अथातः संप्रवक्ष्यामि तीर्थं विद्याधरस्य तु
अथातः संप्रवक्ष्यामि तीर्थं विद्याधरस्य तु ॥
तत्र स्नात्वा शुचिर्भूत्वा विद्याधरपतिर्भवेत्
॥१॥व्यास उवाच
कथं तीर्थमिदं क्षेत्रे जातमत्र महामुने ॥
प्रसादाद्ब्रूहि मे ब्रह्मञ्छ्रोतुमिच्छामि सांप्रतम्
॥२॥सनत्कुमार उवाच
विद्याधरपतिः कश्चिदासीद्रूपधरः पुरा ॥
ग्रथिता पारिजातस्य माला तेन मनोरमा
॥३॥गृहीत्वा च स तां मालां गतो वासववेश्मनि ॥
नृत्यंती वासवस्याग्रे दृष्टा तेन च मेनका
॥४॥दत्ता तस्यै तदा तेन सा माला नृत्यमाश्रितः ॥
सा मेनकास्तुताऽस्थाने मालया मोहिता भवत्
॥५॥कोपाविष्टेन शक्रेण शप्तो विद्याधरस्तदा ॥
पृथिव्यां गच्छ पापिष्ठ नृत्यभंगस्त्वया कृतः
॥६॥विद्याधरपदं त्यक्त्वा मम शापाच्च सांप्रतम् ॥
एवमुक्तस्तु शक्रेण वाक्यं विद्याधरोऽब्रवीत
॥७॥अजानता मया नाथ अपराधः कृतोऽधुना ॥
अनुग्रहमतो देव कुरु मे त्वं प्रसा दतः
॥८॥एवमुक्तः स शक्रो वै विद्याधरमुवाच ह ॥
गच्छावंतीं त्वमद्यैव यत्रास्ते गांगटी गुहा
॥९॥तस्याश्चोत्तरभागे तु विद्यते तीर्थमुत्तमम् ॥
ख्यातं तत्त्रिषु लोकेषु नाम्ना विद्याधरं शुभम्
॥१०॥भक्त्या तत्र कृते स्नाने विद्याधरपतिर्भवेत् ॥
अतस्त्वमपि तत्रैव कुरु स्नानं प्रयत्नतः
॥११॥एवमुक्तः स शक्रेण आगतोऽवंतिमंडले ॥
स्नानं कृत्वा च तेनैव तीर्थे तस्मिन्मनोरमे
॥१२॥प्रभावात्तस्य तीर्थस्य पुनः प्राप्तं पदं स्वकम् ॥
एवं व्यास समाख्यातं तीर्थं विद्याधरं शुभम्
॥१३॥तत्र पुष्पाणि यो दद्याच्चंदनं च विलेपनम् ॥
लभेत्समस्तभोगान्स इहलोके परत्र च
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखंडे ऽवन्तीक्षेत्रमाहात्म्ये विद्याधरतीर्थमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥