मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ३४

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 34

शक्तिभेदतीर्थमाहात्म्यवर्णनम्

सनत्कुमार उवाच

तीर्थमन्यत्तथा वक्ष्ये शक्तिभेदमिति स्मृतम् ॥

स्कंदस्य च जटाभद्रं चक्रे यत्र पुरा शिवः

॥१॥

तारकं च तथा दैत्यं हत्वा यत्र सुरद्विषम् ॥

शक्तिं स्कंदः स्वयं क्रुद्धो निश्चिक्षेप महीतले

॥२॥

व्यास उवाच

भगवन्ब्रूहि यत्नेन संशयो मे महामुने ॥

कथं स्कंदः समुत्पन्न एतदिच्छामि वेदितुम्

॥३॥

सनत्कुमार उवाच

पुरा देवासुरे युद्धे निर्जिता दानवैः सुराः ॥

दिवं त्यक्त्वा दिशो याताः शक्राद्या भयविह्वलाः

॥४॥

तत्र तु देव राजेन तपसोग्रेण वै मुने ॥

आराधितो महादेवस्त्र्यंबकस्त्रिपुरांतकः

॥५॥

ततस्तुष्टो महादेवः शक्रस्याभिमुखः स्थितः ॥

उवाच वचनं श्लक्ष्णं वरमिष्टं ददामि ते

॥६॥

शक्र उवाच

यदि तुष्टोऽसि भगवन्कारुण्यान्मम शंकर ॥

महासेनापतिं देव प्रयच्छ परमेश्वर

॥७॥

हर उवाच

उत्पादयामि देवेषु स्ववीर्यादूर्जितं सुतम् ॥

सेनान्यां च महासेनं सुराणां भयहारकम्

॥८॥

सनत्कुमार उवाच

इत्युक्त्वांतर्दधे देवः सर्वभूतपतिर्हरः ॥

सुतचिंतापरो देवो जगाम च हिमालयम्

॥९॥

देवदारुवने तस्थौ ज्ञानध्यानपरोऽभवत् ॥

ब्रह्मादयोऽपि यं देवं योगिनो ध्यानचिंतकाः

॥१०॥

ध्यायंति नियतात्मनः प्राणायामपरा मुने ॥

लिंगमूर्तिश्च यो नित्यं पूज्यते सर्वजंतुभिः

॥११॥

स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः ॥

वं ध्यानपरे देवे देवी हिमवतो गृहे

॥१२॥

मध्ये वयसि वर्तंती यासीद्दाक्षायणी सती ॥

पितुर्गेहे निजो देहो यया योगाद्विसर्जितः

॥१३॥

निमंत्रितो न मे भर्ता इति कोपं चकार या ॥

तां देवीं हिमवान्पूर्वं श्रुत्वा देवर्षिनारदात्

॥१४॥

भवभार्या भवित्रीति नान्यं वरमचिंतयत् ॥

तपस्यति च रुद्राय सा सखीभ्यां समन्विता

॥१५॥

कथं हि शंकरो देवो मम भर्ता भविष्यति ॥

यावदेवं गतो देवो देवी हिमवतः सुता

॥१६॥

ततः समागता देवाः कृत्वाग्रे बलसूदनम् ॥

जग्मुर्ब्रह्मसदः पुण्यं द्रष्टुं ब्रह्माणम व्ययम्

॥१७॥

ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन् ॥

शरणं भव देवानां दानवैर्विजितात्मनाम्

॥१८॥

ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम् ॥

नैतच्छंभोर्विना वीर्यात्कार्यसिद्धिर्भविष्यति

॥१९॥

तथा यतध्वं देवेशं यथा वांछति पार्वतीम् ॥

इत्युक्त्वांतर्दधे ब्रह्मा स्वप्ने लब्धं धनं यथा

॥२०॥

ततो मेरुं समागत्य पुनर्मंत्रं प्रचक्रिरे ॥

तेषामाहेदृशं शक्रस्तुष्टः शंभुः पुरा मम

॥२१॥

प्रतिपन्नं च देवेन स्वांगात्सेना पतिं प्रति ॥

तस्मादेवं गते कार्ये कारणं मकरध्वजः

॥२२॥

इति संचित्य देवेशः काममाहूय सत्वरम् ॥

उवाच वचनं हृद्यं देवाना मनुकंपया

॥२३॥

यथा देवो भजेद्देवीं तथा काम विधीयताम् ॥

कारणं महदेतद्वै देवानां समुपस्थितम्

॥२४॥

कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह ॥

करिष्ये सर्वमेवं हि सखा मे चेद्भवेन्मधुः

॥२५॥

तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनंतरम् ॥

समादिष्टो मधुः क्षिप्रं कामस्यानुचरो भव

॥२६॥

लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह ॥

कृत्वा सज्यं धनुर्बाणं पौष्पं पाणौ समाहितः

॥२७॥

यत्र देवाधिदेवेशो देवदारुवने स्थितः ॥

नन्दीश्वरः प्रतीहारः कृतध्यानोऽवतिष्ठति

॥२८॥

चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम् ॥

संदधात्यंतरे चास्मिन्देवी प्राप भवाश्रमम्

॥२९॥

त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः ॥

ततो विलोकयामास दिशः सर्वाः प्रयत्नतः

॥३०॥

चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः ॥

भस्मीकृतस्तृतीयाक्ष्णा वह्निज्वालावता ततः

॥३१॥

देवोऽप्यन्तर्दधे तस्मात्स्थानादाशु गणैः सह ॥

पार्वती विस्मिता साध्वी लज्जिता दुःखिताऽभवत्

॥३२॥

हिमवांस्तां समुत्थाप्य निनायाशु निजं गृहम् ॥

गते देवे च देव्यां च कामपत्नी सुदुः खिता

॥२३॥

भस्मीकृतं पतिं दृष्ट्वा विललाप सुदुःखिता ॥

दृष्ट्वा रतिं सुदुःखार्ता वागुवाचाशरीरिणी

॥३४॥

आश्वासयंतीं कृपया सखीमिव सुदुः खिताम् ॥

मा रोदीस्त्वं शुभापांगि तव भर्ता करिष्यति

॥३५॥

सर्वकार्याण्यनंगोपि मित्रकार्यं विधानतः ॥

यदा चायं महादेवः परिणेष्यति पार्वतीम्

॥३६॥

ततः शंभोरनुध्यानात्थास्यति न संशयः ॥

द्वापरांते यदा कृष्णो द्वारकायां निवत्स्यति

॥३७॥

तत्पुत्रो भविता देही प्रद्युम्नोनाम ते पतिः ॥

इत्युक्ता साऽजहाच्छोकमाकाशाज्जातया गिरा

॥३८॥

अचिंतयत्तदा देवी उमापि हिमवद्गृहे ॥

कामस्य दहनं तेजः शंभोर्यत्तदनुत्तमम्

॥३९॥

कथं भर्त्ता भवेद्देवः कामस्योत्थापनं कथम् ॥

नैतत्तपो विना कार्यं क्वचित्कस्यापि सिध्यति

॥४०॥

एवं संचिंतयित्वाथ सखीभिः सहिता ततः ॥

तपश्चकार सुमहत्पित्रादेशाच्छुभव्रता

॥४१॥

वर्षास्वभ्रावकाशस्था हेमंते जलशायिनी ॥

ग्रीष्मे पंचाग्नितप्तांगी तपस्युग्रे समा स्थिता

॥४२॥

तां दृष्ट्वा तपसोपेतां ब्रह्मचारिवया हरः ॥

आजगामाश्रमं देव्याः कृतातिथ्योऽब्रवीदिदम्

॥४३॥

कृशमध्ये कृशापांगि किमर्थं नवयौवने ॥

तपः करोषि कल्याणि कस्यार्थे कारणं वद

॥४४॥

उवाच चोत्तरं सा वै सत्यं च मधुरं तथा ॥

बटो तपःसमारंभः क्रियते शंकरा प्तये

॥४५॥

विचार्य च हरः श्रुत्वाऽनंदयत्कार्यमात्मनः ॥

उमाभक्तिपरीक्षार्थं शिवं वाचा निनिन्द वै

॥४६॥

तस्य तद्वचनं श्रुत्वा न सेहे सा गिरेः सुता ॥

गंतुकामामुमां मत्वा तस्मात्स्थानान्महेश्वरः ॥

स्वं वपुर्दर्शयामास त्रिनेत्रं शूलपाणिनम्

॥४७॥

लज्जिताभूद्भवानीशं दृष्ट्वा तस्थावधोमुखी ॥

विजयाथाह योगीन्द्रं प्रार्थ्या चाभिजने त्वियम् ॥

पार्वतीहरणार्थाय यत्नं च प्रकरोम्यहम्

॥४८॥

इत्युक्त्वांतर्दधे देवो देव्यागाच्च पितुर्गृहम् ॥

देवीलाभाय सप्तर्षीन्सस्मार स्मरशासनः

॥४९॥

प्रणेमुस्तेप्यथागम्य संस्मृताः परमेश्वरम् ॥

ऊचुश्च प्रांज लिपुटाः कुर्म किं शाधि नो भृशम्

॥५०॥

ततोऽब्रवीन्मुनीनीशः समस्तांश्च गिरेर्गृहम् ॥

गत्वा तथा कुरुध्वं मे पार्वती स्याद्यथा प्रिया

॥५१॥

तथेति ते प्रतिज्ञाय संकेतं शंभुना समम् ॥

कृत्वा जग्मुः सपत्नीका गिरींद्रस्य निवेशनम्

॥५२॥

दत्तार्घा भूधरेंद्रेण कृतासन परिग्रहाः ॥

ऊचुरद्रिमुमां यच्छ शंकरायार्थिने प्रियाम्

॥५३॥

दत्तेत्युक्ता गिरींद्रेण निरूप्योद्वाहवासरम् ॥

लब्ध्वानुज्ञां समायाता यत्रास्ते स महेश्वरः

॥५४॥

ऊचुस्ते शंकरं सर्वे दत्ता हिमवता शिवा ॥

कृतकार्याश्च सर्वेऽपि वव्रजुस्ते यथागतम्

॥५५॥

चक्रुर्विवाह सामग्रीं ब्रह्मेन्द्रादिसुरास्तदा ॥

वृषासनो जगामाथ नंदीशप्रमुखैर्गणैः

॥५६॥

शंखदुंदुभिनादैश्च ब्रह्माद्यैरमरैः सह ॥

प्राप्यागेंद्रालयं हीशः कृतकौतुकमंगलः

॥५७॥

विवाह्येमां विधानेन जगाम स्वालयं पुनः ॥

तत्रैकांतरतिर्देवो यावत्तिष्ठति कामवान्

॥५८॥

तावत्त्रस्तैः सुरैरग्निः प्रेषितोऽगान्महेश्वरम् ॥

अग्नौ तत्र गते देवो रतिं कृत्वा महेश्वरः

॥५९॥

निचिक्षेप मुखे वह्नेः स्वरेतो व्रीडितो भृशम् ॥

रेतसा तेन तप्तो ऽग्निर्गंगातोये निक्षिप्तवान्

॥६०॥

हररेतोऽग्निनोद्गीर्णं गंगामध्ये पपात ह ॥

तया तु स्वतटे न्यस्तं दग्धया रुद्ररेतसा

॥६१॥

सप्तर्षीणां च षट्पत्न्यः स्नानार्थं जाह्नवीं ययुः ॥

शीतार्तास्ताः कृतस्नाना दृष्ट्वा तेजस्तटे ज्वलत्

॥६२॥

मत्वाग्निमिति ताः सर्वास्तपंति स्म यथेच्छया ॥

तपंतीनां च वै तासां तद्बीजसंभव मुने

॥६३॥

षडाननं समारूढं श्रोणिद्वारेण सत्वरम् ॥

यदान्योन्यमुत्पतितुं शक्ता नाग्निपुरोगमात्

॥६४॥

चिंतां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात् ॥

ततश्च तपसो वीर्यान्निष्कृष्य स्वोदरात्ततः

॥६५॥

षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके ॥

मध्ये शराणां वै कृत्य निक्षिप्तं वीर्यमुत्तमम्

॥६६॥

शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः ॥

तृतीयायां च साकारः सर्वलक्षणलक्षितः

॥६७॥

चतुर्थ्यां परिपूर्णांगः षण्मुखो द्वादशेक्षणः ॥

अलंकृतस्तु पंचम्यां षष्ठ्यां च स समुत्थितः

॥६८॥

तेजसा श्वेतताम्रेण तताप स जगत्त्रयम् ॥

जातमित्थं समाकर्ण्य सर्वे शक्रमुखाः सुराः

॥६९॥

समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि ॥

तुष्टेन पार्वतीशेन शक्तिर्दत्ता दृढा शुभा

॥७०॥

ततो गौर्या मयूरश्च वाहने परिकल्पितः ॥

छागश्चैवाग्निना दत्तः कुक्कुटं सरितां पतिः

॥७१॥

शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया ॥

ततस्तु प्राप्तसंस्कारो ब्रह्माद्यैरभिनंदितः

॥७२॥

शक्तिहस्तोऽभिषिक्तस्तु देवसेनासमादृतः ॥

वित्ताधिपेन साह्येन पावकिः पण्मुखों ऽशतः

॥७३॥

गांगेयः कार्तिकेयश्च गुहः स्कंद उमासुतः ॥

देवसेनापतिः स्वामी सेनानीश्च शिखिध्वजः

॥७४॥

कुमारः शक्तिधारी च तस्य नामानि षोडश ॥

यः पठेन्मानवो भक्त्या बाधा तस्य न जायते

॥७५॥

एवं जातो महासेनो दानवानां क्षयकरः ॥

कुशस्थल्यां समानीतः शंभुना स्थानकारणात्

॥७६॥

अभिषिक्तः स तेनासौ भद्रितः स जटाः पुरा ॥

तेन भद्रजटंनाम देवतीर्थं च कथ्यते

॥७७॥

कृताभिषेकं लब्धास्त्रं महासेनं महेश्वरः ॥

तमुवाच समधुरं सर्वदेवसमागमे

॥७८॥

रक्षा कार्या त्वया पुत्र सामरस्य शतक्रतोः ॥

देवानां बाधकाः सर्वे निहंतव्याः सुरद्विषः

॥७९॥

इत्थं महोत्सवे जाते दृप्तप्रमथसागरे ॥

मातरोऽन्वागताः सर्वाः पातालतलसंस्थिताः

॥८०॥

तासामाहारसंज्ञाभिश्चक्रे नामानि शंकरः ॥

यानि तानि प्रवक्ष्यामि शृणु त्वं मुनिपुंगव

॥८१॥

वटभोजनकामा या ज्ञेयास्ता वटमातरः ॥

भुञ्जते चर्पटान्यास्तु ता वै चर्पटमातरः

॥८२॥

क्रीडार्थं शंभुना चाथ प्राप्ता याः पौलभोजने ॥

षण्णवतिमातरः सत्याः सर्वास्ताः पौलमातरः

॥८३॥

सर्वासां दर्शनं पुण्यं ग्रहभूतविनाशनम् ॥

प्रयत्नतः सदा देव्यो द्रष्टव्या मानवैर्मुने

॥८४॥

लब्ध्वा शक्तिं महासेनो देवसेनो महाव्रतः ॥

जघान दानवेंद्रं तं तारकं तरसा तदा

॥८५॥

दत्त्वा राज्यं तथेंद्राय स्फीतं निहतकंटकम् ॥

कुशस्थलीं समागम्य तत्र वासं समाचरत्

॥८६॥

एवं निहत्य दैत्येंद्रं स गांगेयो महाब लः ॥

शक्तिं शिप्राजले मुक्त्वा पातालं च बिभेद सा

॥८७॥

ततो भोगवती व्यास शक्तिभेदेन निर्गता ॥

वंदिता सर्वदेवैश्च मुनिभिश्च तपोधनैः

॥८८॥

पृथिव्यां यानि तीर्थानि समुद्रादिगतानि च ॥

शक्तिभेदे तु न्यस्तानि शतकोटिसहस्रशः

॥८९॥

अतोऽतिपुण्यं त्रैलोक्ये कोटितीर्थमुदाहृतम् ॥

ब्रह्मणा स्थापितस्तत्र कोटितीर्थेश्वरः शिवः

॥९०॥

कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ॥

मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगः

॥९१॥

श्राद्धं करोति यस्तत्र पितृभक्तो नरो मुने ॥

दशानामश्वमेधानां प्राप्नोति सकलं फलम्

॥९२॥

पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते ॥

तत्सर्वं कोटिगुणितं जायते नात्र संशयः

॥९३॥

तत्र तीर्थे नरो यस्तु गां ददाति पयस्विनीम् ॥

सर्वलोकानतिक्रम्य स गच्छेत्प रमां गतिम्

॥९४॥

यावन्त्यंगेषु रोमाणि तत्प्रसूतिकुलेषु च ॥

तावद्युगसहस्राणि शिवलोके महीयते

॥९५॥

पौर्णमास्याममावास्यां पश्येच्छक्तिधरं तु यः ॥

नापुत्रो नाधनो रोगी सप्तजन्मसु जायते

॥९६॥

जलप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तमः ॥

सोऽक्षयं लभते लोकं यावच्चन्द्र दिवाकरौ

॥९७॥

वृषोत्सर्गं तु यः कुर्यात्पितृभक्तो नरो मुने ॥

सोऽक्षयं लभते स्थानं यत्सुरैरपि दुर्लभम्

॥९८॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शक्तिभेदतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥