मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९

3
काशीखण्डः · 9

का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः

शिवशर्मोवाच

का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः ॥

दिव्यालंकारधारिण्यो दिव्यभोगसमन्विताः

॥१॥

गणावूचतुः

एता वारविलासिन्यो यज्ञभाजां प्रियंकराः ॥

गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः

॥२॥

कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ॥

रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु

॥३॥

नानादेश विशेषज्ञा नानाभाषा सुकोविदाः ॥

संकेतोदंतनिपुणा नैकास्वैरचरा मुदा

॥४॥

लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः ॥

यूनां मनांसि सततं स्वैर्हावै रमयंत्यमूः

॥५॥

निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः ॥

निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः

॥६॥

उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा ॥

वपुष्मतीकांतिमती लीलावत्युत्पलावती

॥७॥

अलंबुषा गुणवती स्थूलकेशी कलावती ॥

कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा

॥८॥

अनंगलतिका चापि तथा मदनमोहिनी ॥

चकोराक्षी चंद्रकला तथा मुनिमनोहरा

॥९॥

ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका ॥

दारुसंजीविनी सुश्रीः क्रतुशुल्का शुभानना

॥१०॥

तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ॥

पंचाश्वमेधिका चैव राजसूयार्थिनी तथा

॥११॥

अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा ॥

इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसंमितम्

॥१२॥

एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः ॥

सदा स्खलितलावण्याः सदास्खलितयौवनाः

॥१३॥

दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः ॥

दिव्यभोगैः सुसंपन्नाः स्वेच्छाविधृतविग्रहाः

॥१४॥

कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः ॥

सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः

॥१५॥

ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः ॥

निवसंत्यप्सरोलोके सर्वकामसमन्विताः

॥१६॥

कृत्वा व्रतानि सांगानि कामिकानि विधानतः ॥

भवंति स्वैरचारिण्यो देवभोग्या इहागताः

॥१७॥

पतिव्रतधृता नार्यो बलेन बलिना धृताः ॥

भर्तबुद्ध्यारमंतेतं(?) कदाचित्ता इमा द्विज

॥१८॥

भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा ॥

विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः

॥१९॥

कुसुमानि सुगंधीनि सुवासं चंदनं तथा ॥

सुगौरं चापि कर्पूरं सुसूक्ष्माण्यंबराणि च

॥२०॥

पर्णानि ऋजुताराणि जीर्णानि कठिनानि च ॥

साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च

॥२१॥

सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम ॥

शय्याविचित्राभरणा रतिशालोचितानि च

॥२२॥

बहुकौतुकवस्तूनि समर्च्यद्विजदंपती ॥

भोगदानमिदं काम्यं प्रतिसंक्रमणं रवेः

॥२३॥

किंवा प्रतिव्यतीपातमेकसंवत्सरावधि ॥

कोदादिति च मंत्रेण या दद्याद्वरवर्णिनी

॥२४॥

कामरूपधरो देवः प्रीयतामिति वादिनी ॥

सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहांगना

॥२५॥

कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् ॥

देवरूपेण तं कालमारभ्य ब्रह्मचारिणी

॥२६॥

तदेव वृत्तं ध्यायंती निधनं याति कालतः ॥

दिव्यरूपधरा सेह जायते दिव्य भोगभाक्

॥२७॥

निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः ॥

सौरं लोकमथ प्राप्य क्षणेन स विमानगः

॥२८॥

यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम् ॥

देदीप्यमानं हि तथा समंताद्भानुभानुभिः

॥२९॥

दूराद्रविं स विज्ञाय धृततामरसद्वयम् ॥

नवभिर्योजनानां च सहस्रैः संमितेन ह

॥३०॥

विचित्रेणैकचक्रेण सप्तसप्तियुतेन च ॥

अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना

॥३१॥

अप्सरोमुनिगंधर्व सर्पग्रामणि नैर्ऋतैः ॥

स्यंदनेनातिजविना प्रणनाम कृतांजलिः

॥३२॥

तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च ॥

अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात्

॥३३॥

प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान् ॥

प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम्

॥३४॥

एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः ॥

सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ

॥३५॥

गणावूचतुः

शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन ॥

सत्संगादेव साधूनां सत्कथा संप्रवर्तते

॥३६॥

नियंता सर्वभूतानां य एकःकारणं परम् ॥

अनामा गोत्ररहितो रूपादि परिवर्जितः

॥३७॥

आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ ॥

स एव वक्ति सततं सर्वात्मा वेदपूरुषः

॥३८॥

योसावादित्यपुरुषः सोसावहमिति स्फुटम् ॥

अंधतमः प्रविशंति ये चैवान्यमुपासते

॥३९॥

निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम ॥

तमेकमुपतिष्ठंते निश्चित्येति पुनःपुनः

॥४०॥

उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ॥

काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः

॥४१॥

तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः ॥

आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात्

॥४२॥

सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः ॥

काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत्

॥४३॥

काले फलंत्योषधयः काले पुष्पंति पादपाः ॥

वर्षंति तोयदाः काले तस्मात्कालं न लंघयेत्

॥४४॥

मंदेहदेहनाशार्थमुदयास्तमये रविः ॥

समीहते द्विजोत्सृष्टं मंत्रतोयांजलित्रयम्

॥४५॥

गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम् ॥

काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम्

॥४६॥

किं किं न सविता सूते काले सम्यगुपासितः ॥

आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च

॥४७॥

मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च ॥

भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम्

॥४८॥

अष्टादश सुविद्यासु मीमांसातिगरीयसी ॥

ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च

॥४९॥

ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज ॥

ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका

॥५०॥

दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता ॥

न गायत्र्याधिकं किंचित्त्रयीषु परिगीयते

॥५१॥

न गायत्री समो मंत्रो न काशी सदृशी पुरी ॥

न विश्वेश समं लिंगं सत्यंसत्यं पुनःपुनः

॥५२॥

गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ॥

गातारं त्रायते यस्माद्गायत्री तेन गीयते

॥५३॥

वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः ॥

वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा

॥५४॥

प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी ॥

राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्

॥५५॥

सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ॥

किं किं न दद्याद्गायत्री सम्यगेवमुपासिता

॥५६॥

न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि ॥

देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा

॥५७॥

गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः ॥

गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः

॥५८॥

देवत्रयं स भगवानंशुमाली दिवाकरः ॥

सर्वेषां महसां राशिः कालकालप्रवर्तकः

॥५९॥

अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः ॥

श्रुतिं ह्युदाहरंतीमां सारासारविवेकिनः

॥६०॥

एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः ॥

स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः

॥६१॥

सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः ॥

ये नमंत्यत्र ते विप्रा विप्रा भास्करसन्निभाः

॥६२॥

पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज ॥

उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा

॥६३॥

पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये ॥

दानहोमंजपंकुर्यादर्चामर्कस्य सुव्रत

॥६४॥

श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः ॥

सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान्

॥६५॥

अयने विषुवे चापि षडशीतिमुखेषु वा ॥

विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः

॥६६॥

तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च ॥

पितॄनुद्दिश्य च श्राद्धं ये कुर्वंति विपश्चितः

॥६७॥

महापूजां च ये कुर्युर्महामंत्राञ्जपंति च ॥

तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा

॥६८॥

न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः ॥

संक्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः

॥६९॥

संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु ॥

विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः

॥७०॥

ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः ॥

देहिदेहीति जल्पंतो देहिनः सपटच्चराः

॥७१॥

समं कृष्णलकेनापि यो दद्यात्कांचनं कृती ॥

सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक्

॥७२॥

सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः ॥

सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे

॥७३॥

दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम् ॥

भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न संनिधे

॥७४॥

रविवारे संक्रमश्चेदुपरागोऽथवाभवेत् ॥

तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते

॥७५॥

भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते ॥

तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते

॥७६॥

हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि ॥

विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः

॥७७॥

विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान् ॥

आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः

॥७८॥

द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ॥

सुरः प्रभाकरः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः

॥७९॥

त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः ॥

गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः

॥८०॥

द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः ॥

छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः

॥८१॥

एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा ॥

दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः

॥८२॥

हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ॥

दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः

॥८३॥

घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः ॥

एभिः सप्ततिसंख्याकैः पुण्यैः सूर्यस्य नामभिः

॥८४॥

प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः ॥

प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्

॥८५॥

विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ॥

जानुभ्यामवनिं गत्वा परिपूर्य जलेन च

॥८६॥

करवीरादि कुसुमै रक्तचंदनमिश्रितैः ॥

दूर्वांकुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः

॥८७॥

दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ॥

उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः

॥८८॥

प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम् ॥

अनया नामसप्तत्या महामंत्ररहस्यया

॥८९॥

एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ॥

व्याधिभिर्मुच्यते घोरैरपिजन्मांतरार्जितैः

॥९०॥

विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ॥

कालेन निधनं प्राप्तः सूर्यलोके महीयते

॥९१॥

इत्येकदेशः कथितो भानुलोकस्य सत्तम ॥

महातेजोनिधेरस्य कोविशेषमवैत्यहो

॥९२॥

स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् ॥

क्षणादालोकयांचक्रे महेंद्रस्य महापुरीम्

॥९३॥

अगस्तिरुवाच

श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् ॥

न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते

॥९४॥

ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् ॥

वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम्

॥९५॥

ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम् ॥

पातकानि विसृज्येह गतिं यास्यंत्यनुत्तमाम्

॥९६॥

इति श्रीस्कांदमहापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे अप्सरःसूर्यलोकवर्णनंनामनवमोऽध्यायः ॥ ९ ॥