
मन्ये तथामरावत्यां त्रिदशेशोपि नैव हि
॥६७॥सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम् ॥
तेजसास्ति भवानर्कः प्रतापेनाशुशुक्षणिः
॥६८॥प्रभंजनो बलेनासि श्रीदोसि श्रीसमर्पणैः ॥
शासनेन भवान्रुद्रो निर्ऋतिस्त्वं रणांगणे
॥६९॥दुष्टपाशयिता पाशी यमो नियमनेऽसताम् ॥
इंदनात्त्वं महेंद्रोसि क्षमया त्वमसि क्षमा
॥७०॥मर्यादया भवानब्धिर्महत्त्वे हिमवानसि ॥
भार्गवो राजनीत्यासि राज्येन मनुना समः
॥७१॥संतापहर्तांबुदवत्पवित्रो गांगनामवत् ॥
सर्वेषामेव जंतूनां काशीव सुगतिप्रदः
॥७२॥रुद्रः संहाररूपेण पालनेन चतुर्भुजः ॥
विधिवत्त्वं विधातासि भारती ते मुखांबुजे
॥७३॥त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः ॥
अमृतं तव वागेव त्वद्भुजावश्विनीसुतौ
॥७४॥तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि ॥
तस्मात्तव शुभोदर्को मया ज्ञातोस्ति तत्त्वतः
॥७५॥आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि ॥
उदीच्यः कश्चिदागत्य ध्रुवं त्वामुपदेक्ष्यति
॥७६॥तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम् ॥
ततस्ते हृत्स्थितं सर्वं सेत्स्यत्येव महामते
॥७७॥इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः ॥
विवेश स्वाश्रमं तुष्टो नृपोप्याश्चर्यवानभूत्
॥७८॥इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता ॥
सपौरा सावरोधा च सनृपा निजमायया
॥७९॥कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् ॥
विधाय बहुधात्मानं काश्यां स्थितिमवाप च
॥८०॥यदा स न दिवोदासः प्रागासीत्कुंभसंभव ॥
तदातनं निजं स्थानमलंचक्रे गणाधिपः
॥८१॥दिवोदासे नरपतौ विष्णुनोच्चाटिते सति ॥
पुनर्नवीकृतायां च नगर्यां विश्वकर्मणा
॥८२॥स्वयमागत्य देवेन मंदरात्सुंदरां पुरीम् ॥
वाराणसीं प्रथमतस्तुष्टुवे गणनायकम्
॥८३॥अगस्त्य उवाच
कथं स्तुतो भगवता देवदेवेन विघ्नजित् ॥
कथं च बहुधात्मानं स चकार विनायकः
॥८४॥केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः ॥
इति सर्वं समासेन कथयस्व षडानन
॥८५॥इत्युदीरितमाकर्ण्य कुंभयोनेः षडाननः ॥
यथावत्कथयामास गणराज कथां शुभाम्
॥८६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे गणेशमाया प्रपंचो नाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥