महाकालवनप्रशंसावर्णनम्
श्रीगणेशाय नमः
श्रीजगदंबायै नमः
अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते
व्यास उवाच
स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ॥
लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहा कालनामा बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिंगं कपालम्
॥१॥उमोवाच
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा ॥
कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते
॥२॥ईश्वर उवाच
अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी ॥
सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता
॥३॥तपनस्य सुता देवी यमुना लोकपावनी ॥
पितॄणां वल्लभा देवी महापातकनाशिनी
॥४॥चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ॥
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा
॥५॥केदारं पुष्करं चैव तथा कायावरोहणम् ॥
तथा पुण्यतमं देवि महाकालवनं शुभम्
॥६॥यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ॥
क्षेत्रं योजनपर्यंतं ब्रह्महत्यादिनाशनम्
॥७॥भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम् ॥
प्रलयेऽप्यक्षयं देवि दुष्प्रापं त्रिदशैरपि
॥८॥उमोवाच
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर ॥
यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै
॥९॥तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे
॥१०॥महादेव उवाच
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ॥
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम्
॥११॥श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम् ॥
अनेकाश्चर्यनिलयं बहुपादपसंकुलम्
॥१२॥विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम् ॥
विचित्रवर्णशोभाढ्यमृषिसंघनिनादितम्
॥१३॥मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम् ॥
निर्झरांबुप्रपातोत्थशीकराकरसंकुलम्
॥१४॥वाताहततरुव्रातप्रसूनास्थानचित्रितम् ॥
मृगनाभिवरामोदवासिता शेषकाननम्
॥१५॥लतागृहरतिस्थानं सिद्धविद्याधराश्रयम् ॥
प्रवीणकिन्नरव्रातमधुरध्वनिनादितम्
॥१६॥तस्मिन्वने महारम्ये शोभिताशेष भूमिकम् ॥
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः
॥१७॥तत्र दिव्यांगनागीतमधुरध्वनिनादिता ॥
पारिजाततरुच्छन्नमंजरीदामशोभिता
॥१८॥बहुवाद्यसमुन्नद्धमहास्वननिनादिता ॥
लयतालयुतानेकगीतवादित्रनादिता
॥१९॥विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता ॥
लयतालयुतानेकमहाकौतुकसंयुता
॥२०॥अप्सरोनृत्यविन्यासविलासोल्लासशोभिता ॥
सभा कांतिमतीनाम देवानां हर्षदायिका
॥२१॥ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता ॥
द्विजातिवेदशब्देन नादिताऽऽनंददायिका
॥२२॥तस्यां निविष्टं वागीशं शंकराराधने रतम् ॥
सनत्कुमारं ब्रह्मर्षिं ब्रह्मणो मानसं सुतम्
॥२३॥मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः ॥
पराशरसुतो व्यासः प्रणिपत्य यथाविधि
॥२४॥कृतांजलिपुटो भूत्वा भवभक्त्यानुभावितः ॥
पप्रच्छ परया तुष्ट्या हर्षितांगरुहाननः
॥२५॥महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम् ॥
व्यास उवाच ॥
महाकालवनं कस्मात्प्रोच्यते सर्वतो वरम्
॥२६॥भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम् ॥
कथं गुह्यवनं प्रोक्तं पीठत्वमूषरं तथा
॥२७॥फलं यथात्र वसतां मृतानां च गतिर्यथा ॥
स्नानेन यद्भवेत्पुण्यं दानेनापि च यत्फलम्
॥२८॥कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा ॥
पृष्टं मे शंकरे भक्त्या ब्रूहि त्वं शास्त्रकोविद
॥२९॥सनत्कुमार उवाच
क्षीयते पातकं यत्र तेनेदं क्षेत्रमुच्यते ॥
यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते
॥३०॥मृताः पुनर्न जायंते तेनेदमूषरं स्मृतम् ॥
गुह्यमेतत्प्रियं नित्यं क्षेत्रं शंभोर्महा त्मनः
॥३१॥यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम् ॥
महाकालवनं यच्च तथा चैवाविमुक्तिकम्
॥३२॥एकाम्रकं भद्रकालं करवीरवनमेव च ॥
कोलागिरिस्तथा काशी प्रयागममरेश्वरम्
॥३३॥भरथं चैव केदारं दिव्यं रुद्रमहालयम् ॥
दिव्यस्मशानान्येतानि रुद्रस्येष्टानि नित्यशः
॥३४॥रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा ॥
पृथिव्यां नैमिषं तीर्थमुत्तमं तीर्थपुष्करम्
॥३५॥त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते ॥
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी मता
॥३६॥तस्या दशगुणं व्यास महाकालवनोत्तमम् ॥
प्रभासाद्यानि तीर्थानि पृथिव्यामिह यानि तु
॥३७॥प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः ॥
श्रीशैलमुत्तमं तीर्थं देवदारुवनं तथा
॥३८॥तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता ॥
तस्माद्दशगुणं प्रोक्तं सर्वतीर्थोत्तमं यतः
॥३९॥महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् ॥
किंचिद्गुह्यान्यथान्यानि स्मशानान्यूषराणि च
॥४०॥सर्वतस्तु समाख्यातं महाकालवनं मुने ॥
स्मशानमूषरक्षेत्रं पीठं तु वनमेव च
॥४१॥पंचैकत्र न लभ्यंते महाकालपुरादृते
॥४२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनप्रशंसावर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥