नीलगंगामाहात्म्यवर्णनम्
व्यास उवाच
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥
नीलगंगा कदा ब्रह्मञ्छिप्राकुंडे समागता
॥१॥सनत्कुमार उवाच
शृणु व्यास महातीर्थं सर्वतीर्थफल प्रदम् ॥
नीलगंगां नरः स्नात्वा संगमेश्वरमर्चयेत्
॥२॥दुःसंगसंभवा दोषा न भवंति कदाचन ॥
एकदा ब्रह्मलोके वै गंगा त्रिपथगा नदी
॥३॥गता पुनंती त्रील्लोकान्नीलवासा शुचार्दिता ॥
भगवन्किमिदं जातं पातकं मे कृतं पुरा
॥४॥दुष्टाचारापराधेन येनेमां प्रापिता दशाम् ॥
सर्वलोकेषु यत्किंचिजनानां पातकं भुवि
॥५॥तत्सर्वं तिष्ठति मयि सर्वेषामपि देहिनाम् ॥
तेनाहं वै भराक्रांता नो शक्या चलितुं धराम्
॥६॥नीलभासा विवर्णा च सर्वधर्मबहिर्मुखा ॥
यत्किंचित्क्रियते कर्म शुभं वा यदि वाऽशुभम्
॥७॥मयि त्यक्त्वा पुनंतीह जंतवः सर्वशोऽमलाः ॥
तिष्ठंति पुण्यलोकेषु भुक्तिमुक्तिप्रदेषु च
॥८॥अस्माकं च महत्कष्टं जातं धातः परं मलम् ॥
न हि शर्म न वै शांतिर्न निद्रा न च निर्वृतिः
॥९॥न लोके च स्थितिर्मेद्य पापिष्ठायाः सनातनी ॥
दुष्टसंगोद्भवैदोंषैः प्लाविताहं जगद्गुरो
॥१०॥किं करोमि क्व गच्छामि येन शांतिर्भवेन्मम ॥
किं तपः किं च दानं मे किं तीर्थं किं च साधनम्
॥११॥येनाहं पापलिप्तांगी पुनः प्रकृतिमाप्नुयाम् ॥
एवं ज्ञात्वा महायो गिन्यथा योग्यं तथा कुरु
॥१२॥ब्रह्मोवाच
श्रूयतां भोः सरिच्छ्रेष्ठे कारणं पापनाशनम् ॥
महाकालवने रम्ये पुरी ह्येषा ऽमरावती
॥१३॥तत्र शिप्रा सरिच्छ्रेष्ठा वर्तते भुवि पावनी ॥
तस्या दर्शनमात्रेण सर्वपापक्षयो भवेत्
॥१४॥तत्र गच्छ महाभागे सद्यश्चात्म विशुद्धये ॥
ब्रह्मणेति समाख्यातं श्रुत्वा गंगा सरिद्वरा
॥१५॥तमभिज्ञाय संप्राप्ता महाकालवनं शुभम् ॥
पुष्करस्याग्निभागे च यत्र देवो मरुत्सुतः
॥१६॥विंध्यस्य चोत्तरे भागे अंजन्याश्रममुत्तमम् ॥
सा पुत्रेण तपस्तेपे पवित्रा ब्रह्मचारिणी
॥१७॥पतिव्रताभिः सर्वाभिः पतिभिर्ब्रह्मचारिभिः ॥
देवांगनाभिर्बहुभिः क्रीडद्भिर्बालकुंजरैः
॥१८॥सरसीफुल्लकल्हारैर्मत्तालिकुलनादितैः ॥
निर्वैरजंतुभिः सेव्यं ब्रह्मर्षिगणसे वितम्
॥१९॥मनोह्रादकरं पुण्यं पवित्रं पापनाशनम् ॥
तत्र प्रवेशमात्रेण नीलवासाः सरिद्वरा
॥२०॥शुक्लवासाऽभवत्सद्यो नष्टपापमला ऽशुभा ॥
शरच्चंद्रनिभाकारा धूतपापा पयस्विनी
॥२१॥तत्रैव चाश्रमं चक्रे मनःसंहर्षकारणम् ॥
तत्प्रभृति समाख्यातं सर्वलोकेषु पुण्यदम्
॥२२॥नीलगंगेति वै व्यास तीर्थं किल्विषनाशनम् ॥
अस्मिंस्तीर्थे नरः स्नात्वा हनुमंतमथार्चयेत्
॥२३॥तस्य सिद्धिः करगता भविष्यति न संशयः ॥
आश्विने मासि संप्राप्ते कृष्णपक्षे समाहितः
॥२४॥दर्शे पितॄन्समुद्दिश्य श्राद्धं कुर्यान्महालयम् ॥
तारितं च कुलं सर्वं तेनात्मैकोत्तरं शतम्
॥२५॥समगोत्रेषु ये जाताः पूर्वजा निरयवासिनः ॥
ते सर्वे सद्गतिं यांति तेषां लोकाः सनातनाः
॥२६॥स्नात्वा तिलांजलिं दद्यात्पितॄ नुद्दिश्य तत्परः ॥
अक्षया जायते तृप्तिः स्वर्गलोके महीयते
॥२७॥भोजयेद्ब्राह्मणान्सप्त श्राद्धं कृत्वा तु पायसैः ॥
अक्षयं लभते श्राद्ध मश्वमेधफलं भवेत्
॥२८॥तीर्थं पुण्यतरं व्यास शृणु चान्यद्वदामि ते ॥
दुग्धकुंडमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥
सर्वपापहरं पुण्यं सर्वकामवरप्रदम् ॥
पुरा दुग्धधरा देवी पृथुना धर्ममूर्तिना
॥३०॥दुग्धं सर्वं हविर्भाव्यं सर्वेषां जीवनप्रदम् ॥
दत्तं निधाय कुंडेस्मिंस्तेन दुग्धसरः स्मृतम्
॥३१॥कुंडे स्नात्वा पयः पीत्वा दत्त्वा गां च पयस्विनीम् ॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः
॥३२॥जायते सर्वकालेषु मृतः स्वर्गपुरं व्रजेत् ॥
ततः पुष्करमासाद्य स्नानदानादिकं चरेत्
॥३३॥सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत्
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगंगामाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ॥ ५४ ॥