अधिमासं समासाद्य योऽन्यत्र स्थितिमात्मनः
सनत्कुमार उवाच
अधिमासं समासाद्य योऽन्यत्र स्थितिमात्मनः ॥
करोति स नरो मूर्खो महाकालवनादृते
॥१॥अधिमासे नरो व्यास तीर्थे पुरुषोत्तमाभिधे ॥
स्नात्वा दत्त्वा च दानानि तेषां लोकाः सनातनाः
॥२॥पुरुषोत्तमं समभ्यर्च्य रमालालितपादकम् ॥
तथैव च उमां देवीं शंकरेण च पूजयेत्
॥३॥वांछितार्थशतं प्राप्य विष्णुलोके महीयते ॥
भाद्रपदे सिते पक्षे एकादश्यां समाहितः ॥
उपोष्य विधिवद्व्यास रात्रौ जागरणं चरेत्
॥४॥विष्णोश्च पूजनं कार्यं जलयात्रा तथैव च ॥
पुरुषोत्तमसरे नित्यं तस्य पुण्यफलं शृणु
॥५॥पुत्रदारधनं सम्यगायुरारोग्यसंपदः ॥
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते
॥६॥तस्य पूर्वतरे भागे जटेश्वरमहेश्वरः ॥
तिष्ठति तापसस्तीरे यत्र राजा भगीरथः
॥७॥तपस्तप्त्वा परं लेभे पुण्यं पुण्यवतां वरः ॥
गंगां भूतलमानीय सर्वलोकसुखाय वै
॥८॥तस्य तीर्थे नरः स्नात्वा तिलधेनुं प्रदापयेत् ॥
सर्वयज्ञफलं प्राप्य पुत्रवाञ्जा यते नरः
॥९॥तस्येशानतरे भागे रामो भार्गवसत्तमः ॥
तपस्तेपे सुधर्मात्मा आत्मकायविशुद्धये
॥१०॥कौशिकी च सरिच्छ्रेष्ठा सर्वतीर्थवरप्रदा ॥
तत्र स्नात्वा नरो जातिहत्यादोषविवर्जितः
॥११॥रामेश्वरं समालोक्य धूतपापो भवेन्नरः
॥१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तमेश्वरमाहात्म्येऽधिमासस्नानदानादिमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥