मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ३८

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 38

नास्ति शेषं यदा रक्तं पीयमानं च रक्षसः

सनत्कुमार उवाच

नास्ति शेषं यदा रक्तं पीयमानं च रक्षसः ॥

चामुंडायास्ततो रक्तमभूदास्यं च भासुरम्

॥१॥

कृष्णं कृतांतकल्पांतं करालदशनाधरम् ॥

प्रज्वलत्यंधके शांतं ज्वलत्केसरलोचनम्

॥२॥

घोरघर्घरनिर्घोषस्फीतफेत्कारविस्वरम् ॥

तार्क्ष्यपक्षकृतापीडं तीक्ष्णदंष्ट्राकुरोज्ज्वलम्

॥३॥

तस्मिन्मुखे कपालाग्रं निधाय रुषितानना ॥

अपिबद्रुधिरं चंडी चण्ड दोर्दंडमंडिता

॥४॥

तया पिबंत्या दैत्येंद्रः शरीरे कृशतां गतः ॥

क्षयं निन्येऽथ संक्षीणक्षुद्रक्षुभितवीक्षणः

॥५॥

इत्थं निर्वीर्यदेहोऽसौ बभूवांध कदानवः ॥

सर्वां संहृत्य मायां यो बलं क्षीणमथाकरोत्

॥६॥

तीव्रं भयं समासाद्य प्राणत्राणपरायणः ॥

दृष्ट्वा नान्यां गतिं लोके दैत्यस्तुष्टाव शंकरम्

॥७॥

कृतांजलिपुटो भूत्वा रोमांचितशरीरकः ॥

सात्त्विकं भावमापन्नस्त्यक्त्वा चैव रजस्तमः

॥८॥

लोकानां कारणं देवं विबुधाधि पतिं प्रभुम् ॥

शश्वद्बुद्ध्यान्वितो भक्त्या निर्मलेनांतरात्मना

॥९॥

श्लाघ्यं शिवं च तुष्टाव देवं चंद्रार्धशेखरम्

॥१०॥

अंधक उवाच

कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता ॥

संसारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि

॥११॥

यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः ॥

ध्यायंति येऽखिलधियोऽमितदिव्यभूतिं तं शंकरं शरणदं शरणं व्रजामि

॥१२॥

यश्चंद्रखंडममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति ॥

यस्यार्धदेहमभजद्गिरिराजपुत्री तं शंकरं शरणदं शरणं व्रजामि

॥१३॥

यः सिद्धचारणनिषेवितपादपद्मो गंगां महोर्मिविषमां गगनात्पतंतीम् ॥

मूर्ध्ना दधे स्रजमिव त्रिजगत्पुनंतीं तं शंकरं शरणदं शरणं व्रजामि

॥१४॥

कैलासशैलशिखरं प्रविकंप्यमानं कैलासशृंगसदृशेन दशाननेन ॥

यः पादपद्मपरिपीडनसेव्यमानस्तं शंकरं शरणदं शरणं व्रजामि

॥१५॥

दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमशातयद्यः ॥

व्यष्टंभयत्कुलिशहस्तमथेंद्रमीशं तं शंकरं शरणदं शरणं व्रजामि

॥१६॥

येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः ॥

संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि

॥१७॥

एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः ॥

यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजा मि

॥१८॥

ब्रह्मेंद्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः ॥

सूतं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि

॥१९॥

आराधितस्तु तपसा हिमवन्निकुंजे धूम्रव्रतेन तपसा च परैरगम्यः ॥

संजीवनीं समददाद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि

॥२०॥

क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमंडितानि ॥

सब्रह्मकानि ससृजे सुकृताभिधानि तं शंकरं शरणदं शरणं व्रजामि

॥२१॥

यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव करालरंध्रम् ॥

ब्राह्म्यं शिरस्तरणिपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि

॥२२॥

ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य ॥

ऐश्वर्यमानविगमेऽनुशयेन पश्चात्ते यातनामनुभवंति यथाहमेव

॥२३॥

यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः ॥

विप्रसंसदि सदा शुभकर्मा स प्रयाति शिवलोक मखंडम्

॥२४॥

सनत्कुमार उवाच

तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ॥

पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः

॥२५॥

पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ॥

दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः

॥२६॥

यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम् ॥

तत्तत्सर्वं प्रदास्यामि ब्रूहि दानवसत्तम

॥२७॥

दानव उवाच

ब्राह्म्यं वैष्णवमेंद्रं वा पदमावृत्तिलक्षणम् ॥

विदितं मम तत्सर्वं मनागपि न कांक्षये

॥२८॥

यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे ॥

सविशेषं विशुद्धं च तदक्षय्यं च सर्वदा

॥२९॥

महादेव उवाच

अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ॥

भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः

॥३०॥

कामरूपो महायोगी महासत्त्वो महाबलः ॥

अणिमादिगुणैर्युक्तः प्रियश्च मम सर्वदा

॥३१॥

सनत्कुमार उवाच

ततश्च सोंऽधकः श्रीमान्वराँल्लब्ध्वा सुदुर्लभान् ॥

महादेवगणो भूत्वा तत्रैवांतरधीयत

॥३२॥

गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः ॥

स देवो यत्र भगवानंधकस्य वरप्रदः

॥३३॥

तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः ॥

चामुंडा च महेशेन समाश्वस्ता शिवाऽभवत्

॥३४॥

शंकरं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम् ॥

ब्रह्मादयोऽपि ते हृष्टास्तुष्टुबुर्विविधैः स्तवैः

॥३५॥

प्रशांतास्ता यदा हृष्टाः शंभुना रुधिराशनाः ॥

तदा वोचदिदं वाक्यं तासां स्थित्यर्थमुत्तमम्

॥३६॥

आवंत्ये विषये सर्वा यस्माजाता महाबलाः ॥

आवंत्यमातरस्तस्मात्ख्याता लोके भविष्यथ

॥३७॥

अवंत्यां प्रीतिसंपन्नाः सर्वपापप्रणाशिनीः ॥

स्थिरा वसंत्यो लोकानां वरदाश्च भविष्यथ

॥३८॥

श्रावणस्य तु मासस्य अमावास्यां समाहिताः ॥

ये द्रक्ष्यंति सदा भक्त्या तेषां लोका महोदयाः

॥३९॥

अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् ॥

रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः

॥४०॥

हंसयुक्तेन यानेन पितृलोके महीयते ॥

पुरीमिमां च रक्षध्वं कल्पेकल्पे क्रमेण तु

॥४१॥

एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम् ॥

स्तूयमानो गणै रौद्रैर्दैत्यामरगणेश्वरैः

॥४२॥

असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति ॥

सकल सुखनिधानं रुद्रलोकं स कांतं सुरगणदनुनाथैरर्चितं यात्यनंतम्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्येऽन्धकवृत्तांतवर्णनंनामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥