मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ३१

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 31

अथान्यत्संप्रवक्ष्यामि केदारेश्वरमुत्तमम्

सनत्कुमार उवाच

अथान्यत्संप्रवक्ष्यामि केदारेश्वरमुत्तमम् ॥

प्रवरं सर्वतीर्थानां त्रिषु लोकेषु विश्रुतम्

॥१॥

तत्र स्नात्वा शुचिर्भूत्वा यः पश्यति महेश्वरम् ॥

केदारे यत्फलं प्रोक्तं तदत्रापि लभेन्नरः

॥२॥

सर्वपापविनिर्मुक्तः स्वकीयकुलसंयुतः ॥

विमानेनार्कवर्णेन शिव लोके स मोदते

॥३॥

जटाशृंगे नरः स्नात्वा शुचिर्भूत्वा जितेंद्रियः ॥

दृष्ट्वा जटेश्वरं देवं ततः पापाद्विमुच्यते

॥४॥

महातपनमादौ च कृत्वा गच्छेच्छिवं प्रति ॥

मातृकं पितृकं चैव कुलानां तारयेच्छतम्

॥५॥

इंद्रतीर्थे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम् ॥

विमुक्तः सर्वपापेभ्यः शक्रलोके महीयते

॥६॥

कुंडेश्वरं तु यः पश्येच्छिवध्यानपरायणः ॥

लभते स नरो व्यास शिवदीक्षाफलं शिवम्

॥७॥

गोपतीर्थे नरः स्नात्वा दृष्ट्वा गोपेश्वरं शिवम् ॥

शिवलोकं नरो याति ह्यमृतादमरो यथा

॥८॥

स्नात्वा तु चिपिटातीर्थे शिवं देवं प्रणम्य च ॥

तिर्यग्योनिं नरो नैव प्रयाति मुनिपुंगव

॥९॥

विजये च नरः स्नात्वा आनंदेश्वरपूजनात् ॥

विमुक्तः सर्वपापेभ्यः स्वर्लोके विजयी भवेत्

॥१०॥

अथान्यं संप्रवक्ष्यामि कुशस्थल्यां विनिर्मितम् ॥

देवं रामेश्वरं व्यास भुक्तिमुक्तिप्रदायकम्

॥११॥

चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च ॥

समन्वितः समागत्य पप्रच्छ मुनिसत्तमम्

॥१२॥

राम उवाच

कानि तीर्थानि पुण्यानि किं वा क्षेत्रं महामुने ॥

यत्र गत्वा न चाप्नोति वियोगं सह बांधवैः

॥१३॥

अनेन वनवासेन मरणेन पितुः प्रभो ॥

भरतस्य वियोगेन प्रतप्येऽहं त्रिभिर्मुने

॥१४॥

तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा ॥

ध्यात्वा तु सुचिरं कालमिदं वचनमब्रवीत्

॥१५॥

साधु पृष्टं त्वया वीर रघूणां वंशवर्धन ॥

मम पित्रा कृतं क्षेत्रं प्रयाच्य शिवमादरात

॥१६॥

अवंतीविषये राम पुरी तस्मिन्कुशस्थली ॥

उज्जयिनीति वै नाम्ना ख्यातिं लोके गता विभो

॥१७॥

तस्यां गत्वा दशरथं पिंडदानेन तर्पय ॥

सुरासुरगुरुस्तत्र महाकालो व्यवस्थितः

॥१६॥

देवः स वै सदा राजन्वांछितार्थफलप्रदः ॥

दृष्टे तस्मिञ्जगन्नाथे वियोगो नैव जायते

॥१९॥

तत्र गच्छंति ये विप्रा राजा चैव महावलः ॥

लभंते परमं स्थानं यत्र देवो महेश्वरः

॥२०॥

तीर्थानामपि तत्तीर्थं प्रविष्टोऽवंतिमंडले ॥

आजगाम ततोवंतीं सा शिप्रा यत्र पुण्यदा

॥२१॥

तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान् ॥

महाकालं यदा द्रष्टुं प्रतस्थे रघुनंदनः

॥२२॥

वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम् ॥

भो भो राघव भद्रं ते स्वनाम्ना स्थापयस्व माम्

॥२३॥

अत्र स्थानं मया दत्त मा विचारय राघव ॥

ततो द्दृष्टमना रामो लक्ष्मणं वाक्यमब्रवीत्

॥२४॥

अनुगृहीताः सौमित्रे देवदेवेन शंभुना ॥

तस्मात्स्थापय तीर्थेऽस्मिँल्लिंगं रामेश्वरं शुभम्

॥२५॥

वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शंकरम् ॥

दृष्ट्वा देवं पुरा रामो लक्ष्मणं वाक्यमब्रवीत्

॥२६॥

एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय ॥

करिष्यामि यतोऽत्राहं देवस्य स्नपनं शुभम्

॥२७॥

लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि ॥

राम नाहं सर्वकालं दासभावं करोमि ते

॥२८॥

इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः ॥

वद राघव सत्येन अनया किं करिष्यसि

॥२९॥

श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम् ॥

विमना राघवस्तस्थौ सीता चापि वरानना

॥३०॥

यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह ॥

स्नात्वा भुक्त्वा च तौ वीरौ महाकालमुपागतौ

॥३१॥

नीत्वा विभावरीं तत्र गमनाय मनो दधे ॥

उत्तिष्ठ वत्स सौमित्रे व्रजामो दक्षिणां दिशम्

॥३२॥

सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथंचन ॥

व्रज त्वमनया सार्धं भार्यया कमलेक्षण

॥३३॥

नाहमग्रे वनं यामि न वायोध्यां कथं चन ॥

एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः

॥३४॥

कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह ॥

वने वसाम्यहं राम नव वर्षाणि पंच च

॥३५॥

प्रमादः क्रियतां मह्यं नय मामपि राघव ॥

इदानीं त्वमर्धपथे कथं स्थातासि शत्रुहन्

॥३६॥

लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः ॥

लक्ष्मणं विकृतं ज्ञात्वा रामो वचनमब्रवीत्

॥३७॥

मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम् ॥

द्वितीयापि त्वियं सीता उक्तो रामेण लक्ष्मणः

॥३८॥

धनुः संगृह्य विमना उत्तस्थौ लक्ष्मणस्तदा ॥

प्राप्तौ प्राकारमर्यादां क्षेत्रसीमां परंतपौ ॥

क्षेत्रसीमां समुल्लंघ्य रामो लक्ष्मणमब्रवीत्

॥४०॥

निवर्तयस्व सौमित्रे समर्पय च मे धनुः ॥

रामवाक्यमुपश्रुत्य सीतां वै लक्ष्मणोऽब्रवीत्

॥४१॥

किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया ॥

रामेण हि परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्

॥४२॥

रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया ॥

देव संत्यज्यते वीरः सुमित्रानंदिवर्धनः

॥४३॥

राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ॥

न कदाचिदपि स्वप्ने लक्ष्मणसदृशं प्रियम्

॥४४॥

श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ॥

अस्मिन्क्षेत्रे न सौभ्रात्रं सर्वो हि स्वार्थतत्परः

॥४५॥

परस्परं न मन्यंते स्वार्थनिष्ठैकहेतवः ॥

न शृण्वंति पितुः पुत्राः पुत्राणां वा तथा पिता

॥४६॥

न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च ॥

अर्थानुबंधिनी प्रीतिर्न कश्चित्कस्यचि त्प्रियः

॥४७॥

एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा ॥

लिंगं तत्र प्रतिष्ठाप्य स्वनाम्ना रघुनंदनः

॥४८॥

रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम् ॥

विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति

॥४९॥

इति रामेश्वरमाहात्म्यम् ॥

सनत्कुमार उवाच ॥

तीर्थे सौभाग्यके स्नात्वा दृष्ट्वा सौभाम्यमीश्वरम् ॥

सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत्

॥५०॥

घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम् ॥

घृतमग्नावथो हुत्वा रुद्रलोके महीयते

॥५१॥

देवीं योगीश्वरीं पूज्य सुरासुरनमस्कृताम् ॥

सर्वपापविनिर्मुक्तः परं योगमवाप्नुयात्

॥५२॥

शंखावर्ते नरः स्नात्वा सर्वपापविवर्जितः ॥

धनधान्यसमायुक्तो जायते निर्मले कुले

॥५३॥

सुधोदके चतुर्दश्यां मुक्त्यर्थं स्नापयेन्नरः ॥

शिवं सुधेश्वरं दृष्ट्वा ततो मोक्षगतिर्भवेत्

॥५४॥

तथान्य त्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ॥

किं पुनेति च विख्यातं ब्रह्महत्याविमोचनम्

॥५५॥

पूर्वं त्रेतायुगे व्यास सुनेत्रो नाम वै द्विजः ॥

तस्य पुत्रः समु त्पन्नो विश्वावसुरिति स्मृतः

॥५६॥

यवक्रीतस्य शापेन स्वपिता तेन घातितः ॥

ब्रह्महत्यान्वितो व्यास तीर्थात्तीर्थं परिभ्रमन्

॥५७॥

तीर्थे किंपुनके स्नात्वा धारातीर्थे गतो द्विजः ॥

ततः कपिलधारायां चिंतयत्यात्मना स्वयम्

॥५८॥

कथं मे पतिता धारा अनृता वा श्रुतिस्तथा ॥

एवं ह्यचिंत यत्सोऽथ पुनरायादवंतिकाम्

॥५९॥

अत्र तीर्थे पुनः स्नाति यावद्वाणीं ततोऽशृणोत् ॥

किं पुनर्ध्यायसि ब्रह्मन्येन जातो द्विजोत्तमः

॥६०॥

न तेऽस्ति ब्रह्महत्या वै तीर्थस्नानेन नाशिता ॥

गच्छ शीघ्रं गृहं विप्र पापहीनो यथासुखम्

॥६१॥

इति किंपुनामाहात्म्यम् ॥

सनत्कुमार उवाच ॥

पुनरन्यत्प्रवक्ष्यामि पत्तनेश्वरमुत्तमम् ॥

तत्र स्थित्वा महेशेन पुनः पत्तनमीक्षितम्

॥६२॥

पत्तनेश्वर इत्याख्यो देवदेवो महेश्वरः ॥

यस्तु गंधैश्च पुष्पैश्च धूपैर्दीपैर्मनोरमैः

॥६३॥

भावयुक्तो नरो व्यास पूजयेद्विधिवत्सदा ॥

यथावत्तिष्ठते लिंगं वंशच्छेदो न जायते

॥६४॥

हंसयुक्तेन यानेन शिवलोकं स गच्छति ॥

तथान्यत्संप्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम्

॥६५॥

दुर्धर्षमिति विख्यातं ब्रह्महत्याविमोचनम् ॥

पुरा दिवाकरो व्यास चक्रे दुर्धर्षनामतः

॥६६॥

तीर्थमासीन्नदीतीरे विख्यातं सूर्यसंस्कृतम् ॥

तेजःपुंजं भवेल्लिंगं गणगं धर्वपूजितम्

॥६७॥

सप्तम्यामथवाष्टम्यां संक्रातौ रविवासरे ॥

तत्र स्नात्वा शुचिर्भूत्वा दिनमेकमुपोषितः

॥६८॥

दृष्ट्वा महेश्वरं तत्र शिप्राकूले व्यवस्थितम् ॥

पूजयित्वा तु भावेन यत्फलं तच्छ्रणुष्व मे

॥६९॥

पितृमातृकुलं सर्वं समुद्धृत्य शिवं व्रजेत् ॥

तत्र यच्छति यो दानं गोहेमादि विशेषतः

॥७०॥

तावत्तदक्षयं लोके यावच्चंद्रदिवाकरौ ॥

तथान्यत्संप्रवक्ष्यामि गोपींद्रं तीर्थमुत्तमम्

॥७१॥

गौतमेन पुरा यत्र इन्द्रः शापाद्भ गीकृतः ॥

भगव्रीडायुतः शक्रः प्रविश्य वनमुत्तमम्

॥७२॥

अतोषयत्तदोग्रेण तपसा शंकरं पुरा ॥

तुष्टेन शंभुना विप्र ये भगास्तच्छरीरगाः

॥७३॥

गोसहस्रीकृतास्तेन गोपींद्रस्तेन कथ्यते ॥

तत्र स्नात्वा दिवं याति शक्रतुल्यपराक्रमः

॥७४॥

ये मृतास्ते पुनर्जन्म नाप्नुवंति महीतले ॥

गंगातीर्थे नरः स्नात्वा पुण्यमाप्नोति पुष्कलम्

॥७५॥

ज्येष्ठशुक्लदशम्यां तु गंगायां फलमादिशेत् ॥

स्नात्वा पुष्पकरंडे च दृष्ट्वा पुष्पकरण्डकम्

॥७६॥

पुष्पकेन विमानेन प्रयातो दिवि मोदते ॥

नरकादुद्धरत्याशु नरः स्नात्वोत्तरेश्वरे

॥७७॥

इष्टभोगसमापन्नो याति स्वर्गं न संशयः ॥

भूतेश्वरे नरः स्नात्वा भूतेश्वरमथार्चयेत्

॥७८॥

गंधपुष्पादिनैवेद्यैर्मृतो रुद्रपुरं व्रजेत् ॥

शिप्रायां तु नरः स्नात्वा कैलासं तु नमस्यति

॥७९॥

सूर्याऽऽहतं तमो यद्वत्तद्वत्पापं प्रणश्यति ॥

अंबालिकां च यः पश्येत्समाधिनियमेन च

॥८०॥

स मुक्तः सर्वपापेभ्यः कंचुकेन फणी यथा ॥

घण्टेश्वरं प्रवक्ष्यामि यत्सुरैरपि पूजितम्

॥८१॥

यत्र कूपोदकं पीत्वा सौभाग्यमतुलं लभेत् ॥

अर्चयेद्यस्तु देवेशं गंधपुष्पैरनुक्रमात्

॥८२॥

शिवलोके वसेत्तावद्यावदिंद्राश्चतुर्दश ॥

पुण्येश्वरं तु यः पश्येच्छुचिः स्नातो जितेंन्द्रियः

॥८३॥

स गाणपत्यमाप्नोति यत्सुरैरपि दुर्लभम् ॥

लंपेश्वरे नरः स्नात्वा समभ्यर्च्य महेश्वरम्

॥८४॥

न याति नरकं मर्त्यः स्वर्गलोके महीयते ॥

तथान्यत्संप्रवक्ष्यामि यत्सुरैरपि दुर्लभम्

॥८५॥

पूजितं ब्रह्मणा पूर्वं स्थविराख्यं विनायकम् ॥

तत्र स्नात्वा शुचिर्भूत्वा पूजयेद्यो विनायकम्

॥८६॥

गंधैर्धूपैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैः फलं शृणु ॥

समीहिता भवेत्सिद्धिर्मृतः शिवपुरं व्रजेत्

॥८७॥

नवनद्याः समीपे तु पार्वतीं पूजयेद्बुधः ॥

गंधपुष्पैश्च धूपैश्च सौभाग्यमतुलं लभेत्

॥८८॥

कामोदके नरः स्नात्वा दृष्ट्वा कामं रतिप्रियम् ॥

स्वर्गे च देवगंधर्वस्पृहणीयवपुर्भवेत्

॥८९॥

प्रयागे तु नरः स्नात्वा प्रयागेशं तु पश्यति ॥

सर्वलोकानतिक्रम्य शिवलोके मही यते

॥९०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सौभाग्येश्वरादिनानातीर्थमाहात्म्य वर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥