मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २६

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 26

मंदाकिनीक्षेत्रमाहात्म्यवर्णनम्

व्यास उवाच

गुह्यस्थाने पवित्राणि कीर्तितानि त्वया मुने ॥

प्रमाणं कथयस्वाद्य महाकालवनस्य मे

॥१॥

सनत्कुमार उवाच

यथाश्रुतं मया पूर्वं गदतो ब्रह्मणः स्वयम् ॥

तत्तेऽहं संप्रवक्ष्यामि शृणु त्वं गदतो मम

॥२॥

योजनस्यैव पर्यंतं चतुर्दिक्षूपशोभितम् ॥

सौवर्णैस्तोरणैश्चैव मुक्तादामविलंबिभिः

॥३॥

द्वाराणि तत्र शोभंते कांचनैः कलशैः स्थितैः ॥

सितपद्ममुखैर्द्वारैरनेकमणिमंडितैः

॥४॥

महेश्वरप्रयुक्ताश्च द्वाराध्यक्षा महाबलाः ॥

द्वारेषु तेषु शोभंते लोकानुग्रहकारकाः

॥५॥

पिंगलेशः स्थितः पूर्वे बालरूपो विभावसुः ॥

तीर्थस्याभिमुखो गौरो गुरुर्गणैरथानुगः

॥६॥

दक्षिणेऽपि महायोगी कायावरोहणेश्वरः ॥

वित्तेशः पश्चिमे द्वारे क्षेत्रस्याभिमुखः स्थितः

॥७॥

नियुक्तो वै महेशेन वारुणीं दिशमास्थितः ॥

उत्तरां दिशमाश्रित्य स्थितश्चैवोत्तरेश्वरः

॥८॥

साधकः सर्वकार्याणामादिष्टः शंकरेण सः ॥

मानवा ये वसंत्यत्र क्षेत्रमध्ये सुधार्मिकाः

॥९॥

मृता रुद्रपुरं यांति विमानैः सार्वकामिकैः ॥

कृष्णपक्षे चतुर्दश्यामथ वार्केन्दुसंगमे

॥१०॥

पंचेशानीं नमस्कृत्य प्रतिलोमानु लोमतः ॥

उपोषितो दिनैकेन ध्यायमानो महेश्वरम्

॥११॥

मुच्यते सर्वपापैस्तु बहुजन्मकृतैरपि ॥

एवं च विप्र यो यात्रां पंचेशानीं समारभेत्

॥१२॥

अनेनैव स्वदेहेन रुद्रलोकं स गच्छति ॥

पंचेशानीमथान्यां ते सुखेन क्रियते यथा

॥१३॥

तथा शृणु प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ॥

प्रातः स्नात्वा रुद्रसरस्येकादश्यां समाहितः

॥१४॥

श्राद्धं कृत्वा महाकालं नत्वा चेशानमीश्वरम् ॥

पिंगलेशं ततः प्राप्य स्नात्वा श्राद्धं समाचरेत्

॥१५॥

उपगम्य ततो देवं गणेशं पिंगलेश्वरम् ॥

गन्धैः पुष्पैश्च धूपैश्च तमभ्यर्च्य निवर्तयेत्

॥१६॥

महाकालेश्वरं प्राप्य भूयः स्नातो जितेंद्रियः ॥

अर्चयेद्देवदेवेशं स्वयंभुवं सनातनम्

॥१७॥

ईशाने गमयेद्रात्रिं कृत्वा वै नक्तभोजनम् ॥

ध्यायमानो महेशानं भूमौ विन्यस्य विग्रहम्

॥१८॥

द्वादश्यां पूर्ववत्सर्वं प्रातः स्नात्वा व्रजेन्नरः ॥

कायावरोहणं गत्वा पिंगलेश्वरवद्यजेत्

॥१९॥

त्रयोदश्यामथाप्येवं बिल्वेशं पश्चिमेऽर्चयेत् ॥

चतुर्दश्यां तथा सौम्ये पूजयेदुत्तरेश्वरम्

॥२०॥

अमावास्यां शुचिः स्नातो महाकालेश्वरं यजेत् ॥

गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा

॥२१॥

गीतनृत्यादिकं कृत्वा प्रणिपत्य क्षमापयेत् ॥

यात्रां कृत्वा तु पूर्वोक्तां ततो निजगृहं व्रजेत्

॥२२॥

ब्राह्मणान्भोजयेत्पञ्च शिवभक्तिपरायणान् ॥

प्रणम्य देवतारूपान्महाकालोषितान्द्विजान्

॥२३॥

पूजयित्वा हिरण्येन सूक्ष्मवस्त्रगुणैर्नवैः ॥

रथं पिंगलके दद्याद्गजं कायावरोहणे

॥२४॥

दत्त्वा बिल्वेश्वरे चाश्वं वृषं दत्त्वा तु चोत्तरे ॥

धेनुं दत्त्वा महाकाले सर्वोपस्करसंयुतम्

॥२५॥

य एवं कुरुते व्यास तस्य पुण्यफलं शृणु

॥२६॥

पितृकैर्मातृकैः सार्धं कुलैः स दिवि मोदते ॥

अप्सरोगीतनृत्याद्यैर्विमानैः सार्वकामिकैः

॥२७॥

इति पंचेशानीयात्रामाहात्म्यम् ॥

यस्तु प्रदक्षिणां कुर्यान्नियमेन कुशस्थलीम् ॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा

॥२८॥

यस्तु पद्मावतीं पश्येद्दर्चयेत्पंकजैर्नरः ॥

दत्त्वा धूपं सनैवेद्यं मृतो ब्रह्मपुरं व्रजेत्

॥२९॥

स्वर्णशृंगाटिकां व्यास कुसुमैः स्वर्णसंनिभैः ॥

समभ्यर्च्य महाभक्त्या स याति शिवमन्दिरम्

॥३०॥

अवन्तिनीं तु यः पश्येद्देवीं त्रैलोक्यविश्रुताम् ॥

कामिकेन विमानेन याति पौरंदरं पुरम्

॥३१॥

अर्चयेत्पंकजैर्भक्त्या यो देवीममरावतीम् ॥

अमरैः सह संहृष्टो मोदते दिवि सर्वदा

॥३२॥

देवीमुज्जयनीं भक्त्या यः पश्यति समाहितः ॥

सर्वैश्वर्यसमायुक्तो रुद्रलोके महीयते

॥३३॥

विशालां चैव यः पश्येद्रुद्रभक्त्या समाहितः ॥

मुच्यते त्रिविधैः पापैर्नात्र कार्या विचारणा

॥३४॥

इति श्रीकल्पसप्तकमहिमा ॥

शृणु व्यास महातीर्थं पुरा यद्ब्रह्मणार्चितम् ॥

अकूरेश्वरमित्याख्यं यत्र सिद्धः पितामहः

॥३५॥

तत्र देवार्चनं कृत्वा कृष्णाष्टम्यामुपोषितः ॥

जितेंद्रियः शुचिर्दांतो रुद्रलोकमवाप्नुयात्

॥३६॥

न वदेत्केनचित्सार्धं नरः प्रातर्गृहे स्थितः ॥

दृष्ट्वाऽक्रूरेश्वरं देवं हेमदानफलं लभेत्

॥३७॥

इत्यक्रूरेश्वरमाहात्म्यम् ॥

यस्तु पश्यति ब्रह्माणं शुचिः स्नातो जितेंद्रियः ॥

मुच्यते पातकाद्धोराद्ब्रह्मलोकं मृतो व्रजेत्

॥३८॥

पद्मासनस्थितो ब्रह्मा ध्यायमानः परं पदम् ॥

वसिष्ठाद्यैर्मुनिवरैर्विज्ञप्तः कर्मसंभवान्

॥३९॥

ऋषय ऊचुः

आदित्या मरुतः साध्यास्तथा चैवाश्विनावुभौ ॥

पितरो ये च लोकानां पूज्यंते भुवि मानवैः

॥४०॥

ग्रहार्कतारका यक्षा दिग्गजाश्च्यानलानिलाः ॥

अमी देवा वयं सर्वे त्वदंशाः परिपठ्यते

॥४१॥

कथं ध्यायसि देवेश एतत्सर्वं ब्रवीहि नः

॥४२॥

ब्रह्मोवाच

द्वे विद्ये तत्त्वरूपे ये परा चैवापरा तथा ॥

ते द्वे च मम रूपे द्वे नित्ये मूर्तात्मिके मम

॥४३॥

ऋषय ऊचुः

पितामह कथं विद्मो भवंतं परमं विभुम् ॥

येनास्माकं परा सिद्धिर्जायते तव दर्शनात्

॥४४॥

ब्रह्मोवाच

माहेश्वरं परं क्षेत्रं कुशस्थलीति शब्दितम् ॥

यज्ञार्थिना मया देवः श्रीकंठः पार्वती पतिः

॥४५॥

याचितस्तेन देवेन उक्तोऽहं परमेष्ठिना ॥

समंताद्योजनं साग्रं क्षेत्रमेतत्पितामहः

॥४६॥

मया दत्तं तव विभो महाकालवनादृते ॥

वारितः स मया तत्र वने गुप्तो हि रोषतः ॥

कपर्दिना च तत्रोक्तो यास्यामो न तवांतिकम्

॥४७॥

आरब्धो वै ततो यज्ञो नारायणपरिग्रहात् ॥

ज्ञातस्तथापि मे यज्ञो देवदेवेन शंभुना

॥४८॥

यज्ञवाटं कपर्दीशस्ततो भिक्षार्थमागतः ॥

याज्ञिकैः सोऽथ तत्रोक्तो मात्र तिष्ठ जुगुप्सितः

॥४९॥

कपर्दिना च ते तत्र उक्ता यास्याम्यहं पुनः ॥

एवमुक्त्वा कपालं स भूमौ संस्थाप्य तत्र हि

॥५०॥

स्नातुं नदीं ययौ शिप्रां कपर्दी परमेश्वरः ॥

उक्तं तस्मिन्गते शिप्रां कपर्दिनि द्विजातिभिः

॥५१॥

कथं हि क्रियते होमः कपाले सदसि स्थिते ॥

अकपालानि शौचानि पुरा प्रोक्तं मनीषिभिः

॥५२॥

तत्कपालं सदस्येन उक्षिप्तं पाणिना स्वयम् ॥

तस्मिन्क्षिप्तेऽभवच्चान्यत्पुनः क्षिप्तेऽभवत्पुनः ॥

एवं नांतं कपालानां प्राप्यते मुनिसत्तमाः ॥

रुद्रं कपर्दिनं मत्वा शरणं तं समागताः

॥५४॥

ततः स दर्शनं प्रादाद्भक्त्या तुष्टो महेश्वरः ॥

कपालपाणिर्भगवान्मामुवा च ततः प्रभुः

॥५५॥

वरं वरय भो ब्रह्मन्यत्ते मनसि वर्तते ॥

नास्त्यदेयं मया तुभ्यं सर्वं दास्यामि तत्त्वतः

॥५६॥

ब्रह्मोत्तरमिदं स्थानं मया दत्तं चतुर्मुख ॥

कारयस्व यथाकामं यथावर्णचतुष्टयम्

॥५७॥

एवं वदंतं वरदमीशानं परमेश्वरम् ॥

तथेति चोक्त्वा सदसि न मयाऽन्यो वरो वृतः

॥५८॥

उज्जयिनीति वै नाम कुशस्थल्या निवेशितम् ॥

कुंडं मंदाकिनी तत्र मया कृतमनंतरम्

॥५९॥

तत्र विप्राः कृते स्नाने सर्वपापैः प्रमुच्यते ॥

तस्यां संस्थापयेद्दिक्षु चतुरोऽर्थघटाञ्छुभान्

॥६०॥

सतिलास्तान्सवस्त्रांश्च सफलान्मंडकैः सह ॥

कार्तिक्यामथ माघ्यां च चातु र्विद्ये प्रदापयेत्

॥६१॥

प्रथमं च ऋग्वेदाय यजुर्वेदाय दक्षिणम् ॥

पश्चिमं सामवेदाय अथर्वणे तथोत्तरम्

॥६२॥

वेदानुद्दिश्य चाप्येवं प्रीयतां मे पितामहः ॥

कृते चैवं हि यत्पुण्यं तच्छृणुध्वं समाहिताः

॥६३॥

सर्वतीर्थेषु यत्पुण्यं मंदाकिन्यां तथा भवेत् ॥

सहस्रगुणितं स्नानं जाप्यं लक्षगुणं भवेत्

॥६४॥

दानं कोटिगुणं ज्ञेयं मंदाकिन्यां न संशयः ॥

कौमुदे मासि संप्राप्ते गोदानं तत्र कारयेत्

॥६५॥

घृतधेनुं च कार्तिक्यां माघ्यां तिलमयीं तथा ॥

जलधेनुं तु वैशाख्यां दत्त्वा मुच्येत पातकैः

॥६६॥

वाचिकं मानसं पापं कर्मजं यच्च दुष्कृ तम् ॥

विनश्येत्किल्बिषं सर्वं मंदाकिन्यास्तु दर्शनात्

॥६७॥

मंदाकिनीसमं तीर्थं पृथिव्यां नैव दृश्यते ॥

यस्य दर्शनमात्रेण ब्रह्मलोके स मोदते

॥६८॥

मंदाकिन्यां तु यः स्नानं कृत्वा श्राद्धं प्रदास्यति ॥

दर्शे च पूर्णिमायां वा पितृलोके स मोदते

॥६९॥

पितामहं तु यो भक्त्या नित्यं पश्यति मानवः ॥

अश्वमेधसहस्रेण राजसूयशतेन च

॥७०॥

युज्यते नात्र संदेहः सत्यमेतत्तपोधनाः ॥

ततो मन्वंतरेऽतीते प्राप्ते वैवस्वते पुनः

॥७१॥

तेनैवोन्मत्तवेषेण ऊर्ध्वशेषो महेश्वरः ॥

प्रविष्टो ब्रह्मणः सत्रे दृष्टस्तैर्द्विज सत्तमैः

॥७२॥

ते ब्राह्मणाः शपंति स्म निन्दां कुर्वंति चापरे ॥

अपरे पांशुभिः शिश्नं घ्नंति तस्याशपन्द्विजाः

॥७३॥

लोष्ठैर्लगुडकैश्चा न्ये घ्नंति तं बलगर्विताः ॥

जटामुकुटकं केचिद्धृत्वा कर्षंति चापरे

॥७४॥

पृच्छंति व्रतचर्यां वै केन व्रतं च दर्शितम् ॥

अत्र चैव स्त्रियः संति कथमेतत्त्वया कृतम्

॥७५॥

ब्रह्मणा चेदृशी चर्या विष्णुना वा कृता स्वयम् ॥

गिरिशेनापि देवेन केनेदं दुष्कृतं कृतम्

॥७६॥

मा विडम्बय देवेशं वध्यो हि नस्त्वमद्य वै ॥

एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शंकरः

॥७७॥

स्मितं कृत्वाऽब्रवीत्सर्वान्ब्राह्मणान्परमेश्वरः ॥

किं यूयं मामभि हथ ह्युन्मत्तं नष्टचेतसम्

॥७८॥

यूयं कारुणिकाः सर्वे मैत्रभावे व्यवस्थिताः ॥

तमेवं वादिनं देवं जाल्मरूपधरं हरम्

॥७९॥

मायया तस्य देवस्य मोहितास्ते द्विजातयः ॥

पुनः कपर्दिनं जघ्नुः पाणिपादेन वै द्विजाः

॥८०॥

ताड्यमानस्तु तैर्विप्रैः परं कोपमुपागमत् ॥

ततो देवेन ते शप्ता यूयं वेदविवर्जिताः

॥८१॥

ऊर्ध्वजूटाः सलगुडाः परदारोपजीविनः ॥

रता द्यूते च वेश्यायां पितृमातृविवर्जिताः

॥८२॥

न पुत्रे पितृ वित्तं च विद्या वापि भविष्यति ॥

शेषो मम हतो यैश्च ते सर्वेंद्रियवर्जिताः

॥८३॥

रौद्रां भिक्षां तु भिक्षंतः परपिंडोपजीविनः ॥

आत्मानं वर्णयिष्यंति धनधान्यविवर्जिताः

॥८४॥

यैश्च तत्र कृता विप्रैर्हन्यमाने कृपा मयि ॥

तेषां धनं च पुत्राश्च दासीदासादयश्च वै

॥८५॥

कुलोत्पन्नाश्च वै नार्यो भविष्यंति वरान्मम ॥

एवं शापं वरं दत्त्वा गतोंऽतर्धानमीश्वरः

॥८६॥

ततो द्विजा गते देवे मत्वा तं शंकरं विभुम् ॥

अन्वेषयंतो यत्नेन महाकालवनं गताः

॥८७॥

स्नात्वा सरसि रुद्रस्य जपतः शतरुद्रियम् ॥

जाप्यावसाने तान्देवोऽशरीरिण्या गिराऽब्रवीत्

॥८८॥

अनृतं न मया प्रोक्तं स्वैरेष्वेपि कुतः सुखम् ॥

भूयोऽप्यनुग्रहं विप्रा युष्माकं करवाण्यहम्

॥८९॥

शांता दांताश्च ये विप्रा भक्तिमंतो मयि स्थिताः ॥

न तेषां छिद्यते वंशो न धनं न च संततिः

॥९०॥

अग्निहोत्ररता ये च भक्तिमंतो जनार्दने ॥

पूजयंति च ब्रह्माणं तेजोराशिं दिवाकरम्

॥९१॥

नाशुभं विद्यते तेषां येषां सख्ये स्थिता मतिः ॥

एतावदुक्त्वा देवेशस्तूष्णीमासीज्जगत्प्रभुः

॥९२॥

एवं शापं वरं लब्ध्वा देवदेवान्महेश्वरात् ॥

आजग्मुः सहिताः सर्वे यत्र देवः पितामहः

॥९३॥

विरंचिमथ ते जाप्यैस्तोषयन्तोऽग्रतः स्थिताः ॥

तुष्टस्तानब्रवीद्ब्रह्मा मत्तोऽपि व्रियतां वरः

॥९४॥

ब्रह्मणस्तेन वाक्येन तुष्टाः सर्वे द्विजोत्तमाः ॥

को वरो याच्यतां विप्राः परितुष्टे पितामहे

॥९५॥

एके तत्राब्रुवन्विप्रा वेदान्वै वृणवामहै ॥

ततोऽन्ये च धनं धान्यं व्रियतामविशंकितैः

॥९६॥

अन्ये प्राहुः किमस्माकं धनैस्तुष्टे पितामहे ॥

अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च

॥९७॥

शांता आढ्याश्च लोकाश्च वरदानाद्भवंतु नः ॥

एवं प्रजल्पतां तत्र विप्राणां कोप आविशत्

॥९८॥

परस्परं वरार्थेऽथ युद्धं कर्तुं समुद्यताः ॥

युध्यंते सायुधाः केचित्केचित्तत्रोपसर्पकाः

॥९९॥

केचिद्विप्रा उदासीनाः केचिद्वै मौनमास्थिताः ॥

दृष्ट्वैवं भगवान्प्राह विप्रान्युद्धं प्रकुर्वतः

॥१००॥

यस्मात्कुमंत्रिता विप्राः शालाया बाह्यसंस्थिते ॥

तस्मादामूलतो विप्रा गुल्मे युद्धोपसर्पकाः

॥१॥

उदासीनस्तु यो गुल्मो वृत्तिहीनो भविष्यति ॥

वेदास्तस्य भवेयुर्वै यस्त्वस्ति मौनसंस्थितः

॥२॥

तृतीयः सायुधो गुल्मो योद्धुकामस्तु यः स्थितः ॥

परदारेषु वेश्यायां द्यूते चौर्ये सदा रतः

॥३॥

चतुर्विधः स वै विप्रो वृत्तिहीनो भविष्यति ॥

एवमुक्त्वा ययौ ब्रह्मा वैराजं भवनोत्तमम्

॥४॥

एवं मे परमं क्षेत्रं मुनयोऽवंतिमंडले ॥

यां देवनगरीं लोके प्रवदन्तीह मानवाः

॥५॥

तस्यां तु ये द्विजाः शांता वसंति क्षेत्रवासिन ॥

न तेषां दुर्लभं किंचिन्म म लोके भविष्यति

॥६॥

कोलामुखे कुरुक्षेत्रे नैमिषे पुष्करेषु च ॥

वाराणस्यां प्रभासे च तथा बदरिकाश्रमे

॥७॥

गंगाद्वारे प्रयागे च गंगासा गरसंगमे ॥

रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने

॥८॥

तीर्थेष्वेतेषु क्षेत्रेषु या सिद्धिर्द्वादशाब्दिका ॥

प्राप्यते मानवैर्लोके सा मासेनेह लभ्यते ॥

उज्जयिन्यां न संदेहो ब्रह्मचर्ये मनो यदि

॥९॥

तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् ॥

सदाभिरुचितं मह्यमेतद्वै मुनिसत्तमाः

॥११०॥

मंदाकिन्यास्तु माहात्म्यं क्षेत्रस्योत्पत्तिरुत्तमा ॥

भूयः किमन्यदिच्छास्ति श्रोतुं वै द्विजसत्तमाः

॥११॥

सनत्कुमार उवाच

एतत्ते ब्रह्मणो वाक्यं श्रुत्वा व्यास तथाविधम् ॥

वसिष्ठाद्याश्च मुनयः परं ध्यानमथो गताः

॥१२॥

ध्यात्वा तु सुचिरं कालं तत्र वासे मनो दधुः ॥

साग्निहोत्राः सपत्नीका गताश्चावंतिमंडले

॥१३॥

महाकालवनं दृष्ट्वा शिप्रां चैव महानदीम् ॥

श्मशानमूषरं चैव नदीं गन्धवतीं तथा

॥१४॥

कोटितीर्थमुपस्पृश्य चकुर्वासं च तत्र वै ॥

स्मृत्वा तद्ब्रह्मणो वाक्यं रुचिस्तेषां तदाऽभवत्

॥१५॥

अरुन्धत्या वसिष्ठश्च गमनं प्रति नोदितः ॥

उवाच तां महात्मासौ स्वां भार्यां मुनिसत्तमाः

॥१६॥

महाकालः सरिच्छिप्रा गतिश्चैव सुनिर्मला ॥

उज्जयिन्यां विशालाक्षि वासः कस्य न रोचते

॥१७॥

स्नानं कृत्वा नरो यस्तु महानद्यां हि दुर्लभम् ॥

महाकालं नमस्कृत्य नरो मृत्युं न शोचयेत्

॥१८॥

मृतः कीटः पतंगो वा रुद्र स्यानुचरो भवेत् ॥

यत्रैषा श्रूयते मुक्तिः कथं सा त्यजते मया

॥१९॥

एवं प्रजल्प्याथ मुनिप्रधानस्तत्रैव वासं सहसा चकार ॥

वनस्य व्युष्टिं परिकीर्तयंस्तु स्थितः सहैवात्र मुनिप्रधानैः

॥१२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षे त्रमाहात्म्ये मंदाकिनीक्षेत्रमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥