केशवादित्यमाहात्म्यवर्णनम्
सनत्कुमार उवाच
नारायणोऽपि संस्थाप्य शंखं दध्मौ प्रयत्नतः ॥
तुष्टाव प्रयतो भूत्वा स्तोत्रेणा नेन भास्करम्
॥१॥श्रीकृष्ण उवाच
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ॥
दिवाकरं दिवानाथं तपनं तपतां वरम्
॥२॥वरेण्यं वरदं विष्णुमनघं वासवानुजम् ॥
बलवीर्यं सहस्रांशुं सहस्रकिरणद्युतिम्
॥३॥मयूखमालिनं विश्वं मार्तंडं चंडरोचिषम् ॥
सदातीतं सुभास्वंतं सप्तसप्तिं सुखोदयम्
॥४॥देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम् ॥
तपोब्रह्ममयालोकं लोकपालमपांपतिम्
॥५॥जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम् ॥
अर्कं निःश्रेयसपरं कारणं श्रेयसां परम्
॥६॥इनं प्रभाविणं पुण्यं पतंगं पवगेश्वरम् ॥
दातारं वांछितार्थानां दृष्टादृष्ट- फलप्रदम्
॥७॥गृहं गृहकरं हंसं हरिदश्वं हुताशनम् ॥
मंगल्यं मंगलं गेयं ध्रुवं धर्मप्रबोधनम्
॥८॥भवसंभावित भावं भूतभव्यभवात्मकम् ॥
दुर्गमं दुर्गतिहरं हरनेत्रं त्रयीमयम्
॥९॥त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् ॥
तेजोराशिसुनिर्वाणं विश्वेशं धाम सांप्रतम्
॥१०॥कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम् ॥
भूषणं मरुतं सूर्यं मणिरत्नं सुलोचनम्
॥११॥त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम् ॥
सवितारं सहस्राक्षं प्रजापालमधोक्षजम्
॥१२॥ब्रह्माणं वासरारंभे रक्तवर्णं महाद्युतिम् ॥
शुक्लं मध्यंदिने रुद्रं श्यामं विष्णुं दिनक्षये
॥१३॥नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम् ॥
य इदं प्रयतो भूत्वा पठेद्भक्त्या समाहितः
॥१४॥न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः ॥
धनधान्यसुखावाप्तिः पुत्रलाभश्च जायते
॥१५॥तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम् ॥
एतच्छ्रुत्वा जगन्नाथो जगामादर्शनं ततः
॥१६॥केशवार्कमुखं दृष्ट्वा पद्मरागसमप्रभम् ॥
विमुक्तः सर्वपापेभ्यः सूर्यलोके महीयते
॥१७॥केशवार्कसमीपे तु रेणुतीर्थं प्रचक्षते ॥
तद्दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥१८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये केशवादित्यमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥