मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १४

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 14

चतुःसमुद्रमाहात्म्यवर्णनम्

सनत्कुमार उवाच

स्नात्वा चतुःसमुद्रे तु पश्येद्राजस्थलं शिवम् ॥

यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः

॥१॥

समुद्राः संति चत्वारः क्षारक्षीरदधीक्षवः ॥

समीपे तस्य देवस्य सुद्युम्नेन प्रतिष्ठिताः

॥२॥

व्यास उवाच

राजस्थल समीपे तु समुद्राः केन हेतुना ॥

कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः

॥३॥

लक्षयोजनपर्यंतं जंबुद्वीपं सुशोभनम् ॥

मर्यादायां स्थापितोऽयं समुद्रः क्षारसंज्ञितः

॥४॥

शाकद्वीपे द्विलक्षे तु क्षीराब्धिः संप्रतिष्ठितः ॥

दध्यब्धिस्तु कुशद्वीपे चतुर्लक्षः प्रतिष्ठितः ॥

शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः

॥५॥

चत्वारस्ते समाख्याताः समुद्रा भूमिमंडले ॥

राजस्थलसमीपे तु कथमेकत्र संगताः

॥६॥

सनत्कुमार उवाच

सुद्युम्नो नाम राजासीत्पुरा कल्पे सुधार्मिकः ॥

तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना

॥७॥

मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया ॥

भगवन्केन दानेन स्नानेन विधिनाऽथवा

॥८॥

सर्वलक्षणसंपूर्णः पुत्रो लभ्यो मया कथम् ॥

एतदाख्याहि विप्रर्षे याथातथ्यं सविस्तरम्

॥९॥

दाल्भ्य उवाच

विहितास्ते पुरा पुत्र्यब्धयः पुत्रेप्सयोत्तमाः ॥

स्वयंभुवेन देवेन ब्रह्मणा लोककारिणा

॥१०॥

तेषु राज्ञा कृते स्नाने तव पुत्रो भविष्यति ॥

शंकराराधने पुत्रि तस्मात्प्रेरय वल्लभम्

॥११॥

दाल्भ्यस्यैव तु वाक्येन विचित्राख्यानकेन च ॥

प्रस्थापयामास पतिं शंकराराधने द्रुतम्

॥१२॥

स गत्वा तोषयामास शंकरं गंधमादने ॥

संतुष्टः शंकरः प्राह शशिसूर्याग्निलोचनः

॥१३॥

अवंतीं गच्छ राजेद्र पुत्रं प्राप्स्यसि शोभनम् ॥

मच्छासनाज्जलधयो गमिष्यंति कुशस्थलीम्

॥१४॥

मेरुरूपे स्थले राजन्समीपे शंकरस्य च ॥

द्रक्ष्यसि त्वं नरश्रेष्ठ जलधींस्तत्र संगतान् ॥

अभ्यर्थितास्त्वया तत्र स्थास्यंति कलया सदा

॥१५॥

एवमुक्त्वा महादेवो जगामादर्शनं विभुः ॥

सुद्युम्नो भार्यया सार्धमाजगाम कुशस्थलीम्

॥१६॥

आगतस्तु कुशस्थल्यां समुद्रांश्च ददर्श ह ॥

तांस्तु दृष्ट्वा नमश्चक्रे राजस्थलसमीपतः

॥१७॥

ते वै दृष्ट्वा च सुद्युम्नं प्रणतं भक्तवत्सलम् ॥

प्रोचुर्वारिधयः सर्वे वरं वरय सुव्रत

॥१६॥

स वव्रे मनसा पुत्रं सर्वलक्षणसंयुतम् ॥

उवाच च पुना राजा यावत्ति ष्ठति मेदिनी ॥

तावदत्रैव स्थातव्यं राजस्थलसमीपतः

॥१९॥

समुद्रा ऊचुः

तावत्स्थास्यामहेऽत्रैव यावत्कल्पावसानकम्

॥२०॥

भविष्यति च ते पुत्रः सर्वलक्षणसंयुतः ॥

अत्र ते स्नानमात्रेण तस्मात्स्नानं समाचर

॥२१॥

स्थले चात्र शुभे राजन्स्थास्यामः कलया सह ॥

एवं व्यास समुद्रास्तु सुद्युम्नेनावतारिताः

॥२२॥

कुरुते तेषु यो यात्रां तस्य पुण्यफलं शृणु ॥

स्नानं कृत्वा महापुण्ये समुद्रे क्षारसंज्ञके

॥२३॥

कुर्याच्छाद्धं ततो व्यास पितॄणां भक्तितत्परः ॥

पूजयेच्च महादेवं स्थलस्थं पार्वतीपतिम्

॥२४॥

मंडकांश्च ततो दद्याद्ब्राह्मणे वेदपारगे ॥

पात्रं ताम्रमयं कार्यं लवणेन प्रपूरितम्

॥२५॥

सहिरण्यं च दातव्यं ब्राह्मणे वेदपारगे ॥

सप्तधान्यसमायुक्तं वेणुजं वस्त्रवेष्टितम्

॥२६॥

सदक्षिणं फलैर्युक्तमर्घ्यं दद्यात्प्रयत्नतः ॥

क्षीराब्धिं च ततो गत्वा स्नानं कुर्याच्च पूर्ववत्

॥२७॥

क्षीरं तत्र प्रदातव्यं ताम्रपात्रेण पूरितम् ॥

दध्यब्धौ च तथा कृत्वा दद्याद्दध्योदनं शुभम्

॥२८॥

इक्ष्वब्धौ च तथा कृत्वा दद्याद्विप्रे गुडं शुभम् ॥

यात्रां कृत्वा तु वै व्यास गां च दद्यात्पयस्विनीम्

॥२९॥

एवं यः कुरुते यात्रां राजस्थलसमीपतः ॥

भव्यां हि लभते लक्ष्मीं पुत्रांश्चापि मनोरमान्

॥३०॥

मृते स्वर्गमवाप्नोति यावदिंद्राश्चतुर्दश ॥

तावत्स्वर्गफलं भुक्त्वा पश्चान्मोक्षं प्रयास्यति

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहा त्म्ये राजस्थलेश्वरसमीपे चतुःसमुद्रमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥