शृणु व्यास महापुण्यं तीर्थं परमशोभनम्
सनत्कुमार उवाच
शृणु व्यास महापुण्यं तीर्थं परमशोभनम् ॥
देवप्रयागमाख्यातं सर्वपापप्रणाशनम्
॥१॥देवानां च परं स्थानं यत्र तीर्थं परंतप ॥
सोमतीर्थोत्तरे भागे प्रयागस्य च दक्षिणे
॥२॥क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम् ॥
तत्र तीर्थे नरः स्नात्वा पश्येच्चैव सुरोत्तमम्
॥३॥देवं माधवमित्याख्यं भुवि सर्वफलप्रदम् ॥
ददाति तस्य देवेंद्रो वांछितार्थं जगत्पतिः
॥४॥आनंदभैरवस्तत्र सर्वदेवनमस्कृतः ॥
यस्य दर्शनमात्रेण सर्वपापक्षयो भवेत्
॥५॥न तस्य जायते व्यास यातना भैरवी कदा ॥
स्वर्गद्वारे सदा व्यास जायते निर्भयः पुमान्
॥६॥ज्येष्ठे मासे सिते पक्षे दशम्यां बुध हस्तयोः ॥
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ॥
दशाला जायते वत्स गंगाजन्म परं शुचि
॥७॥तद्दिने च नरः स्नात्वा सर्वतीर्थफलं लभेत् ॥
अखण्डं च परं तीर्थं शृणु व्यास ह्यतः परम्
॥८॥यस्य श्रवणमात्रेण व्रतभंगो न जायते ॥
एक एव पुरा ब्रह्मन्ब्राह्मणो ब्रह्मवित्तमः
॥९॥धर्मशर्मेति विख्यातः सदाचाररतः शुचिः ॥
बहुव्रतधरो दांतो वेदवेदांगपारगः
॥१०॥किंचिद्दोषप्रसंगेन व्रतपूर्तिर्न चाभवत् ॥
एवं बहुतिथे काले नारदो देवदर्श नः
॥११॥तस्य गेहागतो ब्रह्मन्नातिथ्यार्थं महातपाः ॥
तदोत्थाय द्विजो नित्यं बहुमानपुरःसरम्
॥१२॥सत्कृत्य नारदं भूमन्विधिदृष्टेन कर्मणा ॥
पूजयित्वा द्विजश्रेष्ठः पप्रच्छ मुनिसत्तम
॥१३॥भगवन्भवता सर्वं विदितं ज्ञानचक्षुषा ॥
अस्माकं च परं दोषः किंचिज्जातः पुराऽनघ
॥१४॥येन पापप्रसंगेन व्रतभंगोऽभवद्ध्रुवम् ॥
कारणं ब्रूहि मे नाथ किं दोषोऽत्र तु गण्यते
॥१५॥नारद उवाच
श्रूयतां भो द्विजश्रेष्ठ भवद्भिश्च पुराकृतम् ॥
महाराष्ट्रे सुविख्यातो ब्राह्मणो धनसंचकः
॥१६॥ब्रह्मदत्तेत्यसौ विप्रो वेदब्राह्मणनिंदकः ॥
धनलोभी पराक्रांतः सर्वधर्मबहिर्मुखः
॥१७॥नास्तिको देवतीर्थेषु परद्रव्यापहारकः ॥
परस्त्रीषु रतो नित्यं द्यूतवादी च तस्करः
॥१८॥एवमायुःपरिक्षीणो धनहीनोऽभवत्तदा ॥
इतस्ततोऽभ्रमद्भ्रष्टो नदीतीरे सुविह्वलः
॥१९॥गतश्चौर्यप्रसंगेन यात्रिकैः सह संगतः ॥
किंचित्कालेषु दुःशीलो मृतिं प्राप्तो रुजार्दितः
॥२०॥नीतः संयमिनीं विप्रस्तत्कालं यमकिंकरैः ॥
यमराजपुरं प्राप्तो बहुपापकरो द्विजः
॥२१॥दृष्टोऽसौ धर्मराजेन तदा पत्यपरायणः ॥
निरीक्ष्य सहसोवाच धर्मपूर्वमिदं वचः
॥२२॥शृणुध्वं किंकराः सर्वे यूयमेकाग्रमानसाः ॥
अनेनाचरितं सर्वं दुष्कर्म सर्वकिल्बिषम्
॥२३॥गोदातीरे मृतः पापी तत्र नः कारणं न हि ॥
तिस्रःकोट्योऽर्धकोटिश्च यानि तीर्थान्यहर्निशम्
॥२४॥आयांति गौतमीतीरे सिंहस्थेऽपि बृहस्पतौ ॥
तेषां तु वायुसंस्पर्शो जातोस्यांते कलेवरे
॥२५॥तेन पुण्यप्रभावेन नोऽस्माकं कारणं क्वचित् ॥
ग्राह्यो भवद्भिनैवायं मुच्यतां भोः पुरःसराः
॥२६॥एवं तैर्मोचितो विप्रः पुनर्ब्रह्मगतिं गतः ॥
तेन पापप्रसंगेन व्रतभंगी गतो भुवि
॥२७॥ब्राह्मण उवाच
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ॥
किं तपः किं च दानं च किं तीर्थव्रतसेवनम्
॥२८॥येन पुण्यप्रभावेन व्रतभंगो न जायते
॥२९॥नारद उवाच
शृणु द्विजवरश्रेष्ठ महाकालवनं स्मृतम् ॥
यत्र रुद्रसरः प्रोक्तमृषिणा तत्त्वदर्शिना
॥३०॥कोटिकोटिसुतीर्थानि वर्तंते द्विजसत्तम ॥
कोटितीर्थेति विख्यातं तस्माद्द्विज सनातनम्
॥३१॥तत्तीर्थस्योत्तरे भागे सुतीर्थं सर्वकामदम् ॥
नाम्नाऽखंडसरः ख्यातमखंडेश्वरसन्निधौ
॥३२॥यस्य दर्शनमात्रेण सर्वयज्ञफलं लभेत् ॥
तस्माद्धि सर्वथा वत्स गच्छ त्वं तत्र मा चिरम्
॥३३॥इति तस्य वचः श्रुत्वा स द्विजोऽगात्कुमुद्वतीम् ॥
स्नात्वाऽखण्डसरे व्यास दृष्ट्वा देवं महेश्वरम्
॥३४॥सद्यः पुण्यवतांलोकान्प्राप्तो वै द्विजसत्तमः ॥
एवं व्यास महातीर्थमखंडेश्वरमुत्तमम्
॥३५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽखंडेश्वरमहिमवर्णननामाष्टषष्टितमोऽध्या यः
॥६८॥