मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ३२

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 32

नरादित्यमाहात्म्येऽर्जुनस्तुतिवर्णनम्

सनत्कुमार उवाच

अथान्यत्संप्रवक्ष्यामि नरादित्यं दिवाकरम् ॥

यस्य दर्शनमात्रेण सर्वरोगैर्विमुच्यते

॥१॥

स्थापनां ते प्रवक्ष्यामि नरादित्यस्य यादृशी ॥

युद्धे निवारिते तस्मिन्रक्तस्वेदजयोः पुरा

॥२॥

नरनारायणौ देवाववतीर्णौ धरातले ॥

कुंत्यां देव्यां च देवक्यां मथुरायामजायताम्

॥३॥

एवं तौ वर्तितौ लोके कांतौ वृद्धिं परां गतौ ॥

अन्यस्मात्कारणात्कृष्णो ऽन्यस्माज्जातो धनंजयः

॥४॥

कंसादीन्दानवान्सर्वान्निजघान रणे हि सः ॥

स्वर्गं गतस्ततः पार्थो वासवादस्त्रसिद्धये

॥५॥

कृतास्त्रेण तु वीरेण देवराजस्य दक्षिणा ॥

संस्तुता देवराजस्तु ययाचे तां हि दक्षिणाम्

॥६॥

निवातकवचा ह्युग्रा हिरण्यपुरवासिनः ॥

वध्यंतामर्जुन क्षिप्रमेषा मे गुरुदक्षिणा

॥७॥

अर्जुनेन प्रतिज्ञातो वधस्तेषां दुरात्मनाम् ॥

ऐंद्रं स रथमास्थाय गृहीत्वा सशरं धनुः

॥८॥

निहत्य तांस्ततः पार्थः कृत्वा कर्म सुदुष्करम् ॥

प्रीतिमुत्पादयामास सर्वेषां च दिवौकसाम्

॥९॥

कृतकार्यं तदा शक्रस्त्वर्जुनं वाक्यमब्रवीत् ॥

यत्तेऽभिरुचिरं वीर मृत्युलोके सुदुर्लभम्

॥१०॥

मनसा कांक्षितं पार्थ वरं त्वं वरयोत्तमम् ॥

स वव्रे प्रतिमे द्वे तु येऽर्चिते ब्रह्मणा स्वयम्

॥११॥

ब्रह्मणा प्रीतियुक्तेन दक्षाय प्रतिपादिते ॥

दक्षेणापि युगं साग्रं पूजिते तिमिरापहे

॥१२॥

सुराणामसुराणां च विग्रहे समुपस्थिते ॥

दानवैर्निर्जितः शक्रो हृतराज्यो वनं गतः

॥१३॥

तपश्चचार दुर्धर्षमेकपादः शतक्रतुः ॥

दिव्यवर्षसहस्रं तु धिषणस्तं ददर्श ह

॥१४॥

दृष्ट्वा तु देवराजं तं बृहस्पतिरुवाच ह ॥

हित्वा त्रिदिवमायातः कथं शक्र त्विदं वनम्

॥१५॥

एकाकिना वनस्थेन न साध्याः शत्रवस्त्वया ॥

ज्ञात्वैवं देवराज त्वं शीघ्रं दक्षाश्रमं व्रज

॥१६॥

पूजार्थे ब्रह्मणा दत्ते पारिजातसमुद्भवे ॥

चकार विश्वकर्मा ये ते याचस्व प्रजापतिम्

॥१७॥

शत्रूणां च क्षयो भावी प्रसादादर्चयो स्तयोः ॥

गुरोस्तु तेन वाक्येन हृष्टो देवः शतक्रतुः

॥१८॥

जगाम सत्वरस्तत्र यत्र दक्षः प्रजापतिः ॥

विनयावनतो भूत्वा ययाचे प्रतिमे शुभे ॥

१९ पूजिते प्रतिमे व्यास शक्रेण शरदां शतम् ॥

तयोस्तु तेजसा सर्वे विनाशं दानवा गताः

॥२०॥

प्रतिमे चोचुतुः शक्रं वरयस्व वरोत्तमम् ॥

भक्त्यानया परं तुष्टावावां जानीहि वासव

॥२१॥

वरं वव्रे तदा शक्रः प्रसन्नात्मा द्विजोत्म ॥

अस्माकं प्रतिपक्षा ये दानवाः पापचेतसः

॥२२॥

सर्वे ते नाशमृच्छंतु वर एष मतो मम ॥

युवां पूजितुमिच्छामि यावदिंद्रो भवाम्यहम्

॥२३॥

तथेति चोक्त्वा प्रतिमे ते नाकं प्रति जग्मतुः ॥

तत्तु याचे ह्यवश्यार्थे वरार्थे प्रतिमाद्वयम्

॥२४॥

इंद्र उवाच

साधु पार्थ पुनः साधु यत्रेत्थं प्रतितिष्ठतः ॥

इमे च प्रतिमे पार्थ शंकरेण महात्मना

॥२५॥

सुरक्तैः शतपत्रैश्च पूजिते ब्रह्मणो दिनम् ॥

त्रैलोक्यपालनार्थाय पूजिते विष्णुना पुरा

॥२६॥

नीलोत्पलैः सुगंधैश्च सहस्रपरिवत्सरान् ॥

ततः प्रजापतिः सृष्टिं कर्तुकामः समा हितः

॥२७॥

पूजयामास प्रतिमे पद्मै रक्तोत्पलैः शुभैः ॥

त्वमेव हि कथं पार्थ मृत्युलोके नयिष्यति

॥२८॥

एताभ्यां रहितः स्वर्गो मृत्युतुल्यो भविष्यति ॥

अदातुकामं देवेंद्रं प्रणिपत्य तमर्जुनः

॥२९॥

उवाच नाहमर्थ्यस्मिन्वरेणानेन वै प्रभो ॥

ततः शक्रः पुनः पार्थमुवाच मुनिपुंगव

॥३०॥

गृहीत्वा त्वमिमे वीर कुशस्थल्यां निवेशय ॥

शिप्राया उत्तरे तीरे केशवार्कं तु केशवः

॥३१॥

प्रति तिष्ठति वै यत्र सर्वपापप्रणाशनः ॥

संस्थापयस्व वै तत्र सर्वपापप्रणाशने ॥

भविष्यति तदा यात्रा आषाढी चाथ कौमुदी

॥३२॥

आगमिष्याम्यहं तत्र सहितोऽप्सरसां गणैः ॥

मरुतश्चागमिष्यंति मेघाश्चैव सविद्युतः

॥३३॥

मेघखण्डे समुद्भूते मयि तत्र प्रवर्षति ॥

प्रवदिष्यंति वै लोकाः प्राप्तो देवः पुरंदरः

॥३४॥

भास्करं च नमस्कृत्य ब्रह्माद्यैः पूजितं विभुम् ॥

प्रतियामि तु बीभत्सो पुनरेव यथागतम्

॥३५॥

एवं मृर्तिद्वयं व्यास दत्त्वा पार्थाय वासवः ॥

भूर्लोकं प्रेषयामास सूतेन सह पांडवम्

॥३६॥

नारदो द्वारकायां तु कृष्णस्याह्वानकारणात् ॥

देवराजस्य तद्वाक्यं सरहस्यं च केशवम्

॥३७॥

श्रावयामास विप्रेंद्रं एहि कृष्ण कुशस्थलीम् ॥

अर्च्चे हि पारिजातस्य विश्वकर्मसुकारिते

॥३८॥

इंद्रेणाथ प्रदत्ते वै ते तुभ्यं पांडवाय च ॥

श्रुत्वा शौरिस्तु तद्वाक्यं प्रतस्थेऽवंतिनीपुरीम्

॥३९॥

अवातरच्च आकाशात्तमालिंग्य च पांडवम् ॥

प्रीतः प्रोवाच वचनं परिष्वज्य च फाल्गुनम्

॥४०॥

जन्म मे सफलं जातं प्रीतिर्मे जनितार्जुन ॥

यतो मे प्रीतिरतुला क्रियतां कार्यमुत्तमम्

॥४१॥

इत्युक्त्वा तौ तदा व्यास समायातौ कुशस्थलीम् ॥

पार्थं प्राह तदा कृष्णः सुसंपूर्णमनोरथः

॥४२॥

गत्वार्जुन दिशं प्राचीं मूर्तिमेकां निवेशय ॥

पूर्वाह्ने हि शुभं लग्नं भविष्यति मनोरमम्

॥४३॥

अहमप्युत्तरां यामि स्थापनार्थं नदीं मुने ॥

मम शंखस्य नादेन प्रतितिष्ठ रविं प्रभुम्

॥४४॥

पूर्वां गत्वा ततः पार्थ शुभं स्थानं व्यलोकयत् ॥

व्यास संस्थापयामास दिननाथं च सुस्थिरम्

॥४५॥

अर्कं देवं स्थापयामि यावद्दध्यौ च पांडवः ॥

तावत्स चाब्रवीदेनं स्थानं कारय शोभनम्

॥४६॥

कथयामास पार्थाय तेजसा तेन दुःसहम् ॥

सव्यसाची ततो भीतो दृष्ट्वार्च्चां तां प्रजल्पतीम्

॥४७॥

तेजस्त्वसहमानो वै देवं वचनमब्रवीत् ॥

क्व देव त्वां स्थापयामि किं स्थानं तव रोचते

॥४८॥

सौम्य रूपः सुदर्शश्च प्रजाभ्यो भव गोपते ॥

दिविसंस्थाश्च ये देवा नागाः पातालसंश्रयाः

॥४९॥

भुविस्था मानवाः पूता भवंतु तव दर्शनात् ॥

सोऽर्जुनमब्रवीद्देवो मा भैस्त्वं मम दर्शनात्

॥५०॥

दक्षिणेन करेणाथ ह्यभयेनाभयप्रदः ॥

समाश्वास्याथ तं शांतं सौम्यमूर्तिर्बभूव ह

॥५१॥

प्रभाकरेण देवेन निजं तेजः प्रदर्शितम ॥

ततः सूर्योऽब्रवीत्स्थानमेतदेवाचलं मम

॥५२॥

प्राप्ते लग्ने च हरिणा शंखश्चापूरितो महान् ॥

नरेण च स वै सूर्यः स्थापितोऽमरसंस्तुतः

॥५३॥

अर्जुन उवाच

जयति किरणमाली भासुरः श्रांतसप्तिः सकलभुवनधामा प्राग्दिगंताट्टहासः ॥

भवति विगतपापं कीर्तनादेव यस्य प्रचुरकलुषदोषैर्ग्रस्तमंगं नराणाम्

॥५४॥

ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतंगं कः स्तोतुं कविरभिवांछते प्रकामम् ॥

स्तोष्येहं तदपि सुविस्तरात्सुबुद्धे किं दीपो ज्वलति हि नोदिते शशांके

॥५५॥

शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य किं वस्तु यन्न रचितं विविधैः प्रयोगैः ॥

द्वैपायनप्रभृतिभिर्मुनिभिः पुराणैरापीतसारमिह भाति जगत्समस्तम्

॥५६॥

कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या भानोस्त्रिलोकगुरुपूजितपादयुग्मम् ॥

वृत्तैः स्फुटार्थमधुराक्षरसंधियुक्तैस्त्वां वै विचित्रगतिभिः परिकीर्तयिष्ये

॥५७॥

तावज्जगद्भवति निश्चलमेव सर्वं तावत्क्रियाश्च विविधा न च यांति सिद्धिम् ॥

यावच्च नाथ कमलामलमंडल त्वमुत्तिष्ठसे व्यपनयन्किरणैस्तमांसि

॥५८॥

तावन्न भांति शिखराणि महीरुहाणां गुच्छैस्तु फुल्लवनमीलितलोचनानि ॥

सुप्तानि बोधयसि षट्चरणाकुलानि यावन्न भाभिरमलाभिरनुत्तमाभिः

॥५९॥

उद्यंतमंबरतले सुरसिद्धसंघाः सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः ॥

त्वामर्चयंति विबुधाः प्रणतैः शिरोभिश्चञ्चत्किरीटमणिभाभिरनुत्तमाभिः

॥६०॥

अस्तं गते त्वयि जगद्भवति प्रसुप्तं भूयस्त्वयि प्रतपति प्रतिबोधमेति ॥

एवं सदा वरद लोकहितार्थहेतोरेकस्त्वमेव भगवंस्तिमिरस्य हंता

॥६१॥

उत्साहशक्तिनयशौर्यसमन्वितानां सेवाप्रयोगरचनाविधितत्पराणाम् ॥

कार्याणि यन्न फलदानि भवंति पुंसां हेतुस्त्वभक्तिरिह नाथ वेति नूनम् ॥

यत्संयुगेषु रथकुञ्जरकुन्तशक्तिनाराचचक्रशरतोमरभीमखड्गैः ॥

क्षिप्रं नराः समुपयांति विजित्य शत्रून्सर्वं सदा प्रणतवत्सल वेष्टितं ते

॥६३॥

कांतारदुर्गविषमेष्वपि वर्तमाना ऋक्षेभसिंहबहुकण्टकतस्करेषु ॥

तृष्णान्विताश्च बहुशोकविमूढचित्तास्त्वत्कीर्तनाद्धि गतमृत्यु भया भवंति

॥६४॥

तेजोराशिस्त्वमिह शरणं सर्वतोदुःखितानां त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः ॥

त्वय्येकस्मिन्भवति सकला भक्तिरन्विष्यमाणा त्वामासाद्य प्रभवति कुतो व्याधिदुःखं नराणाम्

॥६५॥

कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः के पंग्वंधजडाः क्व शीर्णचरणः को वा विपन्नक्रियः ॥

इत्येवं प्रसमीक्ष्य देव कृपया दोषात्परित्रायसे कस्यान्यस्य परोपकारनिरता चेष्टा यथैषा तव

॥६६॥

धर्मः परत्र किल तिष्ठति सेवितोऽसौ कालांतरेण विबुधा वरदा भवंति ॥

त्वं सेवितः प्रणतवत्सल भूतिकामैः सद्यः प्रयच्छसि फलं यदभीप्सितं तैः

॥६७॥

विभ्रांतकांतहरिणीसदृशेक्षणाभिः कांतोरुहारमणिकुण्डलमेखलाभिः ॥

तेषां भवंति भवनानि विलासिनीभिर्येषां नृणां त्वमसि वै वरदः प्रसन्नः

॥६८॥

यैस्त्वं नरैः सकृदपि प्रणतः कथंचिद्ध्यातोऽथवा भुवननाथ तथांतकाले ॥

निष्कल्मषा जगति दुष्कृतिनो भवंति ते निर्मलाः सुकृतिनो गतिमाप्नुवंति

॥६९॥

ये त्वां कुतर्कमतिभिर्न नमंति भक्त्या रोमांचकंचुकशताकुलितैः शरीरैः ॥

ते निर्धनाः परगृहेष्ववभूतमन्नं क्षुत्क्षामकण्ठवदनाः परितर्कयंति

॥७०॥

उदधिजलतरंगक्षोभलोलाक्षियुग्मैः सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः ॥

प्रणिपतितशिरोभिर्नागमुख्यैरजस्रं श्रुतिभिरनुपमाभिः स्तूयसे पुष्कलाभिः

॥७१॥

तव सुरवर गच्छतोऽनुसरंति त्रिदशनदीकमलोद्ग तानि वातैः ॥

कनककमलरेणुपिंजरितानि भ्रमरकुलानि पतंग चामराणि

॥७२॥

तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः ॥

आजीवार्थं प्रतपसि भगवन्कस्ते तुल्यस्त्रिभुवनसमये

॥७३॥

उदयाद्रिनितंबसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य ॥

किरणास्तपनीयसप्रभास्ते विलसन्तस्तडितो विडंबयंति

॥७४॥

यथायथा व्रजति रथस्तवांबरे विपाटयन्धनतिमिरौघसंचयान् ॥

तथातथा क्षुभितमहानिलासृतं प्रतीयते मुहुरिव दुन्दुभिर्यथा

॥७५॥

चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम् ॥

कामिनीमिव रतिश्रमालसां तां विबोधयसि पद्मिनीं करैः

॥७६॥

नीललोलमतिकान्तमुत्पलं भृंगतुंगचरणाकुलीकृतम् ॥

त्वत्प्रभाभिरनुरागरंजितं पद्मरागमिव शोभते भृशम्

॥७७॥

स्फुरच्छशांकहारनिर्मलं खग त्वदंकेष्वचंचलम् ॥

विभात्यतीव कांतमंबरं समं बृहच्चैक पाटलम्

॥७८॥

हरिति च तावन्मुहिर्निषेविततमस्यशुभं भवति च यावदैव किरणैस्तव पूजिततरम् ॥

ऋषिभिर्मुनिभिरुदारधीभिः शाश्व तमार्गपरैर्वरद न शक्यते तव गुणस्तुतिराश्रयितुम्

॥७९॥

त्वं विष्णुस्त्वं शशांकस्त्वमसुरमथनः शण्मुखस्त्वं धनेशस्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः ॥

ॐकारस्त्वं द्विजानां त्वमिह जलनिधित्वं शरस्त्वं च रुद्रस्त्वं मुख्यस्त्वं पयोदो व्रतयमनियमास्त्वं जगत्सर्वमेव

॥८०॥

त्वमनिंद्य गोपते त्रिपुरमथन मन्मथदाहकरस्त्वमसुरभीमदर्पहा पाहि माम् ॥

त्रिदशाधिपकमलवराननस्त्वमिह देवगुरुर्भगवां स्त्रिभुवनमण्डलेऽस्ति कतमस्तव तुल्यगुणः

॥८१॥

आदित्य भास्कर दिवाकर सप्तसप्ते मार्तंड सूर्य हरिदश्वपते च भानो ॥

अश्रांतवाहन खरूप गभस्तिमालिंस्त्वां लोकनाथ शरणं प्रतिपद्यतेऽसौ

॥८२॥

प्राग्दिग्वधूतिलकभासुरकर्णपूर मंदाकिनीदयितनाथ जगत्प्रदीप ॥

हेमाद्रितापन नभस्तलहारिरत्न सन्ध्यांगनावदनराग नमोनमस्ते

॥८३॥

ब्रह्मैव सत्य शुभमंगल लोकनाथ व्योमांगणेश मुनिसंस्तुत विश्वमूर्ते ॥

आर्तस्य शोकहर किंकरपालकश्च त्वं मे प्रसीद भगवञ्छरणागतस्य

॥८४॥

कृत्वांजलिं शिरसि पंकजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या ॥

तेन प्रभो भव ममोपरि सौम्यमूर्तिर्धर्मे मतिं कुरु सदा श्रियमूर्जितां च

॥८५॥

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे तवे ॥

त्रयीमयाय त्रिगुणात्मधारणे विरंचिनारायणशंकरात्मने

॥८६॥

सूर्य उवाच

तुष्टोहमधुना पार्थ स्तोत्रेणानेन सुव्रत ॥

वरं दास्यामि यत्नेन यत्ते मनसि वर्तते

॥८७॥

मद्दर्शनं हि विफलं न कदाचित्प्रजायते ॥

शूराणां च विशेषेण ह्यदेयं नास्ति यत्नतः

॥८८॥

अर्जुन उवाच

एष एव वरो मह्यं वराणामुत्तमोत्तमः ॥

अत्र संनिहितो देव सर्वकालं भव प्रभो

॥८९॥

ये च त्वां मानवा भक्त्या स्तो ष्यंति प्रणताः सदा ॥

तेषां धनं च धान्यं च पुत्रदारादिकं वसु

॥९०॥

मनसश्चेप्सितं सर्व दातव्यं हि वरो मम ॥

सनत्कुमार उवाच ॥

आदित्यो ऽस्मै वरं दत्त्वा ह्युवाच वचनं शुभम्

॥९१॥

यस्त्वत्कृतेन स्तोत्रेण मां स्तोष्यति नरोत्तमः ॥

श्रिया न विच्युतिस्तस्य भवेदेष वरो मम

॥९२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरादित्यमाहात्म्येऽर्जुनस्तुतिवर्णनंनाम द्वात्रिं शोऽध्यायः ॥ ३२ ॥