मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २३

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 23

महाकालेश्वरयात्रामाहात्म्यवर्णनम्

सनत्कुमार उवाच

अथ यात्रां प्रवक्ष्यामि महाकालस्य यत्नतः ॥

शिवां श्रेयस्करीं पुण्यां पुण्यलोकप्रदायिनीम्

॥१॥

स्नात्वा सरसि रुद्रस्य दृष्ट्वा कोटेश्वरं शिवम् ॥

नमस्कृत्य ततो गच्छेन्महाकालं सनातनम्

॥२॥

गन्धैः पुष्पैर्नमस्कारैः संपूज्य त्रिदशेश्वरम् ॥

प्रणिपत्य ततो गच्छेद्देवं कपालमोचनम्

॥३॥

तत्रैव देवदेवेशः कपालं न्यस्तवान्क्षितौ ॥

कपाले तत्क्षणान्न्यस्ते तत्राभूल्लिंगमुत्तमम्

॥४॥

कपालमोचनं नाम सर्वपापप्रणाशनम् ॥

तत्र वै स्नपनं कुर्यादाज्यपलशतेन वै

॥५॥

तदर्धार्धेन पादेन वित्तशाठ्यविवर्जितः ॥

काले पूर्णे स विप्रेन्द्र शिवलोके महीयते

॥६॥

नमस्कृत्य ततो गच्छेत्कपिलेश्वरमुत्तमम् ॥

दर्शनादस्य देवस्य मुच्यते ब्रह्महत्यया

॥७॥

हनुमत्केश्वरं देवं ततो गच्छेत्समाहितः ॥

ऐश्वर्यमतुलं व्यास दर्शनादस्य जायते

॥८॥

ततो गच्छेन्महादेवं पैप्पलाख्यं सनातनम् ॥

यस्य दर्शनमात्रेण मुक्तिः स्याद्द्विजसत्तम

॥९॥

स्वप्नेश्वरं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥

दर्शनादस्य देवस्य दुःस्वप्नं च विनश्यति

॥१०॥

ततो गच्छेन्महादेवमीशानं विश्वतोमुखम् ॥

यस्य दर्शनमात्रेण विश्वस्यैव पतिर्भवेत्

॥११॥

सोमेश्वरं ततो गच्छेज्जितक्रोधो जितेंद्रियः ॥

कुष्ठरोगादिदोषेभ्यो दर्शनादस्य मुच्यते

॥१२॥

वैश्वानरेश्वरं व्यास ततो गच्छेत्समाहितः ॥

तस्य वृद्धिः सदा लोके जायते तस्य दर्शनात्

॥१३॥

बीजपूरकहस्तं तु लकु लीशं ततो व्रजेत् ॥

रुद्रत्वं दर्शनात्तस्य जायते नात्र संशयः

॥१४॥

ततो गच्छेन्महादेवं गद्याणेश्वरमुत्तमम् ॥

यस्य दर्शनमात्रेण जायंते सर्व सिद्धयः

॥१५॥

अभ्यर्थितः सदा देवैः पूजितः सिद्धिकारणात् ॥

तेनाभ्यर्थितेश्वरोऽयं विख्यातो विघ्ननायकः

॥१६॥

वयोवृद्धं ततो गच्छेन्महाकालं सनातनम् ॥

न रोगो न जराव्याधिर्दर्शनान्नात्र संशयः

॥१७॥

विघ्ननाशं ततो गच्छेत्प्राणीशं बलमुत्तमम् ॥

स्नानं घटशतैस्तस्य कुर्याद्भक्त्या समाहितः

॥१८॥

तस्य चैव कृते स्नाने लभ्यंते सर्वसिद्धयः ॥

स्वर्गश्चापि सदा व्यास दर्शनादस्य जायते

॥१९॥

तनयं तमनूल्लंघ्य दंड पाणिं ततो व्रजेत् ॥

यस्य दर्शनमात्रेण यमलोको न दृश्यते

॥२०॥

पुष्पदन्तं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥

यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः

॥२१॥

गुह्यं चैव महाकालं ततो गच्छेत्समाहितः ॥

यस्य दर्शनमात्रेण गुह्यपापैः प्रमुच्यते

॥२२॥

ततो गच्छेत्समाधिस्थो दुर्वासेश्वरमुत्तमम् ॥

यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्

॥२३॥

श्वासावरोधनं कृत्वा दुर्वाससः समीपतः ॥

गौरीं गत्वा महादुर्गां त्यजेच्छ्वासमनंतरम्

॥२४॥

तत्रोच्छ्वासो विमोक्त्यस्तामभ्यर्च्य तु सर्वथा ॥

कालेश्वरं ततो गच्छेद्देवदेवं महेश्वरम्

॥२५॥

यस्य दर्शनमात्रेण यमलोकं न पश्यति ॥

विधीशं च ततो गच्छेद्देवदेवं महेश्वरम्

॥२६॥

यस्य दर्शनमात्रेण बधिरत्वं न जायते ॥

कीर्तयेदात्मनो नाम स्थानं गोत्रं च तस्य वै

॥२७॥

न कीर्तयेद्यदा नाम सा यात्रा विफली भवेत् ॥

देवस्याग्रे ततो व्यास उपविश्य समाहितः

॥२८॥

भक्तियुक्तस्ततो ब्रूयान्नमस्कृत्वा पुनःपुनः ॥

मया समर्पिता यात्रा त्वत्प्रसादान्महेश्वर

॥२९॥

संसारसागराद्धोरान्मामुद्धर जगत्पते ॥

अनेन विधिना यस्तु महाकालं प्रदक्षयेत्

॥३०॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥

गोलक्षं द्विजलक्षाय दत्त्वा यल्लभते फलम्

॥३१॥

तत्फलं देवदेवस्य सकृद्दत्त्वा प्रदक्षिणम् ॥

भक्त्या परमया युक्तो महाकालं प्रदक्षयेत्

॥३२॥

पदेपदे यज्ञफलमिति मे शंकरोऽब्रवीत् ॥

षष्टिकोटि सहस्राणि षष्टिकोटिशतानि च

॥३३॥

पूजितानि भवंत्यत्र यात्रेश्वरसमर्चनात् ॥

य एवं कुरुते यात्रां शिवध्यानपरायणः

॥३४॥

सहस्रदक्षिणां दद्यात्तस्य पुण्यफलं शृणु ॥

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः

॥३५॥

एवं यात्रां समाप्याथ गत्वा निजगृहं नरः ॥

यात्रादैवत संख्यान्वै षड्विंशतिद्विजोत्तमान्

॥३६॥

भोजयेच्छिवभक्तांश्च शिवध्यानपरायणान् ॥

सवस्त्रां दक्षिणां दत्त्वा प्राप्यानुज्ञां विसर्जयेत्

॥३७॥

यात्राक्रमेण चैकैकं द्वारांतरमनुव्रजेत् ॥

धर्मोपदेशके पश्चात्सर्वोपस्करसंयुताम्

॥३८॥

धेनुं पयस्विनीं दद्याद्वित्तशाठ्यविवर्जितः ॥

भुञ्जीताथ स्वयं व्यास सर्वभृत्यसमन्वितः

॥३९॥

दीनानाथदरिद्रांधविकलाद्यांश्च भोजयेत् ॥

यदत्र फलमुद्दिष्टं तद्वदामि शृणुष्व मे

॥४०॥

कुलानां शतमुद्धृत्य मातापित्रोः समाहितः ॥

कल्पकोटिसहस्राणि शिवलोके स मोदते

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालेश्वरयात्रामाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥