मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २५

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 25

चण्डीश्वरादितीर्थमाहात्म्यवर्णनम्

सनत्कुमार उवाच

शुक्रेश्वरं समभ्यर्च्य सितपुष्पैर्विलेपनैः ॥

प्रणिपत्य ततो भक्त्या रुद्रलोके महीयते

॥१॥

भीमेश्वरं नरो दृष्ट्वा भक्त्या संपूज्य यत्नतः ॥

न भयं लभते व्यास रणे रात्रौ जलेऽनले

॥२॥

गर्गेश्वरं स्नापयित्वा तिलतैलेन मानवः ॥

बिल्वपत्रैस्तु संपूज्य धर्मवृद्धिमवाप्नुयात्

॥३॥

उपोषितश्चतुर्दश्यां तिलप्रस्थतिलांभसा ॥

स्नापयित्वा तिलैरिष्ट्वा सदा सौख्यमवाप्नुयात्

॥४॥

गोसहस्रं नरो दत्त्वा भावं कृत्वा विशेषतः ॥

भवबंधविनिर्मुक्तो रुद्रलोकं स गच्छति

॥५॥

कामेश्वरं समभ्यर्च्य कुंकुमादिविलेपनैः ॥

कामिकेन विमानेन याति स्वर्गं न संशयः

॥६॥

चूडामणिं नमस्कृत्य नवम्यां कार्तिके सिते ॥

न वियोनिं नरो याति धर्मबुद्धिः स जायते

॥७॥

चंडीश्वरं समभ्यर्च्य कृष्णाष्टम्यामुपोषितः ॥

निर्माल्योल्लंघनोत्थेन न शोकेनापि लिप्यते

॥८॥

इत्यादितीर्थानि महेश्वरस्य पुण्यानि सर्वाणि नरोऽभिगम्य ॥

विशुद्धचित्तो भुवि भावितात्मा प्रयाति शंभोर्भुवनं सुरम्यम्

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शुक्रेश्वरभीमेश्वर गर्गेश्वरकामेश्वर चूडामणीश्वर चण्डीश्वरादितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥

छ