मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ३५

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 35

खण्डेऽवन्तीक्षेत्रमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनम्

सनत्कुमार उवाच

स्वर्णक्षुरे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥

कपिलाशतदानस्य फलमप्यधिकं भवेत्

॥१॥

वाप्यां पितामह स्यापि यः स्नायाद्विजितेंद्रियः ॥

हंसयुक्तेन यानेन ब्रह्मलोकं स गच्छति

॥२॥

तैलाभिधानमातॄणां रात्रौ यच्छति यो बलिम् ॥

तस्य सिद्धिर्भवे त्सद्यो मृतः शिवपुरं यजेत्

॥३॥

विष्णुवाप्यां नरः स्नात्वा चैत्रे वा फाल्गुनेऽथवा ॥

जागरं यस्तु कुर्वीत सोपवासो जितेन्द्रियः ॥

मुच्यते सर्व पापेभ्यो विष्णुलोकं स गच्छति

॥४॥

अभयेश्वरदेवस्य भक्त्या नियतमानसः ॥

पूजाबन्धमथो दृष्ट्वा रुद्रलोकं स गच्छति

॥५॥

लोके तु जायते दाता सार्वभौमो महीपतिः ॥

यस्त्वगस्त्वेश्वरं गच्छेदेकचित्तो नरो मुने

॥६॥

दृष्ट्वागस्त्येश्वरं देवं सोपवासो जितेंद्रियः ॥

अगस्त्योदयवेलायां मुच्यते सर्वपातकैः

॥७॥

कृत्वागस्त्यं च सौवर्णं रौप्यं वाथ स्वशक्तितः ॥

पञ्चरत्नसमायुक्तं वस्त्रेण च समन्वितम्

॥८॥

तत्कालीनैः फलैः पुष्पैः पूजनीयो विधानतः ॥

विधानं तस्य वक्ष्यामि चातुर्वर्ण्ये द्विजोत्तम

॥९॥

सप्तधान्यानि मुख्यानि तावन्त्येव फलानि च ॥

एकं धान्यं फलं चैकमग्रे त्याज्यं भवेन्मुने

॥१०॥

यावद्वै सप्त वर्षाणि व्रतमेवं समाचरेत्

॥११॥

अर्घ्यमन्त्रः ॥

काशपुष्पप्रतीकाश वह्निमारुतसं भव ॥

मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते

॥१२॥

दत्तेऽर्घे यत्फलं व्यास तद्वै ह्येकमनाः शृणु ॥

पुत्रवान्धनवांश्चैव जायते नात्र संशयः

॥१३॥

मृतः स्वर्गमवाप्नोति संपन्ने जायतेकुले ॥

मर्त्यलोकं पुनः प्राप्य महायोगीश्वरो भवेत्

॥१४॥

यश्चैतच्छृणुयान्नित्यं पठेद्वा सुसमाहितः ॥

सर्वपापविनिर्मुक्तो मुनिलोके स मोदते

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥