मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १७

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 17

दशाश्वमेधमाहात्म्यवर्णनम्

सनत्कुमार उवाच

दशाश्वमेधिके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥

दशानामश्वमेधानां फलं प्राप्नोति मान वः

॥१॥

मनुना मानवेन्द्रेण राज्ञा चैव ययातिना ॥

रघुणोशनसा चैव लोमशेन महर्षिणा

॥२॥

अत्रिणा भृगुणा व्यास दत्तात्रेयेण धीमता ॥

पुरूरवसा पुण्येन नहुषेण नलेन च

॥३॥

अत्र स्नानेन संप्राप्तं दशाश्वमेधिकं फलम् ॥

संप्राप्ते द्वापरस्यांते राज्ञा बाष्कलिना तथा

॥४॥

दशानामश्वमेधानां फल प्राप्तं द्विजोत्तम ॥

कृष्णवर्णं तथा लिंगं पूजितं भक्तितः सदा

॥५॥

दृष्ट्वा स्पृष्ट्वा च तं देवं प्रागुक्तं लभते फलम् ॥

चैत्रे मासि सिताष्टम्यां देवं संपूज्य भक्तितः

॥६॥

अश्वं दद्याच्च विप्राय सुरूपं च गुणान्वितम् ॥

यावंति तस्य रोमाणि गण्यंते संख्यया द्विज

॥७॥

तावद्वर्षसहस्राणि शिवलोके महीयते ॥

शिवलोकात्परिभ्रष्टः सार्वभौमो भवेद्भुवि

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥