शृणुष्वावहितो व्यास स्थितिमेकाग्रमानसः
सनत्कुमार उवाच
शृणुष्वावहितो व्यास स्थितिमेकाग्रमानसः ॥
मया व्यासमुखात्प्राप्ता कल्पभेदे कथा शुभा
॥१॥गुह्याद्गुह्यतरा श्रेष्ठा न देया यस्य कस्यचित् ॥
नास्तिकाय कृतघ्नाय नाशिष्याय कदाचन
॥२॥एषा पुण्यतमा व्यास कथा पापहरा परा ॥
यस्याः श्रवणमात्रेण कल्पदोषो न बाधते
॥३॥प्रमाणं कल्पपर्यंतं ब्रह्मणः परमेष्ठिनः ॥
मन्वंतरेषु सर्वेषु कल्पकल्पांतरेषु च
॥४॥यावत्संख्या परिमिता तावती शृणु सत्तम ॥
अहोरात्रं च भजते सूर्यो मानुषदैवतम्
॥५॥तामुपादाय गणनां शृणु संख्या द्विजोत्तम ॥
निमेषैः पंचदशभिः काष्ठा त्रिंशत्तु ताः कला
॥६॥त्रिंशत्कला मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥
अहोरात्र मिति प्राहुश्चंद्रादित्यगतिस्तदा
॥७॥रविर्गतिविशेषेण सन्ध्यायां याति नित्यशः ॥
तदहस्तु मनुष्याणां रात्रिश्चैव तु तादृशी
॥८॥पक्षौ मासा ऋतुश्चाब्दमयने च प्रकीर्तिते ॥
पितॄणां चैव देवानां ब्रह्मणश्च यथातथम्
॥९॥यावत्संख्या समाख्याता आयुरंतश्च तादृशः ॥
अहोरात्राः पंचदश पक्ष इत्यभिशब्दितः
॥१०॥पक्षौ द्वौ तौ कृतौ मासौ मासौ द्वावृतुरुच्यते ॥
अयनं चर्तुभिस्त्रिभिरब्दं द्वे अयने स्मृतम्
॥११॥दक्षिणं चोत्तरं चैव संख्यातत्त्वविशारदैः ॥
मानेनानेन यो मासः पक्षद्वयसमन्वितः
॥१२॥पितॄणां तदहोरात्रमिति कालविदो विदुः ॥
शुक्ल पक्षस्त्वहस्तेषां कृष्णपक्षस्तु शर्वरी
॥१३॥कृष्णपक्षे त्विह श्राद्धं पितॄणां वर्तते द्विज ॥
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः
॥१४॥देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ॥
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः
॥१५॥दिव्यमब्दं शतगुणं दिव्यमब्दसहस्रकम् ॥
मुनिभिश्चैव तत्त्वज्ञैरहोरात्रं मनोः स्मृतम्
॥१६॥अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥
पक्षाद्दशगुणो मासो मासा द्वादशभिर्गुणैः
॥१७॥ऋतुर्मनूनां संप्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ॥
षड्भिस्तैर्वर्षं संप्रोक्तं तेन संख्या निबध्यते
॥१८॥चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ॥
तावती तु भवेत्संध्या संध्यांशश्च तथाविधः
॥१९॥त्रीणि वर्षसहस्राणि त्रेता तत्परिमाणतः ॥
तस्याश्च त्रिशती संध्या संध्यांशश्च तथा परः
॥२०॥तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ॥
तस्य च द्विशती संध्या संध्यांशश्च तथा।
परः
॥२१॥कलिर्वर्षसहस्रं तु संख्या चोक्ता मनीषिभिः ॥
तस्य चैकशती संध्या संध्यांशश्च तथाविधः
॥२२॥( ४८०० कृतं, ३६०० त्रेता, २४०० द्वापरम्, १२०० कलिः) एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता ॥
दिव्येनानेन मानेन युगसंख्यां निबोध मे
॥२३॥ससर्ज स पुनस्तात जगत्सर्वमिदं ततः ॥
कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्
॥२४॥युगं तदेकसप्तत्या गुणितं द्विजसत्तम ॥
मन्वंतरमिति प्रोक्तं संख्यानार्थविशारदैः
॥२५॥अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥
मनुः प्रलीयते ह्यत्र संप्राप्ते जगतः प्रभौ
॥२६॥ततोऽपरो मनुः कालमेतावन्तं भवेत्पुनः ॥
समतीते तु राजेंद्र प्रोक्तः संवत्सरस्य वै
॥२७॥तदैव चायनं प्रोक्तं मुनिना तत्त्वदर्शिना ॥
ब्रह्मणस्तदहः प्रोक्तं कल्प श्चेति स उच्यते
॥२८॥सहस्रयुगपर्यंतं सा निशा प्रोच्यते बुधैः ॥
निमज्जत्यत्र चोर्वी सा सशैलवनकानना
॥२९॥तस्मिन्युगसहस्रे तु पूर्णे वै द्विजसत्तम ॥
ब्राह्मे दिवसपर्यंते कल्पो निःशेष उच्यते
॥३०॥युगानि सप्ततिं तानि साग्राणि कथितानि ते ॥
कृतत्रेतादियुक्तानि मनोरंतर मुच्यते
॥३१॥चतुर्दशैते मनवः कथिताः कीर्तिवर्धनाः ॥
वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः
॥३२॥प्रजानां पतयो व्यास धन्यमेषां प्रकीर्त नम्
॥३३॥मन्वंतरेषु संहाराः संहारांतेषु संभवाः ।
न शक्यमंतस्तेषां वै वक्तुं वर्षशतैरपि
॥३४॥विसर्गश्च प्रजानां वै संहारस्य च भारत ॥
मन्वंतरेषु संहारः श्रूयते भरतर्षभ
॥३५॥यत्र तिष्ठंति वै देवाः सर्वे सप्तर्षिभिः सह ॥
तपसा ब्रह्मचर्येण श्रुतेन च समन्विताः
॥३६॥पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ॥
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः
॥३७॥ब्रह्माणमग्रतः कृत्वा सहादित्यैर्गणैर्द्विज ॥
प्रविशंति सुरश्रेष्ठं हरिं नारायणं प्रभुम्
॥३८॥स स्रष्टा सर्वभूतानां कल्पांते तु पुनःपुनः ॥
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत्
॥३९॥स एव विद्यते व्यास महेशा सह संयुतः ॥
महाकालवने वासं चकार जगदीश्वरः
॥४०॥प्रलयो न बाधते व्यास महाकालवनोत्तमे ॥
कल्पे कल्पे च वै रम्या पुरी ह्येषा कुशस्थली
॥४१॥निरामया निरातंका निर्विकारा युगेयुगे ॥
मार्कण्डेयोपदिष्टानि कल्पानि संभवंति च
॥४२॥अत्रैव च वने रम्ये ब्रह्मा लोकपितामहः ॥
प्रजानां पतयो ये ते दक्षः प्राचेतसस्तथा
॥४३॥मरीचिः कश्यपो रुद्रो येऽन्ये भृग्वादयस्तथा ॥
कल्पादौ ससृजे लोकांश्चराचरान्यथा तथा
॥४४॥एवमादौ पुरा व्यास कल्पं कल्पायते तदा ॥
वाराहवामनविष्णुपितॄणां वै तथैव च
॥४५॥कल्पभेदाः समाख्याता महाकालवने शुभे ॥
चतुराशीतिकल्पानि संजातानि द्विजोत्तम
॥४६॥तावंति योगलिंगानि वने तिष्ठन्ति सत्तम ॥
पुनर्जाता पुनः र्नष्टा महीसागरपर्वताः
॥४७॥पुनःपुनर्भविष्यंति पुरी ह्येषाऽचला स्मृता ॥
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते
॥४८॥प्रतिकल्पेति विख्याता भुवि व्यास भविष्यति ॥
येऽस्यां वै मानवा दांताः स्नानदानादिकं तथा
॥४९॥जपं होमं तथा श्राद्धं पितॄनुद्दिश्य देवताः ॥
न तेषां पुनरा वृत्तिः कोटिकल्पशतैरपि
॥५०॥प्रतिकल्पामनुप्राप्य दृष्ट्वा देवं महेश्वरम् ॥
वैशाखे पौर्णमास्यां वै स्नापयंत्येकवासरम्
॥५१॥प्रसंगतो रजः क्लांतः शिप्रांभसि च मानवाः ॥
न तेषां दुष्कृतं किंचिद्विष्णुलोके वसंति ते
॥५२॥मन्वंतरसहस्रेषु काशिवासेषु यत्फलम् ॥
तत्फलं प्राप्नुयाज्जंतुः प्रतिकल्पं क्षणादपि
॥५३॥प्रतिकल्पे च कल्पांते सैवासीच्च पुरी शुभा ॥
तस्मात्सर्वजनैः ख्याता प्रतिकल्पा द्विजोत्तम
॥५४॥ये चैतस्य महाभागाः प्रीतिं कुर्वंति मानवाः ॥
न तेषां कल्पभेदोऽयं स्वप्नवज्जायते क्षणात्
॥५५॥यः शृणोति कथां पुण्यां प्रतिकल्पोद्भवां शुभाम् ॥
श्रावयेद्वा प्रयत्नेन ब्रह्महत्यां व्यपोहति
॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये प्रतिकल्पाभिधानकथनंनामाष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥