मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 50

पापनाशिनी विख्याता यथा शिप्रा पयस्विनी

सनत्कुमार उवाच

पापनाशिनी विख्याता यथा शिप्रा पयस्विनी ॥

तथाहं संप्रवक्ष्यामि समासेन परंतप

॥१॥

पुरा कृतयुगे व्यास दमनोनाम वै नृपः ॥

कीकटेषु समाख्यातो राजा परमकोपनः

॥२॥

उत्पथी सर्वधर्माणां गोब्राह्मणविनिंदकः ॥

सुरापी हेमहारी मत्सरी गुरुतल्पगः

॥३॥

प्रजासर्वस्वहर्ता च परदाराभिमर्शकः ॥

धूर्तको धूर्तंसंगी च पिशुनस्तस्कराकृतिः

॥४॥

गोग्रहः पुरभेदी च बंदी बंदिजनप्रियः ॥

कुत्सितः कोपपूर्णश्च वेदशास्त्रविवर्जितः

॥५॥

साधुसंगपरित्यागी दुष्टो दुष्टजनप्रियः ॥

कुलांगनापरित्यागी पण्यस्त्रीवृषलीपतिः

॥६॥

धर्मनिंदाकरो नित्यमधर्मे रमते मतिः ॥

न हूयंते न पूज्यंते न श्रूयंते कथा बुधैः

॥७॥

वेदा यज्ञाश्च देवानां मूर्तिः पद्भ्यां च ताड्यते ॥

एवं दुष्टतरो राजा न भूतो न भविष्यति

॥८॥

स एकदा वने घोरे मृगयावनगोचरः ॥

इतस्ततो भ्रममाणो व्याधैः परिवृतः खलः

॥९॥

न लब्ध्वा खेटकं किंचित्क्षुधार्तस्तृषितः खलः ॥

एकाकी विगतोऽसंगो महाकालवनांतिके

॥१०॥

रात्रिः समागता तत्र घोरा घोरनि षेविता ॥

वृक्षमूलमुपावृत्य शयनार्थी क्षुधार्दितः

॥११॥

तत्राश्वं विटपे बद्ध्वा स्वयमेव न्यषीदत ॥

तदैव काले वृक्षाद्वै सर्पः पपात मस्तके

॥१२॥

किमिदं कुत आश्चर्यं कृत्वा हस्तेन वारितः ॥

तेन वारयिता राजा दष्टोंऽगुष्ठे तदाऽहिना

॥१३॥

दष्टमात्रे च नृपतिर्व्यथितः क्षितिमागतः ॥

कियत्काले व्यथाविष्टो मुमोह क्षीणमंगलः

॥१४॥

एतत्क्षणात्प्रेतभूतो घोरे नरकसंचये ॥

यमदूतैस्ताड्यमानो विविधास्त्रैः स्वकर्मजैः

॥१५॥

हर्षिताश्च गणाः सर्वे यमराजस्य किंकराः ॥

बद्ध्वा पाशैश्च तं निन्युः पापिष्ठं यममंदिरे

॥१६॥

एतस्मिन्नंतरे व्यास क्रव्यादैः खादितं शवम् ॥

किंचिच्छेषतरं प्रातर्वायसेनाभिलक्षितम्

॥१७॥

तत्र गत्वानयन्मांसं तुंडेन वियदुद्गतः ॥

ततोऽन्यैर्वायसैर्भग्नो भ्राम्यमाण इतस्ततः

॥१८॥

तत्राटतो हि यत्रास्ते दिव्या शिप्रा पयस्विनी ॥

किंचित्कर्मविपाकेन वायसास्यगतं पलम्

॥१९॥

पतितं वै जले तस्याः शिप्रायास्तस्य काय जम् ॥

तेन पुण्यप्रभावेन शिवोऽजायत तत्क्षणात्

॥२०॥

त्रिनेत्रोथ जटाजृटी व्याघ्रांबरपरीवृतः ॥

शूलहस्तो वृषारूढो भालचंद्रो ह्युमापतिः

॥२१॥

इत्याश्चर्यमयं रूपं दृष्ट्वा दूताश्च धर्षिताः ॥

तद्गणैस्ताडिता भग्ना धर्मराज्ञे शशंसिरे

॥२२॥

श्रूयतां भो महाराज धर्मराज नमोस्तु ते ॥

दूतानां यद्वचो रम्यं बह्वाश्चर्यमयं परम्

॥२३॥

कीकटाधिमतिर्मंदः पापिष्ठो वृषलीपतिः ॥

दमनो नाम राजाभूत्समस्ते क्षितिमंडले

॥२४॥

यानि कानि च पापानि ब्रह्महत्यासमानि च ॥

तानि सर्वाणि तेनापि कृतानि भुवि सत्तम

॥२५॥

मर्यादाभेदको मूढो वर्णाश्रमसुधर्मिणाम् ॥

कुसंगी द्यूतकोन्मादी बहुव्यंगभरः खलः

॥२६॥

यमदंडपरः पापी अस्माकं हर्षवर्धनः ॥

स कथं शिवरूपी स्यात्किमाश्चर्यमतः परम्

॥२७॥

यावंतः पतिताः पूर्वे पापिनः सर्व एव हि ॥

कृष्णेन तारिताः सर्वे ब्रह्मपुत्रार्थिना तदा

॥२८॥

तदाप्रभृति सर्वाणि कुंडानि नरकस्य वै ॥

शुष्काणि चैव दृश्यंते ग्रीष्मांते वै ह्रदा यथा

॥२९॥

न चैवार्तरवं किंचिच्छ्रूयते तव मंदिरे ॥

अस्माकं जीवनं नास्ति किमुपायं वदस्व नः

॥३०॥

एक एवागतो लोके वृत्तिदो नो यमाधिप ॥

सोऽपि शिवत्वमापन्नः कस्मान्नो जीव्यते कथम्

॥३१॥

धर्मराजस्तदाश्रुत्य किंकराणां परं वचः ॥

चिरं ध्यात्वा स्वकानूचे देशकालोचितं वचः

॥३२॥

धर्मराज उवाच

श्रूयतां भो गणाः सर्वैः श्रुतिरेकाग्रमानसैः ॥

येन पुण्यप्रभावेन पापिष्ठः शिवतां गतः

॥३३॥

भुवि पुण्यतमे देशे महाकालवने शुभे ॥

शिप्रानाम सरिच्छ्रेष्ठा सर्वपापहरा परा

॥३४॥

येषां शिप्रोदक स्पर्शो जायते भुवि किंकराः ॥

न तेषां पातकं किंचिन्मृतः शिवपुरं व्रजेत्

॥३५॥

मनसा वपुषा वाचा पापानि विविधानि च ॥

तत्क्षणात्प्रलयं यांति शिप्रासरिन्निषेवणात्

॥३६॥

शिप्राशिप्रेति यो ब्रूते यत्र कुत्रापि मानवः ॥

स एव शिवतां याति न जाने स्नानजं फलम्

॥३७॥

यत्र कीटपतंगाश्च शिप्रावारिचराश्च ये ॥

मृताः शिवपुरं यान्ति शिप्रानीरनिषेवणात्

॥३८॥

कृत्वान्यत्र महापापं येऽन्ते शिप्रातटं श्रिताः ॥

महापातकिनोऽप्येते मृता यांति शिवालयम्

॥३९॥

माधवे मासि संप्राप्ते निमज्जंति नरोत्तमाः ॥

न तेषां निरयं किंचिच्छिवरूपाश्चरंति ते

॥४०॥

वायसेनाहृतं मांसं तस्य राज्ञः कृतागसः ॥

शिप्रागाधजले क्षिप्तं का तत्र परिदेवना

॥४१॥

वापीकूपतडागादि अधिकाधिकसत्फलम् ॥

तस्माद्दशगुणं पुण्यं नदीषु उपजायते

॥४२॥

तस्माद्दशगुणा तापी गोदा पुण्या ततोधिका ॥

तस्माद्दशगुणा रेवा गंगा पुण्या ततोऽधिका ॥

तस्माद्दशगुणा शिप्रा पवित्रा पापनाशिनी

॥४३॥

दमनस्य शरीरस्य मांसं शिप्रासमागतम् ॥

तेन पुण्यप्रभावेन शिवरूपधरोऽभ वत्

॥४४॥

ईदृशा च नदी रम्या अवन्त्यां भुवि वर्तते ॥

वांछंति देवताः सर्वास्तस्या दुर्लभदर्शनम्

॥४५॥

धर्मराजवचः श्रुत्वा गणा विस्मय मागताः ॥

मनसा च निरातंकाः शिप्रां शरणमागताः

॥४६॥

सनत्कुमार उवाच

तदाप्रभृति विख्याता शिप्रेयं पापनाशिनी ॥

गीयते च पुराणेषु यस्या माहात्म्यमुत्तमम्

॥४७॥

दमनस्य च निर्मुक्तिः शिप्रामाहात्म्यमुत्तमम् ॥

यमदूतानां संवादं श्रुत्वा मुक्तिर्न संशयः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्ये पञ्चाशत्तमो ऽध्यायः ॥ ५० ॥