वाराणसीमहिमवर्णनम्
स्कंद उवाच
शृण्वगस्त्यमहाभाग स च राजा भगीरथः ॥
आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान्
॥१॥ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः ॥
महता तपसा भूमिमानिनाय त्रिवर्त्मगाम्
॥२॥त्रयाणामपि लोकानां हिताय महते नृपः ॥
समानैषीत्ततो गंगां यत्रासीन्मणिकर्णिका
॥३॥आनंदकाननं शंभोश्चक्रपुष्करिणी हरेः ॥
परब्रह्मैकसुक्षेत्रं लीलामोक्षसमर्पकम्
॥४॥प्रापयामास तां गंगां दैलीपिः पुरतश्चरन् ॥
निर्वाणकाशनाद्यत्र काशीति प्रथिता पुरी
॥५॥अविमुक्तं महाक्षेत्रं न मुक्तं शंभुना क्वचित ॥
प्रागेव हि मुनेऽनर्घ्यं जात्यं जांबूनदं स्वयम्
॥६॥पुनर्वारितरेणापि हीरेणयदि संगतम् ॥
चक्रपुष्करणीतीर्थं प्रागेव श्रेयसांपदम्
॥७॥ततः श्रेष्ठतरं शंभोर्मणिश्रवणभूषणात् ॥
आनंदकानने तस्मिन्नविमुक्ते शिवालये
॥८॥प्रागेव मुक्तिः संसिद्धा गंगासंगात्ततोधिका ॥
यदा प्रभृति सा गंगा मणिकर्ण्यां समागता
॥९॥तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि ॥
कृत्वा कर्माण्यनेकानि कल्याणानीतराणि वा
॥१०॥तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत् ॥
तस्यां वेदांतवेद्यस्य निदिध्यासनतो विना
॥११॥विना सांख्येन योगेन काश्यां संस्थोऽमृतो भवेत् ॥
कर्मनिर्मूलनवता विना ज्ञानेन कुंभज
॥१२॥शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत् ॥
यत्नतोऽयत्नतो वापि कालात्त्यक्त्वा कलेवरम्
॥१३॥तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत् ॥
अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः
॥१४॥असिसंभेद योगेन काशीसंस्थोऽमृतो भवेत् ॥
देहत्यागोऽत्र वै दानं देहत्यागोत्र वै तपः
॥१५८॥देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत् ॥
प्राप्योत्तरवहां काश्यामतिदुष्कृतवानपि
॥१६॥यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् ॥
यमेंद्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान्
॥१७॥सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः ॥
असिं महासिरूपां च पाप्यसन्मतिखंडनीम्
॥१८॥दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः ॥
वरणां च व्यधुस्तत्र क्षेत्रविघ्ननिवारिणीम्
॥१९॥दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः ॥
दक्षिणोत्तरदिग्भागे कृत्वाऽसिं वरणां सुराः
॥२०॥क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः ॥
क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम्
॥२१॥स्वयं व्यापारयामास रक्षार्थं शशिशेखरः ॥
अनुज्ञातप्रवेशानां विश्वेशेन कृपावता
॥२२॥ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन ॥
इत्यर्थे कथयिष्येऽहमितिहासं पुरातनम् ॥
आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम्
॥२३॥स्कंद उवाच
दक्षिणाब्धितटे कश्चित्सेतुबंधसमीपतः ॥
वणिग्धनंजयो नाम मातृभक्तिसमन्वितः
॥२४॥पुण्यमार्गार्जित धनो धनतोषितमार्गणः ॥
मार्गणस्फारितयशा यशोदातनयार्चकः
॥२५॥समुन्नतोपि संपत्त्या विनयानतकंधरः ॥
आकरोपि गुणानां हि गुणिष्वाकारगोपकः
॥२६॥रूपसंपदुदारोपि परदारपराङ्मुखः ॥
ससंपूर्णकलोप्यासीन्निष्कलंकोदयः सदा
॥२७॥ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने ॥
वर्णेतरोप्यभूल्लोके सुवर्णकृतवर्णनः
॥२८॥सदाचरणगोप्येष सुखयानचरः कृती ॥
अदरिद्रोपि मेधावी सोभूत्पापदरिद्रधीः
॥२९॥तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् ॥
जननी निधनं प्राप्ता व्याधिताऽतिजरातुरा
॥३०॥तया च यौवनं प्राप्य मेघच्छायातिचंचलम् ॥
प्रावृण्नदीपूरसमं स्वपतिः परिवंचितः
॥३१॥दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम् ॥
भर्तारं वंचयेन्मोहात्साऽक्षयं नरकं व्रजेत्
॥३२॥शीलभंगेन नारीणां भर्ताधर्मपरोपि हि ॥
पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया
॥३३॥विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः ॥
आभूतसंप्लवं यावत्ततः स्याद्ग्रामसूकरी
॥३४॥स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी ॥
उलूकी वा दिवांधा स्याद्वृक्षकोटरवासिनी
॥३५॥रक्षणीयं महायत्नादिदं सुकृतभाजनम् ॥
वपुः परस्य दुःस्पर्शात्सुखाभासात्मकात्स्त्रिया
॥३६॥अनेनैव शरीरेण भर्तृसाद्विहितेन हि ॥
किं सती न च तस्तंभ भानुमुद्यंतमाज्ञया
॥३७॥अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः ॥
दधार न त्रयीं गर्भे पतिव्रत परायणा
॥३८॥इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः ॥
पातिव्रत्यात्स्त्रिया लभ्यं सखित्वं च श्रिया सह
॥३९॥सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् ॥
स्वच्छंदचारिणी भूत्वामृतानिरयमुद्ययौ
॥४०॥धनंजयोपि च मुने केनचिच्छिवयोगिना ॥
सार्धं तपोदयादित्थं सोऽभवद्धर्मतत्परः
॥४१॥धनंजयोपि धर्मात्मा मातृभक्तिपरायणः ॥
आदायास्थीन्यथो मातुर्गंगा मार्गस्थितोऽभवत्
॥४२॥पंचगव्येन संस्नाप्य ततः पंचामृतेन वै ॥
यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च
॥४३॥आवेष्ट्य नेत्रवस्त्रेण ततः पट्टांबरेण वै ॥
ततः सुरसवस्त्रेण ततो मांजिष्ठवाससा
॥४४॥नेपालकंबलेनाथ मृदाचाऽथ विशुद्धया ॥
ताम्रसंपुटके कृत्वा मातुरंगान्यहो वणिक्
॥४५॥अस्पृष्टहीनजातिः स शुचिष्मान्स्थंडिलेशयः ॥
आनयञ्ज्वरितोप्यासीन्मध्ये मार्गं धनंजयः
॥४६॥भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम् ॥
किं बहूक्तेन घटज काशी प्राप्ताऽथ तेन वै
॥४७॥धृत्वा संभृतिरक्षार्थं भारवाहं धनंजयः ॥
जगामापणमानेतुं किंचिद्वस्त्वशनादिकम्
॥४८॥भारवाह्यंतरं प्राप्य तस्य संभृतिमध्यतः ॥
ताम्रसंपुटमादाय धनं ज्ञात्वा गृहं ययौ
॥४९॥वासस्थानमथागत्य तमदृष्ट्वा धनंजयः ॥
त्वरावान्संभृतिं वीक्ष्य ताम्रसंपुटवर्जिताम्
॥५०॥हाहेत्याताड्य हृदयं चक्रंद बहुशो भृशम् ॥
इतस्ततस्तमालोक्य गतस्तदनुसारतः
॥५१॥अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम् ॥
तस्य संवसथं प्राप्तो भारवोढुर्धनंजयः
॥५२॥भारवाडप्यरण्यान्यां ताम्रसंपुटमध्यतः ॥
दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ
॥५३॥वणिक्च तद्गृहं प्राप्य शुष्ककंठोष्ठतालुकः ॥
दृष्ट्वाऽथ चैलशकलं तृणकुट्यंतरे तदा
॥५४॥आशया किंचिदाश्वस्य तत्पत्नीं परिपृष्टवान् ॥
सत्यं ब्रूहि न भेतव्यं दास्याम्यन्यदपि ध्रुवम्
॥५५॥वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय ॥
वयं कार्पटिका भद्रे भवामो न च दुःखदाः
॥५६॥अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसंपुटः ॥
तस्यैष दोषो नो भद्रे मातुर्मे कर्म तादृशम्
॥५७॥अथवा न प्रसू दोषो मंदभाग्योऽस्मि तत्सुतः ॥
सुतेनकृत्यं यत्कृत्यं तत्प्राप्तिर्नास्ति भिल्लि मे
॥५८॥उद्यमं कृतवानस्मि न सिद्ध्येन्मंदभाग्यतः ॥
आयातु सत्यवाक्यान्मे मा बिभेतु वनेचरः
॥५९॥अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः ॥
इत्युक्ता तेन सा भिल्ली व्याजहार निजं पतिम्
॥६०॥लज्जानम्रशिराःसोऽथ वृत्तांतं विनिवेद्य च ॥
निनाय तामरण्यानीं शबरस्तं धनंजयम्
॥६१॥वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने ॥
दिग्भ्रांतिं समवाप्याथ परिबभ्राम कानने
॥६२॥इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत् ॥
वनाद्वनांतरं भ्रांत्वा खिन्नः सोपि वनेचरः
॥६३॥विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम् ॥
द्वित्राण्यहानि संभ्रम्य स कार्पटिकसत्तमः
॥६४॥क्षुत्क्षामः शुष्ककंठोष्ठो हाहेति परिदेवयन् ॥
पुनः काशीपुरीं प्राप्तः परिम्लानमुखो वणिक् ॥
तन्मंदभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने ॥
कृत्वा गयां प्रयागं च ततः स्वविषयं ययौ
॥६६॥काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव ॥
विना वैश्वेश्वरीमाज्ञां बहिर्यातानि तत्क्षणात्
॥६७॥एवं काश्यां प्रविश्यापि पापी धर्मानुषंगतः ॥
न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात्
॥६८॥तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम् ॥
असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते
॥६९॥वाराणसीति विख्याता तदारभ्य महामुने ॥
असेश्च वरणायाश्च संगमं प्राप्य काशिका
॥७०॥वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन ॥
विश्वेशदृङ्महसि यत्सहसा प्रविश्य रूपेण तां वितनुतां पदवीं दधाति
॥७१॥जातो मृतो बहुषु तीर्थवरेषु रे त्वं जंतो न जातु तव शांतिरभून्निमज्य ॥
वाराणसी निगदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात्स्मरशासनः स्याः
॥७२॥अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम् ॥
चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्र जन्मा
॥७३॥नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः ॥
यस्यां परं पौरुषमर्थमिच्छन्सिद्धिं नयेत्पौरपरंपरांसः
॥७४॥तीर्थांतराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात् ॥
वाराणसीपरिसरे तु विसृज्य देहं संदेहभाग्भवति देहदशाप्तयेपि
॥७५॥वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहंत्री ॥
तत्तारकं श्रवणगोचरतां नयंती तद्बह्मदर्शयति येन पुनर्भवो न
॥७६॥वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य ॥
इष्टं पदं किमपि हृष्टतरोभिलष्य लाभोस्तुमूलमपि नो यदवाप शून्यम्
॥७७॥आःकाशिवासिजनता ननु वंचिताभूद्भाले विलोचनवतावनितार्धभाजा ॥
आदाय यत्सन्ध्यकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयतापुनर्भु
॥७८॥वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात् ॥
सर्वे गले गरलिनोऽक्षियुजो ललाटे वामार्धवामतनवोऽतनवस्ततोंऽते
॥७९॥आनंदकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ ॥
स्वः सिंधुसंगतिरथो परमास्पदं च विश्वेशितुः किमिह तन्न विमुक्तये यत्
॥८०॥वाराणसीह वरणासि सरिद्वरिष्ठा संभेदखेदजननी द्युनदी लसच्छ्रीः ॥
विश्रामभूमिरचलाऽमलमोक्षलक्ष्म्याहैनां विहाय किमुसीदति मूढजंतुः
॥८१॥किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तांतदूतकृतबंधन ताडनं च ॥
शंभोरनुग्रह परिग्रह लभ्य काशीं मूढो विहाय किमु याति करस्थ मुक्तिम्
॥८२॥तीर्थांतराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयंति ॥
पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते बत मूलनाशम्
॥८३॥काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवंति ॥
भाले विलोचनवतीं गलनीललक्ष्मीं वामार्धबंधुरवधूं विधुरावरोधाः
॥८४॥ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगंधि ॥
स्वात्मावबोधमहसा सहसा मिलित्वा कल्पांतरेष्वपि स नैव पृथक्त्वमेति
॥८५॥रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् ॥
ये कल्पयंत्यपरतीर्थसमां समंतात्ते पापिनो न सह तैः परिभाषणीयम्
॥८६॥वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगंतरेषु ॥
प्राप्याप्यजाद्यसुलभांस्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः
॥८७॥विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चंदनानि वनिताश्च नितांत रम्याः ॥
स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः।
धात्रा धृतानि तुलया तुलनामवैतुं वैकुंठमुख्यभुवनानि च काशिका च ॥
तान्युद्ययुर्लघुतयान्यगियं गुरुत्वात्तस्थौ पुरीह पुरुषार्थचतुष्टयस्य
॥८९॥काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणइहमान्यहवैकरुद्रः ॥
नानोपसर्गजनिसर्गजदुःखभारैःकर्मापनुद्यसविशेत्परमेशधाम्नि
॥९०॥स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः ॥
वपुस्तेजोरूपं स्थिरतरपरानंदसदनं विमूढोऽसौ जंतुः स्फुटितमिवकांम्यं विनिमयन्
॥९१॥अहो लोकः शोकं किमिह सहते हंतहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः ॥
क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किंचिद्भूयः प्रविशति न येनोदरदरीम्
॥९२॥काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने ॥
स्वैरचारिणि जितेंद्रियेप्यहो काशिवासिनि जने विशिष्टता
॥९३॥नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम् ॥
बीजानि कर्मजनितानि यदूषरायां नांकूरंयति हरदृग्ज्वलितानितेषाम्
॥९४॥शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः ॥
तुरगोरग वानरानरा गिरिजे काशिमृताः परामृतम्
॥९५॥अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः ॥
निरंतरं काशिनिवासिनोजना गिरींद्रजे पारिषदा मता मम
॥९६॥यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः ॥
तावंत एव मदनुग्रह रुद्रदेहा देहावसानमधिगम्य मयि प्रविष्टाः
॥९७॥ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः ॥
वातेषवोंऽतरिक्षे ये ये भुव्यन्नेषवः प्रिये
॥९८॥रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः ॥
ऊर्ध्वदिक्स्थाश्च ये रुद्राः पठ्यंते वेदवादिभिः
॥९९॥असंख्याताः सहस्राणि ये रुद्रा अधिभूतले ॥
तत्सर्वेभ्योऽधिका काश्यां जंतवो रुद्ररूपिणः
॥१००॥रुद्रावासस्ततः प्रोक्तमविमुक्तं घटोद्भव ॥
तस्मात्समर्च्य काशिस्थान्वर्णान्वर्णेतराश्रमान्
॥१॥श्रद्धयेश्वरबुद्ध्या च रुद्रार्चा फलभाङ्नरः
॥२॥श्म शब्देन शवः प्रोक्तः शानं शयनमुच्यते ॥
निर्वचंति श्मशानार्थं मुने शब्दार्थकोविदाः
॥३॥महांत्यपि च भूतानि प्रलये समुपस्थिते ॥
शेरतेऽत्र शवा भूत्वा श्मशानं तु ततो महत्
॥४॥अप्सु भूरिह लये लयं व्रजेदाप और्ववदनोग्रकंदरे ॥
मातरिश्वनि महातनूनपाद्व्योम्नि संक्षयति वै सदागतिः
॥५॥व्योम चापि लयमेत्यहंकृतौ सापि षोडशविकारसंयुता ॥
लीयते महति बुद्धिसंज्ञकेहा महान्प्रकृतिमध्यगो भवेत्
॥६॥सा गुणत्रयमयी च निर्गुणं तं पुमांसमवगुह्य तिष्ठति ॥
पंचविंशतितमः परः पुमान्देहगेहपतिरेष जीवकः
॥७॥प्राकृतः प्रलय एष उच्यते हंसयान हरि रुद्रवर्जितः ॥
कालमूर्तिरथ तं च पूरुषं हेलया कलयतीश्वरः परः
॥८॥स वै महाविष्णुरितीर्यते बुधैस्तं वै महादेवमुदाहरंति ॥
सोंऽतादिमध्यैः परिवर्जितः शिवः स श्रीपतिः सोपि हि पार्वतीपतिः
॥९॥दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् ॥
बिभर्ति संवर्त महास्थिभूषणस्ततो हि काशी कलिकालवर्जिता
॥११०॥स्कंद उवाच
वाराणसीति काशीति रुद्रावास इति द्विज ॥
महाश्मशानमित्येवं प्रोक्तमानंदकाननम्
॥११॥इति देवीपुरः प्रोक्तं देवदेवेन शंभुना ॥
यथाविष्णोः पुराख्यातं तथैव च मया श्रुतम् ॥
तच्च त्वदग्रे कथितं रहस्यं काशिजं महत्
॥१२॥जप्त्वाध्यायमिमं पुण्यं महापातकनाशनम् ॥
श्रावयित्वा द्विजान्सम्यक्छिवलोके महीयते
॥१३॥अतः परं कलशज किं शुश्रूषसि तद्वद ॥
काशीकथा कथ्यमाना ममापि परितोषकृत्
॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे वाराणसीमहिमवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥