पद्मावतीनामकथावर्णनम्
सनत्कुमार उवाच
अथातः संप्रवक्ष्यामि पद्मावती यथाऽभवत् ॥
शृणुष्व चादृतो व्यास बहुपुण्यकृतां कथाम्
॥१॥एकदा सर्वरत्नानां हानिर्जाता दुरात्मभिः ॥
धर्मग्लानिर्निरोधश्च जातो वै दुष्टदानवैः
॥२॥तदा सुरासुरैः सर्वैर्मिलित्वा मथितोंऽबु धिः ॥
मेरुर्वंशोदधिः पात्रं रज्जुर्वासुकिपन्नगः
॥३॥कूर्मपृष्ठे विधिं कृत्वा रत्नानि दुदुहुस्तदा ॥
आदौ लक्ष्मीर्विनिर्याता कृष्णाय प्रतिपादिता
॥४॥तेन कृत्वा विषादोऽभूद्देवदानवयोस्तदा ॥
एतस्मिन्नंतरे प्राप्तो नारदो देवदर्शनः
॥५॥वारितः कलहस्तेन देवदैत्यसमुद्भवः ॥
महाकालवने साऽस्तु पद्मा सिंधुसमुद्भवा
॥६॥सागरांते च रत्नानि तिष्ठंति विविधानि च ॥
तानि सर्वाणि चादाय भवतां वै ददाम्यहम्
॥७॥मथ्यतामुदधिः शीघ्रं नात्र कार्या विचारणा ॥
पुनस्ते तूद्यमं चक्रुरमृतार्थं सुरासुराः
॥८॥मथ्यमानेंऽबुधौ तेषां मणिः प्राप्तश्च कौस्तुभः ॥
परिजाततरुः पश्चात्सुरा जाता ततः परम्
॥९॥धन्वंतरिरथोत्पन्नश्चंद्रो जातोऽपि वै ततः ॥
कामधेनुस्ततो जाता गजरत्नं ततः परम्
॥१०॥उच्चैःश्रवा हयश्रेष्ठः सुधा रंभा ततस्ततः ॥
ततः परं च सारंगं धनुः सर्वास्त्रसंभवम्
॥११॥पांचजन्यस्तथा शंखः करे तिष्ठति मुरद्विषः ॥
निधिरेष महापद्मो विषं हालाहलं ततः
॥१२॥चतुर्दशापि रत्नानि प्राप्तानि विविधानि च ॥
समादाय गतास्तत्र यत्र माहेश्वरं वनम्
॥१३॥गत्वा ते च समासीना मंत्रं चक्रुः परस्परम् ॥
अहंपूर्वमहंपूर्वमिति ते समयंत्रिताः
॥१४॥कोलाहलस्तथोत्पन्नो नारदः पुनरभ्यगात् ॥
तेषां कलिमलं दृष्ट्वा विष्णुमाराधयत्ततः
॥१५॥मोहनीरूपमास्थाय नारीभूत्वाभ्यगाद्धरिः ॥
अतिरूपवती तन्वी तामालोक्य महासुराः
॥१६॥विह्वलांगाश्च ते सर्वे कामबाणवशंगताः ॥
एतस्मिन्नंतरे तेषां सुरां प्रादात्सुरेश्वरः
॥१७॥हस्तलाघवयोगेन देवानाममृतं ददौ ॥
एतस्मिन्नंतरे व्यास राहुस्तद्रू पधारकः
॥१८॥तेषामंतरगो भूत्वा पपौ चामृतमुत्तमम् ॥
तज्ज्ञात्वा च द्रुतं विष्णुः शिरश्चक्रेण चाच्छिनत्
॥१९॥सुधास्पर्शप्रसंगेन न ममारासुरस्तदा ॥
राहुः केतुरिति ख्यातौ क्षेत्रेऽस्मिन्मुनिसत्तम
॥२०॥राहुकायात्समुद्भूतं बहु सुस्राव शोणितम् ॥
तस्मिन्क्षेत्रे महत्तीर्थं जातं तद्दोष नाशनम्
॥२१॥तत्र स्नात्वा शुचिर्भूत्वा राहोर्दर्शनतत्पराः ॥
न तेषां जायते किंचिद्राहुपीडा कदाचन
॥२२॥वांछितार्थमवाप्नोति गोसहस्र फलं भवेत् ॥
ततस्तानि च रत्नानि महाकालवने सुराः
॥२३॥विभज्य भागांस्ते सर्वे प्राप्य रत्नभुजोऽभवन् ॥
मणिं पद्मां धनुः शंखं विष्णवे नारदो ददौ
॥२४॥सूर्याय च ददौ ह्यश्वं सप्तास्यं चाब्धिसंभवम् ॥
ऐरावतं गजश्रेष्ठं वासवाय समर्पयत्
॥२५॥पीयूषं दिविषद्गणान्ददौ चंद्रं च शंभवे ॥
पारिजातं तरुश्रेष्ठं रंभां चैव वरांगनाम्
॥२६॥इंद्रक्रीडावने रम्ये नंदने च समर्पयत् ॥
ऋषीणां समदाद्धेनुं कामदोग्ध्रीं यज्ञसिद्धये
॥२७॥निधिरेष महापद्मः कुबेरभवनं गतः ॥
यत्तद्धालाहलं प्रोक्तं विषं केनापि नादृतम्
॥२८॥यतोयतः प्रसरति प्रलयं यांति जंतवः ॥
दधार तद्विषं शंभुर्जगतां हितकाम्यया
॥२९॥तदाप्रभृति महादेवो नीलकंठ इति स्मृतः ॥
रत्नकुंडे नरः स्नात्वा नीलग्रीवं च पश्यति
॥३०॥मुक्त्वा स सर्वपापेभ्यः सर्वरत्नभुजो भवेत् ॥
शताश्वमेधिकं पुण्यं लब्ध्वा शिवपुरं व्रजेत्
॥३१॥तदादाय सुराः सर्वे ब्रह्मविष्णुपुरोगमाः ॥
ऊचुश्च ते तदा व्यास हर्षनिर्भरमानसाः
॥३२॥उज्जयिनीं समासाद्य जाता रत्नभुजो वयम् ॥
पद्मायाश्च निवासेन यस्मात्सर्वसुखावहा
॥३३॥तस्मात्सर्वेषु कालेषु पद्मा वसतु निश्चला ॥
अद्यप्रभृति पूरेषा पद्मावतीति च स्मृता
॥३४॥य एतस्यां महाभागाः स्नानं दानं तथार्चनम् ॥
तर्पणं चैव देवानां पितॄणां च विशेषतः
॥३५॥न तेषां दुष्कृतं किंचिन्न दारिद्र्यं न दुर्गतिः ॥
शतं कुलानि सर्वाणि तारयेन्निरयात्तदा
॥३६॥धनार्थी चैव पुत्रार्थो विद्यार्थो बहुकामुकः ॥
यत्रकुत्र स्थितो भूत्वा पद्मावतीति च स्मरेत्
॥३७॥सर्वान्कामानवाप्नोति शिवः साक्षाद्भवेन्नरः ॥
एतद्व्यास फलं नाम्नः किं चिरं सेवनेन वै
॥३८॥ये शृण्वंति कथां पुण्यां ये श्रावयंति नित्यशः ॥
न तेषां पातकं किंचिदश्वमेधफलं लभेत्
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये पद्मावतीनामकथावर्णनंनाम चतुश्चत्वारिं शोऽध्यायः ॥ ४४ ॥