मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ६०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 60

दानादिमाहात्म्यवर्णनम्

व्यास उवाच

पुरुषोत्तमं परं तीर्थं त्वया प्रोक्तं पुरानघ ॥

माहात्म्यं तस्य तीर्थस्य विस्तराद्वद मे प्रभो ॥

एतत्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर

॥१॥

सनत्कुमार उवाच

शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम्

॥२॥

यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥

पुराकल्पेषु वै ब्रह्मन्वैकुण्ठे विमले शुभे

॥३॥

समासीनो रमानाथः पार्षदैः सनकादिभिः ॥

महर्षिभिः सदाचारैः पितामहपुरोगमैः

॥४॥

ऋदिसिद्धिगुणोपेतैस्तत्त्वैस्तैर्महदादिभिः ॥

गणगंधर्वसंघैश्च सेव्यमानः समं ततः

॥५॥

किन्नरोद्गानसन्मानैर्नृत्यद्भिरप्सरोगणैः ॥

चिंतामणिगृहोद्गारललितांगणभूमिषु

॥६॥

कल्पद्रुमकृतच्छाय आसीनो हि मुरुद्विषः ॥

धर्मवादरताः सर्वे ब्रह्ममार्गसुनिश्चिताः

॥७॥

तेषां मध्ये परा भाषा ह्यपृच्छत्कमलापतिम्

॥८॥

लक्ष्मीरुवाच

पुण्यकानां विधिं नाथ श्रोतुमिच्छामि तत्त्वतः ॥

सर्वज्ञोसि महाप्राज्ञ वाच्यतां यदि रोचते

॥९॥

श्रीभगवानुवाच

दानं स्नानं तपः श्राद्धं सदा शस्तं हि शोभने ॥

तथापि विधिना प्राप्तं तत्सर्वं चाक्षयं भवेत्

॥१०॥

देशे काले पर्वणि च तीर्थे चायतने पदे ॥

दानं स्नानं तपः श्राद्धं मुनिभिः परिकीर्तितम्

॥११॥

पूर्णमास्याममावास्यां संक्रांतौ ग्रहणे तथा ॥

वैधृतौ च व्यतीपाते दानवृद्धिः परा स्मृता

॥१२॥

गंगायां भास्करक्षेत्रे कुरुक्षेत्रे च पुष्करे ॥

गोदावर्यां गयायां च तीर्थे चामरकंटके

॥१३॥

अवंत्यां च हुतं दत्तं तत्सर्वं चाक्षयं भवेत् ॥

तस्मात्सर्वप्रयत्नेन पर्वे तीर्थं समाचरेत्

॥१४॥

कुचैलो दुर्भगो मूर्खो जडो रोगसमन्वितः ॥

तीर्थपर्वपरिभ्रष्टो नरो भवति निश्चितम्

॥१५॥

के योगाः सुकृतानां च कर्तव्याश्च विशेषतः

॥१६॥

श्रीकृष्ण उवाच

साधु पृष्टः प्रिये प्रश्रः पुण्यकानां त्वयाऽनघे ॥

मलमासे समायाते ये नरा व्रतवर्जिताः ॥

जन्मजन्मनि दारिद्र्यं तेषां भवति शोभने

॥१७॥

श्रीरुक्मिण्युवाच

कीदृशो हि मलो मासः केन योगेन जायते ॥

कदा काले समायाति एतन्नो वद विस्तरात्

॥१८॥

श्रीकृष्ण उवाच

युक्तमुक्तं त्वया देवि प्रश्नः कालेऽयमीदृशः ॥

देवतापितृकार्याणि विधिना हि मलिम्लुचे

॥१९॥

क्षौरं मौंजी विवाहश्च व्रतोपवासकं तथा ॥

विशेषेण गृहस्थानां वर्ज्यं मुनिवरोत्तमैः

॥२०॥

संवत्सरत्रयांते च मासोऽयमधिगच्छति ॥

असंक्रमे रवेरस्मिंस्तस्मादधिकमासकः

॥२१॥

अधिमासाधिपत्योऽहं सदैव पुरुषोत्तमः ॥

ममाभिधानं तीर्थं च महाकालवने शुभम्

॥२२॥

पुरुषोत्तमाख्यं मे धाम सदैवात्र प्रति ष्ठति ॥

तस्मात्सर्वप्रयत्नेन गंतव्यं हि त्वया सह ॥

महाकालवने तत्र यत्र तीर्थं ममाभिधम् ॥

प्राणिनो ये समायांति मज्जनार्थं प्रिये ध्रुवम्

॥२४॥

तेषामिह ममादेयं न कदापि भविष्यति ॥

धनधान्यकलत्रादि पुत्रसौख्यं सदैव हि

॥२५॥

असंक्रांतेऽपि संप्राप्ते मामुद्दिश्य व्रतं चरेत् ॥

अधिमासाधिपत्योऽहं सदा वै पुरुषोत्तमः

॥२६॥

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥

देवतार्चां च मध्याह्ने ये कुर्वंति नरोत्तमाः

॥२७॥

अक्षयं च भवेत्सर्वं तेषां वै कमले धुवम् ॥

मलमासो गतः शून्यो येषां देवि प्रमादतः

॥२८॥

दारिद्र्यं च सदा तेषां शोकरोगविवर्धनम् ॥

अधिमासे समायाते अवंत्यां व्रतमाचरेत्

॥२९॥

तेषां ददाम्यहं प्रीत्या त्वामेव च न संशयः ॥

स्वल्पं दानमलं कार्यं यत्किं चिदिह यत्कृतम् ॥

तत्सर्वं मत्प्रसादेन ह्यनंतं प्रियदर्शने

॥३०॥

श्रीरुवाच

ईदृशो हि त्वया प्रोक्तो ह्यधिमासस्य सुव्रत

॥३१॥

महिमा ह्यपि लोकानां सर्वकामवरप्रदः ॥

अधिमासव्रतं पुण्यं कथयस्व प्रसादतः

॥३२॥

श्रीकृष्ण उवाच

असंक्रातो यदा मासः प्राप्यते मानवैः प्रिये ॥

महोत्सवस्तदा कार्य आत्मनो हितकांक्षिभिः

॥३३॥

कृष्णपक्षे चतुर्दश्यां नवम्यां वा सुरेश्वरि ॥

अष्टम्यां चाथ कर्तव्यं व्रतं शोकविनाशनम्

॥३४॥

यथालाभोपहारेण मासे चापि मलिम्लुचे ॥

पुण्याहे प्रातरुत्थाय कृत्वा पौर्वाह्णिकीं क्रियाम्

॥३५॥

गृहीत्वा नियमं पश्चाद्वासुदेवं हृदि स्मरन् ॥

उपवासं च नक्तं च एकभुक्तं च मानिनि

॥३६॥

एकस्य निश्चयं कृत्वा ततो विप्रान्निमंत्रयेत् ॥

सपत्नीका न्सदाचारान्कुलीनाञ्ज्ञातिसंभवान्

॥३७॥

ततो मध्याह्नसमये लक्ष्मीयुक्तं सनातनम् ॥

स्थापयेदव्रणे कुंभे वेदमंत्रैर्द्विजातिभिः

॥३८॥

पूजयेत्परया भक्त्या गोत्रिभिः सपितामहम् ॥

गंधतोयेन संस्थाप्य पंचामृतैस्तथैव च

॥३९॥

मिष्टान्नैर्नवभिश्चैव नैवेद्यैर्धूपदीपकैः ॥

आच्छादनैश्च वस्त्रैश्च पीतकौशेयकैस्तथा

॥४०॥

घंटामृदंगनिर्ह्रादैर्घोषध्वनिसमन्वितैः ॥

आरार्तिकं व्रती कुर्यात्कर्पूरागरुचंदनैः

॥४१॥

अलाभे तूल्मुकै श्चापि फलस्यानंत्यहेतवे ॥

ताम्रपात्रस्थिते तोये चंदनाक्षतपुष्पकैः

॥४२॥

अर्घ्यं दद्यात्सपत्नीकः प्रहृष्टेनांतरात्मना ॥

पंचरत्नैः समायुक्तैर्जा नुनी कृत्य भूतले ॥

समादाय च पाणिभ्यां सर्वभक्तिसमन्वितः

॥४३॥

अर्घ्यमन्त्रः ॥

कृपावन्सर्वभूतेषु जगदानंदकारक ॥

गृहाणार्घ्यमिमं देव संपूर्णफलदो भव

॥४४॥

प्रार्थनामंत्र ॥

स्वयंभुवे नमस्तुभ्यं ब्रह्मणेऽमिततेजसे ॥

नमोस्तु ते श्रियानंद ब्रह्मानंद कृपाकर

॥४५॥

एवं संप्रार्थ्य गोविंदं पूजयेद्ब्राह्मणात्स्वयम् ॥

सपत्नीकाच्छुचीन्स्नाताल्लँक्ष्मीनारायणौ स्मरन्

॥४६॥

पूजयित्वा विधानेन भोजयेद्धृतपायसैः

॥४७॥

भोजयित्वा विधानेन सपत्नीकं यथोचितम् ॥

विद्याविनयसंपन्नं तथा पत्न्या समन्वितम्

॥४८॥

पूजयित्वा यथाशक्त्या वस्त्रालंकारकुंकुमैः ॥

गोस्तन्याम्रकपित्थैश्च खर्जूरैः कदलीफलैः

॥४९॥

पनसैर्नारिकेलैश्च नारंगैर्दाडिमैस्तथा ॥

घृतपक्वान्नगोधूमैः शुभैः सोमालिकैर्वटैः

॥५०॥

शर्कराघृतपूरैश्च कर्णिकैः खंडमंडकैः ॥

उर्वारुकर्कटीशाकैः शृंगबेरैः समूलकैः

॥५१॥

अन्यैश्च विविधैः शाकैराम्रैः पक्वैः पृथक्पृथक् ॥

भक्ष्यभोज्यलेह्यपेयकंदकानि विशेषतः

॥५२॥

सुवासितान्गोरसांश्च परिवेष्य मृदु ब्रुवन् ॥

इदं स्वादु रसं भोज्यं भवदर्थे प्रकल्पितम्

॥५३॥

याच्यतां रोचते यच्च यन्मया पाचितं प्रभो ॥

धन्योस्म्यनुगृहीतोस्मि कृतं सार्थं च मंदिरम्

॥५४॥

विसर्जयेत्ततो विप्रान्दत्त्वा तांबूलदक्षिणाः ॥

चतुर्भिर्मिंलितैर्देवि तांबूलं मम वल्लभम्

॥५५॥

यो ददाति द्विजश्रेष्ठे स भवेत्सुभगो नरः ॥

सुभगा च सदाचारा वल्लभा स्वजने सदा

॥५६॥

पुत्रसौभाग्ययुक्ता च तांबूलैर्जायते प्रिये ॥

पत्रैस्तु केशवः प्रीतः पूगैरीशः सहोमया

॥५७॥

चूर्णकेनानलः प्रीतः खदिरेण तु मन्मथः ॥

चतुर्भिर्विश्वरूपोऽसौ यः पुष्णाति जगत्त्रयम्

॥५८॥

परितोष्य सपत्नीकान्हस्ते दत्त्वा च मोदकान् ॥

आ सीमांतमनुव्रज्य भुंजीत सह बंधुभिः

॥५९॥

असंक्रांते व्रतं नारी या करोतीह सुप्रिये ॥

दारिद्र्यं पुत्रशोकं च वैधव्यं नाप्नुयात्क्वचित्

॥६०॥

नरो वा यदि वा नारी यः कुर्याच्च मलिम्लुचे ॥

स सर्वसुखभोक्ता च भवेन्नास्त्येव संशयः

॥६१॥

मलिम्लुचे प्राप्य न पूजितो यैर्नारायणोऽहं परयेह भक्त्या ॥

कथं भवेयुः सुखपुत्रसंपत्सुहृत्सुभार्याः सुगुणैरुपेताः

॥६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखंडे ऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तममाहात्म्ये दानादिमाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥