मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १३

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 13

स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम्

सनत्कुमार उवाच

स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ॥

श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः

॥१॥

पितॄंश्च स नरो व्यास तारयेदात्मना सह ॥

स्वर्गद्वारेण योऽभ्येति रुद्रस्य परमं पदम्

॥२॥

भैरवस्याग्रतो देवी पूर्वे तिष्ठति चांबिका ॥

तां तु दृष्ट्वा नरः स्त्री वा मुच्यते सर्वपातकैः

॥३॥

महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् ॥

महिषं वा सुरां मांसं मालां बिल्वमयीं शुभाम् ॥

भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात्

॥४॥

तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे ॥

स्वर्गद्वारेण सोऽभ्येति रुद्रस्य भवनं द्विज

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनंनाम त्रयोदशोध्यायः ॥ १३ ॥