मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ७३

3
काशीखण्डः · 73

ओंकारमहिमवर्णनम्

अगस्त्य उवाच

त्रिलोचनं समासाद्य देवदेवः षडाननः ॥

जगदंबिकयायुक्तः किं चकाराशु तद्वद

॥१॥

स्कन्द उवाच

मुने कलशजाख्यामि यत्पृष्टं तन्निशामय ॥

विरजःसंज्ञकं पीठं यत्प्रोक्तं सर्वसिद्धिदम्

॥२॥

तत्पीठदर्शनादेव विरजा जायते नरः ॥

यत्रास्ति तन्महालिंगं वाराणस्यां त्रिलोचनम्

॥३॥

तीर्थं पिलिपिलाख्यं तद्द्युनद्यंभसि विश्रुतम् ॥

सर्वतीर्थमयं तीर्थं तत्काश्यां परिगीयते

॥४॥

विष्टपत्रितयांतर्ये देवर्षिमनुजोरगाः ॥

ससरित्पर्वतारण्याः संति ते तत्र यन्मुने

॥५॥

तदारभ्य च तत्तीर्थं तच्च लिंगं त्रिलोचनम् ॥

त्रिविष्टपमिति ख्यातमतोहेतोर्महत्तरम्

॥६॥

त्रिविष्टपस्य लिंगस्य महिमोक्ताः पिनाकिना ॥

जगज्जनन्याः पुरतो यथा वच्मि तथा मुने

॥७॥

देव्युवाच

देवदेव जगन्नाथ शर्व सर्वद सर्वग ॥

सर्वदृक्सर्वजनक किंचित्पृच्छामि तद्वद

॥८॥

इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम् ॥

नैःश्रेयस्याः श्रियो गेहं ममापि प्रीतिदं महत्

॥९॥

यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते ॥

तस्याखिलस्य महिमा विष्वक्केनावगम्यते

॥१०॥

यानीह संति लिंगानि तानि सर्वाण्यसंशयम् ॥

निर्वाणकारणान्येव स्वयंभून्यपि तान्यपि

॥११॥

यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि ॥

काश्यामनादिसिद्धानि कानि लिंगानि शंकर

॥१२॥

यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः ॥

यैरियं प्रथितिं प्राप्ता काशी मुक्तिपुरीति च

॥१३॥

येषां स्मरणतोप्यत्र भवेत्पापस्य संक्षयः ॥

दर्शनस्पर्शनाभ्यां च स्यातां स्वर्गापवर्गकौ

॥१४॥

येषां समर्चनादेव मध्ये जन्म सकृद्विभो ॥

लिंगानि पूजितानि स्युः काश्यां सर्वाणि निश्चितम्

॥१५॥

विधाय मय्यनुक्रोशं कारुण्यामृतसागर ॥

एतदाचक्ष्व मे शंभो पादयोः प्रणतास्म्यहम्

॥१६॥

इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम् ॥

कथयामास र्विध्यारे महालिंगानि सत्तम

॥१७॥

यन्नामाकर्णनादेव क्षीयंते पापराशयः ॥

प्राप्यते पुण्यसंभारः काश्यां निवार्णकारणम्

॥१८॥

देवदेव उवाच

शृणु देवि परं गुह्यं क्षेत्रेऽस्मिन्मुक्तिकारणम् ॥

इदं विदंति नैवापि ब्रह्मनारायणादयः

॥१९॥

असंख्यातानि लिंगानि पार्वत्यानंदकानने ॥

स्थूलान्यपि च सूक्ष्माणि नानारत्नमयानि च

॥२०॥

नानाधातुमयानीशे दार्षदान्यप्यनेकशः ॥

स्वयंभून्यप्यनेकानि देवर्षिस्थापितान्यहो

॥२१॥

सिद्धचारणगंधर्व यक्षरक्षोर्चितान्यपि ॥

असुरोरगमर्त्यैश्च दानवैरप्सरोगणैः

॥२२॥

दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः ॥

पतत्रिप्रमुखैर्देवि स्वस्वनामांकितानि वै

॥२३॥

प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि ॥

अदृश्यान्यपि दृश्यानि दुरवस्थान्यपि प्रिये

॥२४॥

भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि ॥

परार्धशतसंख्यानि गणितान्येकदा मया

॥२५॥

गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि ॥

सिद्धलिंगानि तानीशे तिष्येऽदृश्यत्वमाययुः

॥२६॥

गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये ॥

प्रतिष्ठितानि यानीह तेषां संख्या न विद्यते

॥२७॥

त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम् ॥

तानि लिंगानि वक्ष्यामि मुक्तिहेतूनि सुंदरि

॥२८॥

कलावतीव गोप्यानि भविष्यंति गिरींद्रजे ॥

परं तेषां प्रभावो यः स्वस्वस्थानं न हास्यति

॥२९॥

कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः ॥

एतेषां सिद्धलिंगानां ज्ञास्यंत्याख्यामपीह न

॥३०॥

नामश्रवणतोपीह यल्लिंगानां शुभानने ॥

वृजिनानि क्षयं यांति वर्धंते पुण्यराशयः

॥३१॥

ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम् ॥

तृतीयश्च महादेवः कृत्तिवासाश्चतुर्थकम्

॥३२॥

रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम् ॥

केदारः सप्तमं लिंगं धर्मेशश्चाष्टमं प्रिये

॥३३॥

वीरेश्वरं च नवमं कामेशं दशमं विदुः ॥

विश्वकर्मेश्वरं लिंगं शुभमेकादशं परम्

॥३४॥

द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम् ॥

चतुर्दशं महालिंगं मम विश्वेश्वराभिधम्

॥३५॥

प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि ॥

एतेषां समवायोयं मुक्तिक्षेत्रमिहेरितम्

॥३६॥

देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः ॥

आराधिताः प्रयच्छंति नृभ्यो नैःश्रेयसीं श्रियम्

॥३७॥

आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि ॥

प्रिये चतुर्दशेज्यानि महालिंगानि देहिनाम्

॥३८॥

प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम् ॥

एतेषां लिंगमुख्यानां कार्या यात्रा प्रयत्नतः

॥३९॥

अनाराध्य महादेवमेषु लिंगेषु कुंभज ॥

कः काश्यां मोक्षमाप्नोति सत्यं सत्यं पुनःपुनः

॥४०॥

तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः ॥

पूज्यान्येतानि लिंगानि भक्त्या परमया मुने

॥४१॥

अगस्त्य उवाच

एतान्येव किमन्यानि महालिंगानि षण्मुख ॥

निर्वाणकारणानीह यदि संति तदा वद

॥४२॥

स्कंद उवाच

अन्यान्यपि च संतीह महालिंगानि सुव्रत ॥

कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै

॥४३॥

यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः ॥

स एवैतानि लिंगानि वेत्स्यत्यन्यो न कश्चन

॥४४॥

येषां नामग्रहेणापि कलिकल्मष संक्षयः ॥

अमृतेशस्तारकेशो ज्ञानेशः करुणेश्वरः

॥४५॥

मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा ॥

ब्रह्मेशो लांगलश्चैव वृद्धकालेश्वरस्तथा

॥४६॥

वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः ॥

ज्योतीरूपेश्वरं लिंगं ख्यातमत्र चतुर्दशम्

॥४७॥

काश्यां चतुर्दशैतानि महालिंगानि सुंदरि ॥

इमानि मुक्तिहेतूनि लिंगान्यानंदकानने

॥४८॥

कलिकल्मषबुद्धीनां नाख्येयानि कदाचन ॥

एतान्याराधयेद्यस्तु लिंगानीह चतुर्दश

॥४९॥

न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ॥

काशीकोशोयमतुलो न प्रकाश्यो यतस्ततः

॥५०॥

एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत् ॥

रहस्यं परमं चैतत्क्षेत्रस्यास्य वरानने

॥५१॥

चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि ॥

अविमुक्तस्य हृदयमेतदेव गिरींद्रजे

॥५२॥

इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि ॥

एकैकभुवनस्येह सारमादाय सर्वतः ॥

मयैतानि कृतान्येव महाभक्तिकृपावशात्

॥५३॥

अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये ॥

कारणं तत्र लिंगानि ममैतानि चतुर्दश

॥५४॥

त एव व्रतिनः कांते त एव च तपस्विनः ॥

ध्यातान्येतानि यैर्भक्तैर्लिंगान्यानंदकानने

॥५५॥

त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि ॥

काश्यामिमानि लिंगानि यैर्दृष्टान्यपि दूरतः

॥५६॥

इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः ॥

ते सर्वे तेन विहिता यावज्जीवं निरेनसा

॥५७॥

येनाविमुक्तमासाद्य महालिंगानि पार्वति ॥

सकृदभ्यर्चितानीह स मुक्तो नात्र संशयः

॥५८॥

स्कंद उवाच

अन्यान्यपि च विंध्यारे देव्यै प्रोक्तानि शंभुना ॥

स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज

॥५९॥

शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः ॥

हिरण्यगर्भ ईशानो गोप्रेक्षो वृषभध्वजः

॥६०॥

उपशांत शिवो ज्येष्ठो निवासेश्वर एव च ॥

शुक्रेशो व्याघ्रलिंगं च जंबुकेशं चतुर्दशम्

॥६१॥

मुने चतुर्दशैतानि महांत्यायतनानि वै ॥

एतेषामपि सेवातो नरो मोक्षमवाप्नुयात्

॥६२॥

चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः ॥

आ चतुर्दशिपूज्यानि लिंगान्येतानि सत्तमैः

॥६३॥

एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम् ॥

कार्या मुमुक्षुभिः सम्यक्क्षेत्रसंसिद्धिदायिनी

॥६४॥

मुने चतुर्दशैतानि महालिंगानि यत्नतः ॥

दृष्ट्वा न जायते जंतुः संसारे दुःखसागरे

॥६५॥

क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम् ॥

संसाररोगग्रस्तानामिदमेव महौषधम्

॥६६॥

क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम् ॥

कर्मकाननदावाग्निरेषा लिंगावलिः प्रिये

॥६७॥

एकैकस्यास्य लिंगस्य महिमाद्यंत वर्जितः ॥

मयैव ज्ञायते देवि सम्यङ्नान्येन केनचित्

॥६८॥

इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा ॥

प्रणम्य देवमीशानं सर्वज्ञं सर्वदं शिवम्

॥६९॥

देव्युवाच

रहस्यं परमं काश्यां यदेतत्समुदीरितम् ॥

तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ

॥७०॥

यदुक्तं लिगमेकैकं महासारतरं परम् ॥

काश्यां परमनिर्वाणकारणं कारणेश्वर

॥७१॥

प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर ॥

चतुर्दशानां लिंगानां श्रवणादघहारिणाम्

॥७२॥

ओंकारेशस्य लिंगस्य कथमत्र समागमः ॥

अतिपुण्यतमात्तस्मात्क्षेत्रादमरकंटकात्

॥७३॥

किमात्मकोऽयमोंकारो महिमास्य च को हर ॥

केनाराधि पुरा चैष ददावाराधितश्च किम्

॥७४॥

मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम् ॥

कथामकथयद्देव ओंकारस्यमहाद्भुताम्

॥७५॥

देवदेव उवाच

कथामाकर्णयापर्णे वर्णयामि तवाग्रतः ॥

यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत्

॥७६॥

पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना ॥

तपस्तप्तं महादेवि समाधिं दधतापरम्

॥७७॥

पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम् ॥

उदतिष्ठत्पुरोज्योतिर्विद्योतित हरिन्मुखम्

॥७८॥

यदंतराविरभवन्निर्व्याजेन समाधिना ॥

तदेव परमं धाम बहिराविरभूद्विधेः

॥७९॥

योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः ॥

तच्छब्दाद्व्यसृजद्वेधाः समाधिं क्रमतो वशी

॥८०॥

स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने ॥

पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम्

॥८१॥

अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ॥

नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम्

॥८२॥

उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम् ॥

विधातारं समस्तस्य स्वाकारमिव बिंबितम्

॥८३॥

नीरवध्वांतसंकेत सदनाभं तदग्रतः ॥

मकारं स ददर्शाथ तमोरूपं विशेषतः

॥८४॥

साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम् ॥

अथ तत्पुरतो ध्याता व्यधात्स्वनयनातिथिम्

॥८५॥

विश्वरूपमयाकारं सगुणं वापि निर्गुणम् ॥

अनाख्यनादसदनं परमानंदविग्रहम्

॥८६॥

शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम् ॥

अथोपरिष्टान्नादस्य बिंदुरूपं परात्परम्

॥८७॥

कारणं कारणानां च जगद्योनिं च तं परम् ॥

विधिर्विलोकयांचक्रे तपसागोचरीकृतम्

॥८८॥

अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः ॥

भक्तमुन्नयते यस्मात्तदोमिति य ईरितः

॥८९॥

अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ॥

तारयेद्यद्भवांभोधेः स्वजपासक्तमानसम् ॥

ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत्

॥९०॥

प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः ॥

सर्वेभ्योभ्यधिकस्तस्मात्प्रणवो यैः प्रकीर्तितः

॥९१॥

स्वसेवितारं पुरुषं प्रणयेद्यः परंपदम् ॥

अतस्तप्रणवं शांतं प्रत्यक्षीकृतवान्विधिः

॥९२॥

त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः ॥

नादबिंदुस्वरूपो यः स प्रैक्षि द्विजगामिना

॥९३॥

प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः ॥

सवेदादिः पद्मभुवा पुरस्तादवलोकितः

॥९४॥

वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः ॥

सनेत्रविषयी चक्रे परमः परमेष्ठिना

॥९५॥

शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च ॥

द्वे शीर्षे च त्रयः पादाः स देवो विधिनैक्षत

॥९६॥

यदंतर्लीनमखिलं भूतं भावि भवत्पुनः ॥

तद्बीजं बीजरहितं द्रुहिणेन विलोकितम्

॥९७॥

लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम् ॥

अतः स भाज्यते सद्भिर्यल्लिंगं तद्विलोकितम्

॥९८॥

पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत् ॥

आदिपंचस्वरूपंयन्निरैक्षि ब्रह्मणा हि तत्

॥९९॥

तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् ॥

पंचाक्षरं प्रपंचाच्च भिन्नं तुष्टाव शंकरम्

॥१००॥

ब्रह्मोवाच

नम ओंकाररूपाय नमोऽक्षरवपुर्धृते ॥

नमोऽकारादिवर्णानां प्रभवाय सदाशिव

॥१॥

अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते ॥

ऋग्यजुः सामरूपाय रूपातीताय ते नमः

॥२॥

नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ॥

अलिंगलिंगरूपाय सर्वरूपस्वरूपिणे

॥३॥

नमस्ते धाम निधये निधनादिविवर्जित ॥

नमो भवाय रुद्राय शर्वाय च नमोस्तुते

॥४॥

नम उग्राय भीमाय पशूनां पतये नमः ॥

नमस्तारस्वरूपाय संभवाय नमोस्तु ते

॥५॥

अमायाय नमस्तुभ्यं नमः शिवतराय ते ॥

कपर्दिने नमस्तुभ्यं शितिकंठ नमोस्तु ते

॥६॥

मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः ॥

नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे

॥७॥

कुमारगुरवे तुभ्यं कुमारवपुषे नमः ॥

नमः श्वेताय कृष्णाय पीतायारुणमूर्तये

॥८॥

धूम्रवर्णाय पिंगाय नमः किर्मीरवर्चसे ॥

नमः पाटलवर्णाय नमो हरिततेजसे

॥९॥

नानावर्णस्वरूपाय वर्णानां पतये नमः ॥

नमस्ते स्वररूपाय नमो व्यंजनरूपिणे

॥११०॥

उदात्तायानुदात्ताय स्वरिताय नमो नमः ॥

ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः

॥११॥

अनुस्वारस्वरूपाय नमस्ते सानुनासिक ॥

नमो निरनुनासाय दंत्यतालव्यरूपिणे

॥१२॥

ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे ॥

अंतस्थाय नमस्तुभ्यं पंचमाय पिनाकिने

॥१३॥

निषादाय नमस्तुभ्यं निषादपतये नमः ॥

वीणावेणुमृदंगादि वाद्यरूपाय ते नमः

॥१४॥

नमस्ताराय मंद्राय घोरायाघोरमूर्तये ॥

नमस्तानस्वरूपाय मूर्च्छनां पतये नमः

॥१५॥

स्थायिसंचारिभेदेन नमो भावस्वरूपिणे ॥

तालप्रियाय तालाय लास्यतांडवजन्मने

॥१६॥

तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय ॥

तौर्यत्रिककृतांभक्त्या निर्वाणश्रीप्रदायक

॥१७॥

स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्य स्वरूपिणे ॥

अर्वाचीनाय च नमः पराचीनाय ते नमः

॥१८॥

वाक्प्रपंच स्वरूपाय वाक्प्रपंच पराय च ॥

एकायानेकभेदाय सदसत्पतये नमः

॥१९॥

शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते ॥

नमो वेदांतवेद्याय वेदानां पतये नमः

॥१२०॥

नमो वेदस्वरूपाय वेदगोचरमूर्तये ॥

पार्वतीश नमस्तुभ्यं जगदीश नमोस्तु ते

॥२१॥

नमस्ते देवदेवेश देव दिव्यपदप्रद ॥

शंकराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर

॥२२॥

नमस्ते जगदानंद नमस्ते शशिशेखर ॥

मृत्युंजय नमस्तुभ्यं नमस्ते त्र्यंबकाय च

॥२३॥

नमः पिनाकहस्ताय त्रिशूलायुधधारिणे ॥

नमस्त्रिपुरहंत्रे च नमोंधक निषूदन

॥२४॥

कंदर्पदर्पदलन नमोजालंधरारये ॥

कालाय कालकालाय कालकूटविषादिने

॥२५॥

विषादहंत्रे भक्तानामभक्तैक विषादद ॥

ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते

॥२६॥

योगसिद्धिप्रदोसि त्वं योगिनां योगसत्तम ॥

तपसां फलदोसि त्वं तपस्विभ्यस्तपोधन

॥२७॥

त्वमेव मंत्ररूपोसि मंत्राणां फलदो भवान् ॥

महादानफलं त्वं वै महादानप्रदो भवान्

॥२६॥

महायज्ञस्त्वमेवेश महायज्ञ फलप्रद ॥

त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान्

॥२९॥

सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक ॥

योगिनां हृदयाकाश कृतालय नमोस्तु ते

॥१३०॥

त्वमेव विष्णुरूपेण शंखचक्रगदाधर ॥

त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोस्तु ते

॥३१॥

त्वमेव विदधास्ये तद्विधिर्भूत्वा विधानवित् ॥

रजोरूपं समालंब्य नीरजस्कपदप्रद

॥३२॥

त्वमेव हि महारुद्रस्त्वं महोग्रो भुजंगभृत् ॥

त्वमेव हि महाभीमो महापितृवनेचर

॥३३॥

तामसीं तनुमाश्रित्य त्वं कृतांत कृतांतक ॥

कालाग्निरुद्रो भूऽत्वांते त्वं संवर्त प्रवर्तकः

॥३४॥

त्वं पुंप्रकृतिरूपाभ्यां महदाद्यखिलं जगत् ॥

अक्षिपक्ष्मसमुत्क्षेपात्पुनराविः करोप्यज

॥३५॥

उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् ॥

कपालमालाखेलोयं भवतः स्वैरचारिणः

॥३६॥

त्वत्कंठे नृकरोटीयं धूर्जटे या विभासते ॥

सर्वेषामंतदग्धानां सास्फुटं बीजमालिका

॥३७॥

त्वत्तः सर्वमिदं शंभो त्वयि सर्वं चराचरम् ॥

कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम्

॥३८॥

स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च ॥

वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किंचन

॥३९॥

त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा ॥

त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः

॥१४०॥

इत्युदीर्यासकृद्वेधाः प्रणनाम महेश्वरम् ॥

प्रणवाख्यं महालिंगरूपिणं दंडवत्क्षितौ

॥४१॥

ईश्वर उवाच

ततो गिरींद्रतनये श्रुत्वा ब्रह्मस्तुतिं पराम् ॥

परमैश्वर्यसंपत्ति हेतुं तुष्टोहमद्भुतम्

॥४२॥

अमूर्तोऽहं ततो लिंगान्मूर्तिमास्थाय शांकरीम् ॥

प्रसन्नोस्मि वरं ब्रूहीत्युवाच चतुराननम्

॥४३॥

चतुर्वक्त्रः समुत्थाय प्रत्यक्षं वीक्ष्य मामथ ॥

पुनर्जयजयेत्युक्त्वा प्रणनाम कृतांजलिः

॥४४॥

आनंदबाष्पसलिलनेत्रो हृष्टतनूरुहः ॥

गद्गदेन स्वरेणाथ प्रोवाच जलजासनः

॥४५॥

ब्रह्मोवाच

यदि प्रसन्नो देवेश यदि देयो वरो मम ॥

तदेतस्मिन्महालिंगे सान्निध्यं तेऽस्तु शंकर

॥४६॥

अयमेव वरो देयो नान्यं वरमहं वृणे ॥

ओंकारेश्वरनामैतदस्तु भक्तैकमुक्तिदम्

॥४७॥

स्कंद उवाच

विध्युक्तमिति विप्रर्षे समाकर्ण्य तदेशिता ॥

उवाच वचनं चैतत्तथास्तु चतुराननम्

॥४८॥

वरानन्यानपि विभुः प्रसन्नस्तत्क्षणाद्ददौ ॥

विधये दीर्घतपसे तया स्तुत्यातितोषितः

॥४९॥

ईश्वर उवाच

सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव ॥

सृष्टेःकरणसामर्थ्यं तवास्तु मदनुग्रहात्

॥१५०॥

पितामहस्त्वं सर्वेषां सर्वेषां मान्यभूर्भवान् ॥

त्वत्तपःफलदानार्थं यदेतल्लिंगमुत्थितम्

॥५१॥

परमोंकाररूपं च शब्दब्रह्ममयं विधे ॥

अस्याराधनतः पुंसां न दूरं ब्रह्मणः पदम्

॥५२॥

अकाराख्यमिदं लिंगमुकाराख्यमिदं परम् ॥

मकाराह्वयमेतच्च नादाख्यं बिंदुसंज्ञकम्

॥५३॥

पंचायतनमीशानमित्थमेतदुदीरितम् ॥

मोक्षाय सर्वजंतूनामस्मिन्नानंदकानने

॥५४॥

स्नात्वा मत्स्योदरी तीर्थे विलोक्योंकारमीश्वरम् ॥

न जातु जायते जंतुर्जननी जठरे क्वचित्

॥५५॥

एतन्नादेश्वरं लिंगमेतल्लिंगं सुदुर्लभम् ॥

रम्ये मत्स्योदरी तीरे दृष्टं स्पृष्टं विमुक्तिदम्

॥५६॥

यदेतत्कापिलं ज्योतिरेतल्लिंगे विलोक्यते ॥

अतस्तु कपिलेशाख्यमेतल्लिंगं सुदुर्लभम्

॥५७॥

मत्स्योदरी यदा गंगा कपिलेश्वर सन्निधौ ॥

तदा तत्र नरः स्नात्वा ब्रह्महत्यां व्यपोहति

॥५८॥

वरणोत्सिक्तपानीये द्युनदीतोयमिश्रिते ॥

स्नात्वा नादेश्वरं दृष्ट्वा नरः किमनुशोचति

॥५९॥

अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः ॥

षष्टि कोटि सहस्राणि मत्स्योदर्यां विशंति हि

॥१६०॥

प्रणवेश समीपे तु यदा गंगा समेष्यति ॥

तदा पुण्यतमः कालो देवर्षि पितृवल्लभः

॥६१॥

तत्र स्नानं जपोदानं हवनं देवतार्चनम् ॥

मत्स्योदर्यामक्षयं स्यादोंकारेश्वरसन्निधौ

॥६२॥

ओंकारदर्शनादेव वाजिमेधफलं लभेत् ॥

तस्मात्काश्यां प्रयत्नेन दृश्य ओंकार ईश्वरः

॥६३॥

दुर्लभं मानवं जन्म चतुर्वर्गैकसाधनम् ॥

जलबुद्बुदवत्तत्स्यान्नादेशो येन नेक्षितः

॥६४॥

निरीक्ष्य कपिलेशानं स्नात्वा मत्स्योदरीजले ॥

कृत्वा पिंडप्रदानानि पितॄणामनृणो भवेत्

॥६५॥

कृत्वापि मोहात्पापानि भूरीण्येव महांत्यपि ॥

काश्यामोंकारमालोक्य कुतस्त्रस्यति वै यमात्

॥६६॥

ओंकारयात्राभिमुखं नरं वीक्ष्य पितामहाः ॥

परिनृत्यंति मुदिताः स्वसंतानसमुद्भवम्

॥६७॥

यस्य यस्य च वै नाम स्मृत्वा स्मृत्वा नमस्यति ॥

तं तमुन्नयते प्राज्ञः पितरं ब्रह्मणः पदम्

॥६८॥

रुद्राणां नियुतं जप्त्वा यत्फलं सम्यगाप्यते ॥

तत्फलं लभते नूनं भक्त्योंकार विलोकनात्

॥६९॥

केवलं भूमिभाराय जन्मिनो जन्म तस्य वै ॥

येनानंदवने दृष्टो नोंकारः सर्वकामदः

॥१७०॥

एकमोंकारमालोक्य समस्ते क्षोणिमंडले ॥

लिं गजातानि सर्वाणि दृष्टानि स्युर्न संशयः

॥७१॥

प्रणवेशं प्रणम्याथ यद्यन्यत्र विपद्यते ॥

स्वर्गलोकमवाप्याथ काश्यां मुक्तिमवाप्नुयात्

॥७२॥

अस्मिँल्लिंगे सदा ब्रह्मन्स्थास्यामीति विनिश्चितम् ॥

दास्यामि च सदा मोक्षमेतल्लिंगार्चकाय वै

॥७३॥

ओंकारं सकृदप्यत्र नरो नत्वा प्रयत्नतः ॥

कृतकृत्यो भवेन्नूनं परमान्मदनुग्रहात

॥७४॥

ओंकारपश्चिमे भागे तारतीर्थमनुत्तमम् ॥

कृतोदकक्रियस्तत्र नरस्तरति दुर्गतिम्

॥७५॥

ओंकारेशस्य ये भक्ता ज्ञेयास्ते नैव मानवाः ॥

मनुष्यचर्मणा नद्धास्ते रुद्रा मोक्षगामिनः

॥७६॥

अस्य लिंगस्य महिमा नान्यैरत्रावगम्यते ॥

त्वत्पुण्योदयतो यस्माद्विधेत्राविरभूदिदम्

॥७७॥

एतल्लिंगप्रभावाच्च सर्वं ज्ञास्यसि तत्त्वतः ॥

विधे विधेहि तस्मात्त्वं सर्वमेतच्चराचरम्

॥७८॥

इति दत्त्वा वरं तस्मै ब्रह्मणे पद्मसंभवे।

तस्मिन्नेव महालिंगे शंभुर्लीनो बभूव ह

॥७९॥

स्कंद उवाच

ब्रह्मापि भजतेद्यापि तल्लिंगं कलशोद्भव ॥

स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि

॥१८०॥

ब्रह्मस्तवं जपन्मर्त्यः सर्वैः पापैः प्रमुच्यते ॥

पूर्यते च महापुण्यैर्ज्ञानं प्राप्नोति सत्तमम्

॥८१॥

ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम् ॥

अंतकाले भवेज्ज्ञानं येन बंधात्प्रमुच्यते

॥१८२॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संह्तिायां चतुर्थे काशीखंड उत्तरार्ध ओंकारमहिमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥