मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ६५

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 65

नागतीर्थमहिमवर्णनम्

व्यास उवाच

नागतीर्थं त्वया ब्रह्मन्पुरा प्रोक्तं यशस्विना ॥

तस्य तीर्थवरस्याऽपि महिमानं च सत्तम

॥१॥

भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥

कियत्काले समाख्यातमेतद्विस्तरतो वद

॥२॥

सनत्कुमार उवाच

शृणु ब्रह्मन्प्रवक्ष्यामि तवाग्रे नागतीर्थजाम् ॥

कथां पुण्यतमां तुभ्यं भुवि पापहरां पराम्

॥३॥

यस्याः श्रवणमात्रेण शापमुक्तो भवेन्नरः ॥

पुरा नागाः परिभ्रष्टा मातुः शापात्परंतप

॥४॥

जनमेजयेन दग्धास्ते मोक्षिता ह्यास्तिकेन च ॥

पप्रच्छुस्ते द्विजश्रेष्ठ जरत्कार्वात्मजं तदा

॥५॥

नागा ऊचुः

ब्रह्मंस्तव प्रसादेन मोक्षिता हव्यवाहनात् ॥

जनमेजयस्य यज्ञेस्मिन्देवराजस्य संनिधौ

॥६॥

अस्माकं भूतिमन्विच्छन्वासस्यार्थं परंतप ॥

यस्मिन्स्थाने सदा ब्रह्मन्निवासो जायतेऽभयः

॥७॥

आस्तीक उवाच

श्रूयतां मातुलश्रेष्ठा युष्माकं हितमुत्तमम् ॥

महाकालवने रम्ये या वै कुशस्थली स्मृता

॥८॥

तस्यां हि दक्षिणे भागे पूर्वतीर्थं सना तनम् ॥

नागालयं पुरा प्रोक्तं यत्र सन्निहितो हरिः

॥९॥

योगनिद्रां समासाद्य शेते ब्रह्म सनातनम् ॥

शेषशायीति विख्यातः सर्वलोकेषु गीयते

॥१०॥

कल्पदोषो न तत्रैव बाधते सवदेहिनाम् ॥

बकदाल्भ्य ऋषिस्तत्र तपस्तेपे धृतव्रतः

॥१०॥

लोमशश्च महातेजास्तत्रैव प्रतितिष्ठति ॥

दीर्घायुष्ट्वं समापन्नो मार्कंडेयो महामुनिः

॥१२॥

न वर्तते कालचक्रं महाकालप्रतापतः ॥

कपिलः सिद्धिमापन्नो यत्र तीर्थवरोत्तमे

॥१३॥

हरिश्चंद्रो विमुक्तोऽभूद्गर्ह्यचण्डालयोनितः ॥

सप्तर्षिप्रवरा ये ते निर्वाणपदवीं गताः

॥१४॥

एतस्मात्कारणात्सर्वैस्तत्र विश्रम्यतां सदा ॥

मातुः शापोद्भवो दोषो युष्माकं नैव बाधते

॥१५॥

एतत्ते वचनं श्रुत्वा महर्षेरास्तिकस्य च ॥

आगच्छंस्तत्र ते शीघ्रं वासार्थं पन्नगोत्तमाः

॥१६॥

एलापत्रः कंबलश्च कर्कोटकधनंजयौ ॥

वासुकिः पन्नगश्रेष्ठस्तक्षको नील एव च

॥१७॥

पद्मकश्चार्बुदश्चैव नागास्ते सर्व एव हि ॥

अत्रागत्य स्वस्वस्थानानि चक्रुस्ते सुचिरव्रताः

॥१८॥

तत्र रम्याणि तीर्थानि जातानि परमाणि च ॥

नवानि चक्रुः कुंडानि तीर्थभूतानि सत्तम

॥१९॥

महापुण्यप्रदान्याहुर्महापापहराणि च ॥

यत्र सिद्धाश्च गंधर्वा ऋषयः संशितव्रताः

॥२०॥

अप्सरोगणसंघैश्च सेव्यंते च सदा वरैः ॥

यत्र शेषो महानागः पुरा प्रोक्तो महर्षिणा

॥२१॥

शेषशायी ह्यलं विष्णुर्भगवान्कमलेक्षणः ॥

तत्र सर्वाणि तीर्थानि तिष्ठंति भुवि सर्वदा

॥२२॥

श्वेतद्वीपेति विख्याता मणिविक्रांतभूमिका ॥

यत्र पुण्याश्च वै वृक्षाः पुष्पिताश्चैव सर्वशः

॥२३॥

हंसकारंडकाकादि पिककोकिलसारसाः ॥

पद्मखंडगणास्तत्र नृत्यंति च शिखंडिनः

॥२४॥

निधिरेष महापद्मो नीलोत्पलसुगंधिना ॥

वासितो वायुना शुभ्रः किन्नरोद्गारनादितः

॥२५॥

यत्र सुसंस्कृता नार्यो विहरंति सुरांगनाः ॥

नागकन्याभी रम्याभिर्मंडितं परमाद्भुतम्

॥२६॥

यत्र स्नात्वा नरो याति वैकुंठं धाम शोभनम् ॥

शेषशायी हरिर्यत्र शेते हि च रमापतिः

॥२७॥

तत्र रमासरो नाम तीर्थं परमशोभनम् ॥

यत्र स्नात्वा नरो नित्यं श्रीमान्भवति नाऽन्यथा

॥२८॥

एवं व्यास परं स्थानं सर्वपापहरं परम् ॥

अत्रैव च परं तीर्थं बलेराश्रममद्भुतम्

॥२९॥

अत्र स्नानादिकं कार्यं यत्र संनिहितो हरिः ॥

सर्वपापविशुद्धात्मा नरो भवति तत्क्षणात्

॥३०॥

कियत्प्रमाणमात्रां च ये ददति वसुंधराम् ॥

तनूरुहाणि यावन्ति तावत्कालसुसंख्यया

॥३१॥

अक्षय्या लभ्यते वृद्धिस्तेषां लोकाः सनातनाः ॥

श्रावणे मासि दर्शे च पंचम्यां सोमवासरे

॥३२॥

नागानां पूजनं कार्यं श्राद्धं दर्शे विधीयते ॥

अक्षयं जायते श्राद्धं वांछितार्थं भवेत्ततः

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये तीर्थयात्रायां नागतीर्थमहिमवर्णनंनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥