व्रतमाहात्म्यवर्णनम्
सनत्कुमार उवाच
भिन्नेंऽधके त्रिशूलेन ध्वनी रुद्रस्य निर्गतः ॥
तत्रोंकारः समुत्पन्नो देवदेवो महेश्वरः
॥१॥तत्र स्नात्वा शुचिर्भूत्वा समाधिनियमेन च ॥
दृष्ट्वोंकारं महादेवं मुच्यते सर्वपातकैः
॥२॥हत्वांधके त्रिशूलश्च भोगवत्या जले ययौ ॥
दृष्ट्वा शूलं सुतेजस्कं हाटको विस्मयं गतः ॥
पप्रच्छ केन कार्येण भवानिह समागतः
॥३॥कथयामास शूलोसौ शंकरेणाहमीरितः ॥
अंधकस्य वधार्थाय पापवृत्तेः सुदु र्मतेः
॥४॥भित्त्वा तमहमायातो भोगवत्या जले शुभे ॥
गमिष्यामि पुनस्तत्र यत्र तिष्ठति शंकरः
॥५॥शूलोक्तं वचनं श्रुत्वा परमेशदिदृक्षया ॥
हाटकः शूलमार्गेण निर्जगाम जवेन सः ॥
बहुवक्त्रसमाकीर्णं सुप्रभं सुमनोरमम्
॥६॥तं दृष्ट्वा त्रिदशाः सर्वे शूलेशं हाटकेश्वरम् ॥
प्रणम्य हृष्टरोमाणो यथा प्रोत्फुल्लपंकजम्
॥७॥तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्मविष्णुपुरोगमाः ॥
हाटकेश्वरनामासीत्पाताले यो व्यवस्थितः
॥८॥निर्गतः शूलमार्गेण तेन शूलेश्वरः स्मृतः ॥
धूतपापं च यत्तीर्थं देवदेवस्य चोत्तरे
॥९॥तत्र पापः स दैत्येंद्रो धूतः शूलेन वीर्यवान् ॥
तेन तीर्थमिदं व्यास धूतपापं निगद्यते
॥१०॥अष्टम्यां वा पौर्णमास्यां चतुर्दश्यां शनौ तथा ॥
उपोष्य रजनीमेकां शिवभक्तो जितेंद्रियः
॥११॥धूतपापं तु यः पश्येद्देवदेवं महेश्वरम् ॥
विमुक्तः सर्वपापैः स सप्तजन्मकृतैरपि
॥१२॥कुलानां शतमुद्धृत्य शिवलोकं च गच्छति ॥
कृताभिषेकं यः पश्येत्पौषे मासि स वै नरः
॥१३॥शूलेश्वरप्रभावेन मुच्यते ब्रह्महत्यया ॥
विमानानां सहस्रेण मृतो याति परं पदम्
॥१४॥इति चांधकशूलोयं यावद्भोगवतीं गतः ॥
तावत्समुत्थिता घोरा असुरा रुधिरोद्भवाः
॥१५॥खड्गहस्ता महावीर्या अनेकशतसंख्यया ॥
चतुर्दिक्षु स्थितैर्घोरैर्हन्य मानो महेश्वरः ॥
सिंहनादं मुमोचाथ पीडितस्तैर्दुरात्मभिः
॥१६॥सिंहनादेन ते पापा मूर्छिताः पतिता भुवि ॥
पुनः समुत्थिता जग्मुर्देवदेवं महेश्वरम् ॥
वित्रस्ताश्च ततो देवा ब्रह्मविष्णुपुरोगमाः
॥१७॥असाध्यांस्तांस्तथा मत्वा मंत्रं कृत्वा हितैषिणः ॥
ततो देवा विचार्याथ स्त्रीं सृजाम इति स्वयम्
॥१८॥इत्युक्त्वोत्पादयामास ब्रह्मा हंसासनां शुभाम् ॥
चतुर्वक्त्रां चतुर्हस्तां ब्रह्माणीं रूपधारिणीम्
॥१९॥कुमारश्चैव कौमारीं मयूरवरवाहनाम् ॥
रक्तमाल्याबरधरां शक्तिकुक्कुटधारिणीम्
॥२०॥पुनः कुमारः कौमारीं पक्षींद्रवरवाहनाम् ॥
कृष्णां करालदशनां धर्मराजस्य वाहनीम्
॥२१॥दैत्यदेहप्रमथनीं दंडमुद्गरधारिणीम् ॥
ललाटलोचनां नीलां कपालकरभूषिताम्
॥२२॥सिंहाजिनधरां कृष्णां सर्वभूषणभूषिताम् ॥
कर्त्रीहस्तां खड्गहस्तां खेटखट्वांगधारिणीम् ॥
चर्मास्थिकेशवपुषं चामुंडाममृजत्प्रभुः
॥२३॥वटस्य निकटे पूर्वं निर्मिता लोकमातरः ॥
ततो लोके सुविख्याताः प्रत्यक्षा वटमातरः
॥२४॥तत्र स्नात्वा शुचिर्भूत्वा मातॄः पश्यति यो नरः ॥
स मुक्तः सर्वपापेभ्यो मातृलोके महीयते
॥२५॥सिंहनादोऽपि देवेन कृतो यत्र महामुने ॥
तत्र सिंहेश्वरो देवः सर्वदुष्कृतनाशनः
॥२६॥दर्शनात्तस्य देवस्य सिंहवत्स बली भवेत् ॥
सिंहनादे कृते यत्र जातं कण्टकितं वपुः
॥२७॥तत्र कण्टेश्वरो देवो भक्तानां सर्वदः सदा ॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा कण्टेश्वरं शिवम्
॥२८॥ग्रहभूतपिशाचेभ्यो न भयं प्राप्नुयात्क्वचित् ॥
ततस्ता मातरः सर्वा आदिष्टास्तु हरेण वै
॥२९॥अन्धासुरस्य रौद्रस्य पिबध्वं रुधिरं द्रुतम् ॥
एतस्मिन्नन्तरे व्यास प्रज्वलज्ज्वलनोपमः
॥३०॥अभयं शक्र मा भैस्त्वं यत्रोवाचेति शंकरः ॥
तत्र लिंगं समुद्भूतमभयेश्वरमुत्तमम्
॥३१॥वंदितं देवगंधर्वैः सिद्धविद्याधरोरगैः ॥
तत्र स्नात्वा शुचिर्भूत्वा सोपवासो जितेन्द्रियः
॥३२॥अर्चये द्देवदेवेशमश्वमेधफलं लभेत् ॥
भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते
॥३३॥सिंहयुक्तेन यानेन शिवलोकं स गच्छति ॥
अन्धकस्य तु या माया रक्तासुरसमुद्भवा
॥३४॥मातृभिर्युध्यमानाभिः क्षयमाशु जगाम सा ॥
देव्यः पिबन्त्यो रक्तौघं दैतेयतनुतश्च्युतम्
॥३५॥षट्तृप्तिं परमा जग्मुर्न तु तृप्ता ललाटजा ॥
हतमायः शिष्टकस्तु भिन्नशूलतनुच्छदः
॥३६॥उत्तराभिमुखं शूलमंधकोऽकर्षयद्बली ॥
संनिरुद्धो महादेहो वारितो गणपेन सः
॥३७॥महाविनायकः ख्यातस्तस्माल्लोकेऽभवन्मुने ॥
दर्शनात्तस्य देवस्य न विघ्नैः पीड्यते नरः
॥३८॥मासेमासे चतुर्थ्यां यो गणेशं पूजयेद्द्विज ॥
न तस्य विघ्नं जायेत इह लोके परत्र च
॥३९॥स्वेदबिंदुरथो तस्य ललाटादपतद्भुवि ॥
तस्मादंगारको जातो रक्तमाल्यानुलेपनः
॥४०॥आवन्त्ये विषये जातो लोहितांगो धरासुतः ॥
अंगारकस्तु रक्ताक्षो महादेवसुतस्तथा
॥४१॥नामभिर्ब्रह्मणा स्तुत्वा ग्रहमध्येऽधिरोपितः ॥
तत्र तीर्थमथोत्पन्नमंगारेश्वरमुत्तमम्
॥४२॥ब्रह्मणा स्थापितं लिंगं गणगंधर्वसेवितम् ॥
शुचिस्तत्र च यः स्नाति नरो ह्यंगारवासरे
॥४३॥दृष्ट्वांगारेश्वरं सोथ मुच्यते सर्वपातकैः ॥
चतुर्थ्यां मंगलदिने नक्ते चार्घ्यं निवेदयेत्
॥४४॥यावत्पूर्णाश्चतस्रः स्युस्तावत्कार्याः प्रयत्नतः ॥
पञ्च वै करकाः कार्यास्ताम्रपात्रेण संयुताः
॥४५॥गुडपीठमयाः कार्या रक्तवस्त्रसमन्विताः ॥
रक्तचंदनसंयुक्ता रक्तपुष्पैश्च पूजिताः
॥४६॥तिलतण्डुलसंपूर्णमेकं तत्रैव कारयेत् ॥
द्वितीयं लड्डुकैश्चैव तृतीयं पयसा तथा
॥४७॥उत्तरीभिश्चतुर्थं च पञ्चमं मूलकैस्तथा ॥
कृत्वा ह्येवं विधानेन मंत्रेणार्घ्यं निवेदयेत्
॥४८॥कुजाय लोहितांगाय ग्रहमघ्यस्थिताय च ॥
कार्तिकेयानुरूपाय सुरूपाय नमो नमः
॥४९॥शिवललाटसंभूत धरणीगर्भसंभव ॥
रूपार्थं त्वां प्रपन्नोस्मि गृहाणार्घ्यं नमोऽस्तु ते
॥५०॥ज्वलितांगारवर्णाभ स्निग्धविद्रुमभा सुर ॥
पुत्रार्थी त्वां प्रपन्नोस्मि गृहाणार्घ्यं धरात्मज
॥५१॥आवन्त्यमण्डले जातो धरण्यां च शिवेन वै ॥
पुत्रं देहि धनं देहि यशो देहि नमोऽस्तु ते
॥५२॥एवं संपूजितो भौमश्चतुर्थ्यां मुनिसत्तम ॥
भुक्त्वा भोगांस्तथा पुत्रान्प्राप्य वै क्षितिमंडले
॥५३॥मृतः स्वर्गमवाप्नोति यावदिन्द्राश्चतुर्दश
॥५४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽङ्गारकीचतुर्थी व्रतमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥