मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 20

मासमेकं नरो भक्त्या पश्येद्वा वटयक्षिणीम्

सनत्कुमार उवाच

मासमेकं नरो भक्त्या पश्येद्वा वटयक्षिणीम् ॥

पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते

॥१॥

इति वटयक्षिणीमाहात्म्यम् ॥

पिशाचके नरः स्नात्वा चतुर्दश्यां विशेषतः ॥

तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते

॥२॥

यं समुद्दिश्य यद्दत्तं तदक्षयतरं भवेत् ॥

तत्कुलं हि पिशाचत्वान्मुच्यते नात्र संशयः

॥३॥

यस्य नाम्ना नरः स्नाति पिशाचत्वात्स मुच्यते ॥

कुंभान्वा करकान्वापि योऽत्र दद्यात्समंडकान्

॥४॥

तस्य वै शाश्वती मुक्तिः कुले प्रेतो न जायते ॥

शिप्रागुंफेश्वरं दृष्ट्वा रुद्रभक्तो जितेंद्रियः

॥५॥

मुच्यते सर्वपापेभ्यः कंचुकेन फणी यथा ॥

स्नात्वागस्त्येश्वरं पश्येद्योऽतिभक्त्या च मानवः

॥६॥

त्यक्त्वा यमगृहं व्यास रुद्रलोकं स गच्छति ॥

शिप्रायां यो नरः स्नात्वा पश्येड्ढुंढेश्वरं शिवम्

॥७॥

सोऽश्वमेधफलं व्यास लभते नात्र संशयः ॥

देवेनात्र पुरा व्यास वादितो डमरुर्यतः

॥८॥

देवस्तेन समाख्यातो नाम्ना डमरुकेश्वरः ॥

भक्त्या पश्येन्नरो यस्तु देवं डमरुकेश्वरम्

॥९॥

नैव व्याधिभयं तस्य मृतः शिवपुरं व्रजेत् ॥

अनादिकल्पेश्वरं यस्तु भक्त्या पश्यति मानवः

॥१०॥

राज्यं स लभते स्वर्गं यथा देवः पुरंदरः ॥

देवानामप्यसौ व्यास स्पर्धनीयः सदा भवेत्

॥११॥

कल्पकोटिशतं साग्रं भोगयुक्तस्तु मोदते ॥

पश्येत्सिद्धेश्वरं यस्तु वीरभद्रं च चंडिकाम्

॥१२॥

सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः ॥

स्वर्णजालेश्वरं दृष्ट्वा स्नातस्तीर्थे त्रिविष्टपे

॥१३॥

स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते ॥

स्नात्वा पश्येन्नरो भक्त्या यः कर्कोटेश्वरं शिवम्

॥१४॥

सर्पतो न भयं तस्य दारिद्यं नैव जायते ॥

यः पश्येत्परया भक्त्या महामायां सनातनीम्

॥१५॥

विष्णुमायाविनिर्मुक्तः स याति परमं पदम् ॥

अर्चयेत्परया भक्त्या यः कपालेश्वरं नरः

॥१६॥

स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत् ॥

स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम्

॥१७॥

दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत्

॥१८॥

इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनंनाम विंशोऽध्यायः ॥ २० ॥