आचारः परमो धर्मः सर्वधर्मपरायणः
व्यास उवाच
आचारः परमो धर्मः सर्वधर्मपरायणः ॥
स्वधर्मनिरताश्चैव जितक्रोधा जितेंद्रियाः
॥१॥रुद्रलोकं व्रजंतीह नात्र चित्रा मतिर्मम ॥
असंशयं च गच्छंति लोकानन्याञ्छशिप्रभैः
॥२॥विनापि क्षेत्रवासेन तथैव नियमेन च ॥
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः
॥३॥मूका जडांधबधि रास्तपोनियमवर्जिताः ॥
एषां तु का गतिश्चेत्ते महाकालवने मृताः
॥४॥सनत्कुमार उवाच
स्त्रियो म्लेच्छाश्च मूढाश्च पशवः पक्षिणो मृगाः ॥
कालेनैव मृता व्यास रुद्रलोकं व्रजंति ते
॥५॥शरीरैर्दिव्यरूपैश्च सर्वभोगसमन्विताः ॥
रमंते शंभुना सार्धं स्मशाने प्रेतसंकुले
॥६॥निर्भत्सिता पुरा देवी कालीति पार्वतीति च ॥
तदा सा कुपिता देवी कटके शंकरं प्रति
॥७॥एवं हि कलहो जातः शिवगौर्योर्हि यत्र तु ॥
देवस्तत्र समुद्भूतो नाम्ना कलकलेश्वरः
॥८॥कृतमग्रे तदा कुंडं नाम्ना कलहनाशनम् ॥
स्नाने तत्र कृते व्यास जाताऽकलहिनी प्रिया
॥९॥तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा महेश्वरम् ॥
उपोष्य रजनीमेकां कुलानां तारयेच्छतम्
॥१०॥तत्र यच्छति यो दानं त्रुटिमात्रं च चंदनम् ॥
आत्मना तारि तास्तेन दश पूर्वे दशापरे
॥११॥भूमिदानं च यस्तत्र प्रदास्यति नरो मुने ॥
अपि गोचर्ममात्रेण सर्वभूम्यधिपो भवेत्
॥१२॥गामेकां रक्ति कामेकां भूमेरप्येकमंगुलम् ॥
यः प्रदास्यति भक्त्या हि स वै राजा भविष्यति
॥१३॥धेनुमश्वांस्तिलान्वस्त्रं भाजनं ताम्रदोहनम् ॥
उपानहश्च च्छत्रं च तथा च श्रेष्ठपादुके
॥१४॥ये प्रदास्यंति विप्रेभ्यस्तेषां लोकाः सदाऽक्षयाः ॥
तस्य दक्षिणपार्श्वे तु पृष्ठे मात्राख्य देवताः
॥१५॥सा तत्र सर्वलोकानां देवी दुरितहारिणी ॥
सर्वतीर्थं तु विज्ञेयं मणिकर्णिकमुत्तमम्
॥१६॥तस्मिन्स्नात्वा तु यः पश्येत्पृष्ठमातर आदरात् ॥
स मुक्तः सर्वपापेभ्यः सिद्धिमाप्नोति वांछिताम्
॥१७॥तासां तु दर्शनं कृत्वा मार्गे गमनमाचरेत् ॥
न भयं तस्य चोरेभ्यो रक्षोभूतभयं तथा
॥१८॥स्वदेशे परदेशे वा पर्वतेष्वटवीषु च ॥
न समुद्रे भयं तस्य तथा वै दुष्टभावना
॥१९॥ग्रहपीडासु सर्वासु तथा राजभयादिकम् ॥
बस्तं वा यदि वा मेषं महिषं चापि घातयेत्
॥२०॥देवीमुद्दिश्य यो विप्र सोऽभीष्टफलमश्नुते ॥
आश्विनस्य सिताष्टम्यामर्धरात्रिगते नरः
॥२१॥यः स्नाति पुरतो देव्याः स सिद्धि लभते पराम् ॥
मृतपुत्रा च या नारी कुण्डे स्नात्वा सभर्तृका
॥२२॥स्नाति वै फलकुम्भेन अग्रे देव्या विधानतः ॥
स्नात्वा नान्यमुखं पश्येत्कुम्भस्नानेन वै मुने
॥२३॥तस्य संजायते पुत्रो यथा देवः षडाननः ॥
पृष्ठे मातुः परं पुण्यं तीर्थमप्सरसां शुभम्
॥२४॥रूपसौभाग्यसंपन्नस्तत्र स्नातो भवेन्नरः ॥
उर्वश्या वै पुरा व्यास तीर्थस्यास्य प्रभावतः
॥२५॥भर्ता पुरूरवा लब्धं ऐलेयोंऽसौ महीपतिः ॥
इति कौतूहलं श्रुत्वा व्यासो वचनमब्रवीत्
॥२६॥व्यास उवाच
कथमप्सरसां तीर्थं तत्र जातं महामुने ॥
कारणेन यथा तेन यस्मिन्काले प्रतिष्ठितम् ॥
तथा तन्मे सविस्तारं सरहस्यं प्रकीर्तय
॥२७॥कथं पुरूरवाश्चासौ भार्यास्तस्य वराप्सराः ॥
उर्वशीनाम का सा तु केन जाता वरांगना ॥
सर्वमेतद्यथावृत्तं वद कौतूहलं हि मे
॥२८॥सनत्कुमार उवाच
नरनारायणौ पूर्वं यत्र वै तेपतुस्तपः
॥२९॥बदरिकाश्रमस्थौ तौ तेनेन्द्रो भयमागतः ॥
सर्वाश्चाप्सरसो हृद्या रूपयौवनदर्पिताः
॥३०॥आदिष्टा या मघवता विघ्नार्थं च समागताः ॥
तौ दृष्ट्वाप्सरसस्तत्र रमन्तीर्मदविह्वलाः
॥३१॥विघ्नार्थमिह आयातास्तदा देवौ जजल्पतुः ॥
अस्माकं न स्त्रियः संति तेन वै विघ्नकारणम्
॥३२॥एवं संजल्प्य च नरो नारायणमुवाच ह ॥
करिष्याम्यहमेकां वै आसां तु रूपतोऽधिकाम्
॥३३॥मंजर्या सहकारस्य स्त्रीमूरुभ्यां चकार ह ॥
रूपेणाप्रतिमां लोके सर्वाभरणभूषिताम्
॥३४॥उत्थितां प्रमदां दृष्ट्वा ज्वलनाभां वरांगनाम् ॥
गत्वा शशंसुस्ताः शक्रं न र्तौ लोभयितुं क्षमाः
॥३५॥शक्रस्तासां वचः श्रुत्वा गत्वा देवावुवाच ह ॥
प्रणामावनतो भूत्वा कृत्वा शिरसि चांजलिम्
॥३६॥अहमर्थी स्त्रियाश्चास्याः प्रसादः क्रियतामिति ॥
ततस्तां ददतुर्देवाविंद्राय परमेश्वरौ
॥३७॥अस्मद्वचनसामर्थ्याद्गृहाणेमां त्वमुर्वशीम् ॥
ऊरुभ्यां जनिता यस्मान्नरेणेयं वरांगना
॥३८॥मंजर्या सहकारस्य तेनेयमुर्वशी स्मृता ॥
पुरंदरो गृहीत्वा तामुर्वशीं परमांगनाम्
॥३९॥गत्वा स्वर्गमथाहूय चित्रांगदमुवाच ह ॥
शिक्षाऽस्याः क्रियतां चित्र यथा नृत्ये विचक्षणा
॥४०॥क्रियतामचिरादेषा यत्नमास्थाय शोभनम् ॥
एवमुक्ते तु शक्रेण कृता तेन विचक्षणा ॥
वरं प्रवीणा सा जाता नृत्ये गीते च कोविदा
॥४१॥एवं सा न्यवसत्तत्र सुरसद्मनि सुन्दरी ॥
गते बहुतिथे काले तत्रा गात्स नरेश्वरः
॥४२॥इलस्यपुत्रो धर्मात्मा नाम्ना चैव पुरूरवाः ॥
इन्द्रस्यार्द्धासनगतो नृत्यं पश्यति तत्र ह
॥४३॥नृत्यन्तीं वासवस्याग्रे उर्वशीं वीक्ष्य कामुकः ॥
हृतचित्तस्तया राजा न किंचित्प्रत्यपद्यत
॥४४॥धैर्यं चित्ते समावेश्य मुहूर्तं पर्यवस्थितः ॥
उर्वशी च तदा तेन दर्शनाहतमानसा
॥४५॥तत्प्रदेशाद्विनिष्क्रम्य कामार्ता चातिविह्वला ॥
भूमौ सा पतिता बाला उच्छ्रिताद्रंगमण्डलात्
॥४६॥अथात्मानं च संवेद्य उत्थिता भूमिमण्डलात् ॥
दृष्टा सा राजसिंहेन मन्मथेन प्रपीडिता
॥४७॥गतः पुरूरवा भूमिं तामेव मनसा स्मरन् ॥
स्मरन्ती राजशार्दूलं गता साप्युर्वशी गृहम्
॥४८॥चित्रांगदगृहे गत्वा दूतं साथ चकार ह ॥
चित्रांगदेन सा नीता रात्रौ यत्र पुरूरवाः
॥४९॥उर्वश्या रहितः स्वर्गः शून्योऽप्यासीद्दिवौकसाम् ॥
रात्रावेव च सा तेन आनीता त्रिदिवं पुनः
॥५०॥तया विरहितः सोऽपि शून्यचित्तः परिभ्रमन् ॥
उन्मत्ततां गतो व्यास षष्टिवर्षाणि पार्थिवः
॥५१॥परिभ्रमन्स तीर्थानि महाकालवनं गतः ॥
गंध वेंणोर्वशी स्वर्गे नीता सा परमाप्सराः
॥५२॥नापि शेते न वा स्नाति हे राजन्निति जल्पति ॥
तावदप्सरसः सर्वास्ताः प्राप्ता यत्र चोर्वशी
॥५३॥रंभा च मेनका चैव प्रम्लोचा पुंजिकस्थली ॥
जलपूर्णाश्रुपूर्णा च वसंता चंद्रिका तथा
॥५४॥सूर्यदत्ता विशालाक्षी चंद्रा चन्द्रप्रभा तथा ॥
आगत्य तास्तु सहिता उर्वशीं वाक्यमब्रुवन्
॥५५॥किं रोदिषि वरारोहे मर्त्यहेतोः सुलोचने ॥
तद्वाक्यमुर्वशी तासां श्रुत्वा वचनम ब्रवीत्
॥५६॥सौख्यं षण्ढो न जानाति संगात्स्त्रीपुंसयोर्हि यत् ॥
अनयोपमया ज्ञेयं तस्यार्थे कृतनिश्चया
॥५७॥श्रुत्वा चेति वचस्तस्यास्ताः संमंत्र्य समाहिताः ॥
अविदिते च देवानां महाकालवने गताः
॥५८॥नृपं च ददृशुस्तत्र वृक्षच्छायानिषेवितम् ॥
दृष्ट्वा चाथ नृपं सर्वा भृशं जाताः सुविह्वलाः
॥५९॥दृष्ट्वा तथाविधाः सर्वाः कामार्ता सुरयोषितः ॥
मूढचित्ताः प्रहस्यैवमुर्वशी वाक्यमब्रवीत्
॥६०॥उर्वश्युवाच
अयं स पुरुषव्याघ्रो विना येनाहमीदृशी ॥
ऐलः पुरूरवा नाम विख्यातो जगतीपतिः
॥६१॥एवं ब्रुवन्त्यां वै तस्यामुर्वश्यामप्सरोगणः ॥
मौनीभूतश्चिरं तस्थौ लज्जयानतकन्धरः
॥६२॥एतस्मिन्नन्तरे प्रायाद्भगवांस्तत्र नारदः ॥
दृष्ट्वा तथागताः सर्वा उर्वश्या सहितं नृपम्
॥६३॥संप्रेक्ष्य च ततः प्राह कि यूयमिह निस्वनाः ॥
त्यक्त्वा तथाविधं रम्यमिन्द्रस्यालयमुत्तमम्
॥६४॥वरं च व्रियतां शीघ्रं वियोगो न भवि ष्यति ॥
माहात्म्यं चास्य तीर्थस्य कथयामास नारदः
॥६५॥अस्मिन्हि दुर्भगा तीर्थे स्नात्वा स्त्री पुरुषोऽपि वा ॥
सौभाग्यं लभते सम्यक्सर्वभोगांस्तथोत्तमान्
॥६६॥आत्मानं तोलयेद्यस्तु तिलैर्वा लवणेन वा ॥
शर्कराभिश्च बह्वीभिर्वित्तशाठ्यविवर्जितः
॥६७॥गुडेन मधुना वापि देवीमुद्दिस्य पार्वतीम् ॥
लवणेन स्वरूपाढ्यस्तिलैः सर्वांगशोभनः
॥६८॥द्रव्यवृद्धिः शर्करया गुडेनांगेषु पूर्णता ॥
मधुना चैव सौभाग्यं तीर्थस्यास्य प्रभावतः
॥६९॥द्वादशैव तु युग्मानि देव्या देवस्य भोजयेत् ॥
कूपीं नखरिणीं दद्यात्ताटंकं कतकांजनम्
॥७०॥वेत्रजां कंचुकीं चैव वस्त्रे कौसुंभके तथा ॥
श्वेतानुलेपनं पुंसां स्त्रीणां दद्याच्च कुंकुमम्
॥७१॥आषाढे श्रावणे वापि मासि भाद्रपदे तथा ॥
शुक्लाश्विनतृतीयाया मुत्तमं व्रतमाचरेत्
॥७२॥उत्तमा जायते नारी यथा देवी उमा तथा ॥
उमामहेश्वरौ कार्यौ सौवर्णौ च स्वशक्तितः
॥७३॥धार्यौ नार्या हि तौ देवौ स्वयं तुलावरोहणे ॥
फलानि चैव देयानि शाकानि विविधानि च
॥७४॥तत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥
एवं या कुरुते तत्र तीर्थे नारी समाहिता
॥७५॥गन्धर्वाप्सरसां लोके मृता याति न संशयः ॥
अत्र तीर्थे च द्वे लिंगे पूजिते देवदानवैः
॥७६॥दृष्ट्वा ते परमां सिद्धिं प्राप्नुतो दंपती तदा ॥
कार्तिक्यां तु विशेषेण कृत्वा तत्र प्रजागरम् ॥
संपूज्य गंधपुष्पैश्च रुद्रलोकमवाप्नुयात्
॥७७॥यथा देव्याः स्वरूपेण वियोगो नैव दृश्यते ॥
तथा तयोर्वियोगश्च दृश्यते न कदाचन
॥७८॥एवं कृत्वाथ तां विप्र सर्वाश्च त्रिदिवं गताः ॥
उक्तमप्सरसां तीर्थं तीर्थांतरमथोच्यते
॥७९॥दक्षिणे पृष्ठदेव्या वै माहिषं कुण्डमुच्यते ॥
महिषो दानवः पूर्वं निहतो गणनायकैः
॥८०॥तत्र तीर्थे नरः स्नात्वा मातॄः संपूज्य यत्नतः ॥
प्रेतरक्षः पिशाचानां पीडया स विमुच्यते
॥८१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽप्सरःकुण्डमाहात्म्यवर्णनंनामाष्टमोऽध्याः
॥८॥