मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५१

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 51

शृणु व्यास महाबुद्धे शिप्रामाहात्म्यमुत्तमम्

सनत्कुमार उवाच

शृणु व्यास महाबुद्धे शिप्रामाहात्म्यमुत्तमम् ॥

यथाऽमृतभवा ख्याता पाताले नागसंमते

॥१॥

एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः ॥

करे कपालमादाय भोगवत्यां समागतः

॥२॥

भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे ॥

भिक्षा केनापि नो दत्ता क्षुधितस्य च धूर्जटेः

॥३॥

तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः ॥

भ्रामयित्वा पुरीं सर्वां शनैर्बहिर्विनिर्ययौ

॥४॥

एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम ॥

यत्र तिष्ठंति सर्वाणि नागलोकस्य रक्षणे

॥५॥

तत्र गत्वा स भगवाञ्छंभुः सर्वात्मसंभवः ॥

अपिबन्नेत्रमार्गेण तृतीयेन च शंकरः

॥६॥

रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः ॥

कंपितश्च तदा लोको नागानां सर्वतोमुखम्

॥७॥

कस्येदं कर्म किं जातं सुधा यस्मादितो गता ॥

इत्युक्ता चैव ते सर्वे नागा वासुकिपुरोगमाः

॥८॥

महदतिक्रमणे शंकाः पुरात्ते निर्ययुर्बहिः ॥

किं कुर्वाम क्व गच्छाम कस्येदं हेलनं कृतम्

॥९॥

येनास्माकं कोपितेन हृतं चामृतमुत्तमम् ॥

अस्माकं जीवनं तस्मात्कथं जीवाम पन्नगाः

॥१०॥

इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः ॥

हरिं च जग्मुः शरणं मनसा परिशंकिताः

॥११॥

तेषामनुग्रहार्थाय वागुवाचाशरीरिणी ॥

श्रूयतामुरगाः सर्वे युष्माभिर्देवहेलनम्

॥१२॥

भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे ॥

विदित्वातिथिवेलायां कपालकरभिक्षुकः

॥१३॥

दत्ता न भिक्षा केनापि भोगवत्यां पिनाकिनः ॥

तदा बहिर्गतो नाथः क्षुधितो धर्मविग्रहः

॥१४॥

तेन नष्टा सुधा सर्वा कुंडांते पन्नगोत्तमाः ॥

यूयं प्रयात पातालान्महाकालवनोत्तमे

॥१५॥

तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता ॥

त्रैलोक्यपावनी ह्येषा सर्वकामफलप्रदा

॥१६॥

यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥

तत्र गत्वा भवद्भिश्च स्नानं कार्यं यथाविधि

॥१७॥

भजनं देवदेवस्य ततः पूजां करिष्यथ ॥

भजनाद्देवदेवस्य शिप्रासलिलमज्जनात्

॥१८॥

भविष्यति ततः सद्यः सुधा लोके पुरेव वः ॥

इति संभाष्य तान्नागांस्तत्रैवांतरधीयत

॥१९॥

वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् ॥

श्रुत्वा देवेरितां वाणीं तथेत्युक्त्वा च पन्नगाः

॥२०॥

स्त्रीबालवृद्धसहिता महाकालवनं ययुः ॥

तत्र गत्वा ददृशुस्ते नदीं त्रैलोक्यवंदिताम्

॥२१॥

सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम् ॥

हंसकारंडवाकीर्णां मणिमुक्ताप्रवालकाम्

॥२२॥

मणिसोपानरचितां पद्मखंडैश्च मंडिताम् ॥

सायं प्रातः स्थिता विप्राः संध्योपासनतत्पराः

॥२३॥

ऋषयश्च महाभागा भृग्वंगिरसमु ख्यकाः ॥

गंधर्वाश्चैव तत्रैव देवर्षिनारदादयः

॥२४॥

वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा ॥

रुद्राः साध्याश्च देवाश्च पितरो विमलाशयाः

॥२५॥

उपासते च शिप्रां वै संध्यावेलां समाहिताः ॥

ऋषिपत्न्यो महाभागा देवकन्याप्सरोगणाः

॥२६॥

पतिव्रता महाभागास्तत्रैव पतिभिः सह ॥

उपासंते सदाचारा वर्णाश्रमपुरोगमाः

॥२७॥

राजर्षयः समासीना निर्वाणपदवीं गताः ॥

सिद्धा योगेश्वरा शांतास्तापसाः शंसितव्रताः

॥२८॥

नानादेशोद्भवा लोका यात्रिणः समुपागताः ॥

शिप्राकूले समासीना नरनारीसमन्विताः

॥२९॥

कुर्वते तत्र धर्माणि महादानानि सर्वशः ॥

एवंविधां समालोक्य व्यास त्रैलोक्यवंदिताम्

॥३०॥

नदीं सुधामयीं सर्वां नागाः परमहर्षिताः ॥

स्नानदानादिकं कृत्वा महादेवमुपा सिरे

॥३१॥

वेदोक्तविधिना सर्वे भक्त्या पन्नगसत्तमाः ॥

पंचांगपूर्वकं स्नानं यक्षकर्दमलेपनम्

॥३२॥

अम्लानपंकजां मालां नानापुष्पाक्षतै स्तथा ॥

वासःस्रगनुलेपाद्यैश्चन्दनैर्गंधधूपकैः

॥३३॥

दीपदानादिनैवेद्यैस्तांबूलमथ दक्षिणाः ॥

कर्पूरार्तिकराः सर्वे महादेवमुपागताः ॥

स्तुतिमारेभिरे कर्तुं सुधाकामास्तदोरगाः

॥३४॥

सर्पा उचुः ॥

नमोऽनंताय बृहते सर्वदेव नमोनमः ॥

चंद्रमौले नमस्तेऽस्तु कपर्दिन्परमात्मने ॥

वृषध्वज नमस्तेऽस्तु त्रिशूलवरधारिणे

॥३५॥

त्र्यम्बकाय नमस्तेऽस्तु जटामुकुटधारिणे ॥

शेषहार नमस्तेस्तु चिताभस्मांगधारिणे

॥३६॥

कृत्तिवास नमस्तेऽस्तु गिरीशाय नमोनमः ॥

त्रिपुरघ्न नमस्तेस्तु स्मरांतक नमोऽस्तु ते

॥३७॥

मृगव्याध नमस्तेऽस्तु घस्मराय नमोनमः ॥

शंकरात्मन्नमस्तेस्तु सर्वकामफलप्रद

॥३८॥

सर्वसाक्षिन्नमस्तेऽस्तु सर्वभूताशयाकृते ॥

सर्वाधार नमस्तेऽस्तु सर्वशक्तिधराय च

॥३९॥

सर्वभोग नमस्तेऽस्तु सर्वबीजसमुद्भव ॥

दिव्यहास नमस्तेऽस्तु नमोऽमृतस्रवाय च

॥४०॥

काम्यकाम नमस्तेस्तु सर्वकामवरप्रद ॥

नमः शिवाय शांताय पशूनां पतये नमः

॥४१॥

नमो मृडाय दांताय शांतरूपाय वै नमः

॥४२॥

एवं प्रसादितो नागैर्भगवान्वृषभध्वजः ॥

प्रसन्नवदनो भूत्वा प्रत्यक्षः प्राह पन्नगान्

॥४३॥

श्रीमहादेव उवाच

शृणुध्वमुरगाः सर्वे वचस्तथ्यं वदामि वः ॥

नागलोके पुरा नित्यं भिक्षार्थं चागतोस्म्यहम्

॥४४॥

गृहेगृहे भोगवत्यां व्यचरत्क्षुधितो भृशम् ॥

कपालं च करे कृत्वा धृत्वा कंथां सुचीरकाम्

॥४५॥

अप्राप्तभिक्षो भिक्षार्थी पुनरागां ततो गृहम् ॥

तेन पापप्रसंगेन सुधा नष्टा च वः स्थलात्

॥४६॥

किंचित्पुण्यप्रसंगेन महाकालवनोत्तमे ॥

यूयं प्राप्ता महाभागा हित्वा नागालयोत्तमम्

॥४७॥

आबालवृद्धैः सस्त्रीभि दृष्टा शिप्रा सरिद्वरा ॥

यस्या दर्शनमात्रेण सुनिष्पापोऽस्म्यहं पुरा

॥४८॥

शिप्रायां स्नानजं पुण्यं वक्तुं शक्तो न कीदृशम् ॥

दर्शनाज्जायते शंभुस्तत्क्षणाद्भुवि पन्नगाः

॥४९॥

यस्मात्स्नानं कृतं सर्वैः शिप्रायां पन्नगोत्तमैः ॥

तेन पुण्यप्रभावेन सुधास्तु वो गृहेगृहे

॥५०॥

नीत्वा शिप्रोदकं पुण्यं कुण्डेषु परिषिञ्चत ॥

तेनैतानि च कुण्डानि अमृतान्येकविंशतिः

॥५१॥

संपूर्णानि भविष्यंति स्थिराणि पन्नगोत्तमाः ॥

तथेत्युक्त्वा च ते सर्वे धृत्वा शिप्रोदकं करैः

॥५२॥

गतास्ते वै स्वकं लोकं नमस्कृत्वा महेश्वरम् ॥

ततः प्रभृति सा शिप्रा नागलोकेऽमृतोद्भवा

॥५३॥

सर्वलोकेषु विख्याता व्यास शिप्राऽमृतोद्भवा ॥

ये तु तस्यां प्रकुर्वंति नराः स्नानादिकं भुवि

॥५४॥

न तेषां दुष्कृतं किंचिन्नापदो न च दुर्गतिः ॥

न वियोगो भवेत्तेषां पुत्रदारादिकैः कदा

॥५५॥

न च मित्राणि दुष्यंति न रोगो न दरिद्रता ॥

कथां पापहरां पुण्यां सर्वकामवर प्रदाम् ॥

पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत्

॥५६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्येऽमृतोद्भवानामकथावर्णनंनामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥