आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽवंत्यभिधानकथावर्णनम्
सनत्कुमार उवाच
पुरा चैशानकल्पे तु स्मृतावंती यथा पुरी ॥
तथा शृणु सुरैः पूर्वं दैत्यसैन्यपराजितैः
॥१॥आश्रितं मेरुशिखरं वनकंदगुहावृतम् ॥
तत्र गत्वा द्विजश्रेष्ठ मंत्रं च चक्रुरुद्यताः
॥२॥अन्योन्यं च समासाद्य समभ्यर्च्य परस्परम् ॥
जग्मुः सर्वे सुरगणा यत्र ब्रह्मा प्रजापतिः
॥३॥निवेदयांचक्रिरे सर्वं तत्रागमनकारणम् ॥
तेषां तद्वचनं श्रुत्वा देवानां स प्रजेश्वरः
॥४॥जगाम त्रिदशैः साकं देवदेवं महेश्वरम् ॥
स चापि ह्यगमत्तत्र वैकुठं धाम यत्र वै
॥५॥ऋद्धिसिद्धिप्रदं नित्यं मुनिचारणसेवितम् ॥
किन्नरैर्गीयमानं च अप्सरोगणसेवितम्
॥६॥ऋषिभिर्भार्गवादिभिर्देवर्षिनारदोत्तमैः ॥
सिद्धगंधर्वमुख्यैश्च कुमारैः सनकादिभिः
॥७॥प्रजापतिगणाकीर्णं मानवैश्च चतुर्दशैः ॥
वसुभिर्विश्वेदेवैश्च पितॄणामुत्तमैर्गणैः
॥८॥संसेव्यं च सदाचारैः पुण्यवद्भिर्जनैस्तथा ॥
दिव्यं दिव्यैश्च प्रासादैर्दिव्यपादपशोभितम्
॥९॥मणिरत्नैश्च सोपानै र्दिव्यं सरसशोभितम् ॥
हंसकारंडवाकीर्णं मणिभाभिः सुभास्वरम्
॥१०॥षडूर्मिरहितं स्थानं यत्र तिष्ठन्ति पक्षिणः ॥
तत्र गत्वा सुराः सर्वे वासु देवदिदृक्षया ॥
स्तुतिमारेभिरे कर्तुं देवदेवजगत्पतेः
॥११॥देवा ऊचुः
नमोऽनंताय बृहते कूर्माय वै नमोनमः
॥१२॥नृसिंहरूपायोग्राय नमो वाराहरूपिणे ॥
राघवाय च रामाय ब्रह्मणेऽनंतशक्तये
॥१३॥वासुदेवाय शांताय यदूनां पतये नमः ॥
नमो बुद्धाय शुद्धाय कल्कये म्लेच्छनाशिने
॥१४॥इति स्तवाभियुक्तानां वागुवाचाशरीरिणी ॥
शृणुध्वं भोः सुराः सर्वे भूत्वा चैकाग्रमानसाः
॥१५॥महाकालवने रम्ये ब्रह्मर्षिगणसेविते ॥
तत्र पुण्या पुरी ह्येका सर्वकामफलप्रदा
॥१६॥नाम्ना कुशस्थली रम्या सिद्धगंधर्वसेविता ॥
कल्पादौ कल्पमध्ये वा यत्र संनिहितो हरः
॥१७॥कल्पक्षये क्षयं यांति स्थावराणि चराणि च ॥
तीर्थानि चैव सर्वाणि पुण्यान्यायतनानि च
॥१८॥सरितः सागराः सर्वे सरांस्युपवनानि च ॥
औषधीर्वृक्षवल्लीश्च यंत्रं मंत्रं शुभाशुभम्
॥१९॥ज्योतींषि चंद्रसूर्यौ च सर्वं विष्णुमयं जगत् ॥
तेषां बीजं च पुण्यं च जीवकर्माशय तथा
॥२०॥सर्वमादाय भगवाञ्छंकरस्तत्र तिष्ठति ॥
सर्वतीर्थमयी गंगा सर्वदेवमयो हरिः
॥२१॥सर्वयज्ञमयो वेदः सर्वधर्ममयी दया ॥
रेवा च सरितां श्रेष्ठा भुवि पुण्यकृताधिका
॥२२॥तस्माद्धितकरं क्षेत्रं कुरूणां वै सुरोत्तमाः ॥
तस्माद्दशगुणं मन्ये प्रयागं तीर्थमुत्तमम्
॥२३॥तस्माद्दशगुणा काशी काश्या दशगुणा गया ॥
ततो दशगुणा प्रोक्ता कुशस्थली च पुण्यदा
॥२४॥उपरागसहस्राणि व्यतिपातायुतानि च ॥
अमालक्षं तु एतस्याः कलां नार्हंति षोडशीम्
॥२५॥लक्षमिंदुक्षये दानं सहस्रं चायनद्वये ॥
व्यतीपाते च कोटिः स्याद्रा कायां च ह्यनंतकम्
॥२६॥तस्माद्धितकरा देवा पुरी ह्येषा कुशस्थली ॥
अनंताऽनंतसंख्यातं दानं किंचित्कृतं नरैः
॥२७॥तत्सर्वं भोः सुरश्रेष्ठाः सर्वं तच्चाक्षयं भवेत् ॥
तस्मात्सर्वप्रयत्नेन यूयं यात हि मा चिरम्
॥२८॥क्षीणपुण्या भवंतो वै बाधंते तेन वः सुराः ॥
महाकालवने रम्ये पुरी ह्येषा कुशस्थली
॥२९॥तत्र गत्वा भवंतो वै स्नानदानादिकं भुवि ॥
आचरध्वं सुविधिना पुण्यात्स्वर्गमवाप्स्यथ
॥३०॥एतच्छुत्वा वचस्तस्या वाण्याश्चाकाशगं तदा ॥
प्रणम्य शिरसा तस्यै ब्रह्मेशानपुरोगमाः
॥३१॥पुनर्जग्मुः सुराः सर्वे यत्र माहेश्वरं वनम् ॥
पुरीं चैव द्विजश्रेष्ठ सर्वकामफलप्रदाम्
॥३२॥चातुर्वर्ण्यसमाकीर्णामृषिगंधर्वसेविताम् ॥
पुण्यवद्भिर्जनैः पूर्णां सिद्धचारणसेविताम्
॥३३॥दरिद्रो न जडो मूर्खो न रोगी न च मत्सरी ॥
न व्याधितो नापकारी जनः क्वचित्प्रदृश्यते
॥३४॥दाता शांताः सुशीलाश्च जरारोगविवर्जिंताः ॥
स्वधर्मनिरता नित्यं सदाचारातिथिप्रियाः
॥३५॥नरा यत्र निवसंति नार्यश्चैव पतिव्रताः ॥
महोत्सवाः सुगीतानि हव्यं कव्यं गृहेगृहे
॥३६॥ईदृशीं च पुरीं दृष्ट्वा देवा हर्षं परं गताः ॥
तत्र तीर्थं समाख्यातं नाम्ना पैशाचमोचनम्
॥३७॥पुण्यवद्भिः सदा सेव्यं सर्वतीर्थनिषे वितम् ॥
तस्मिन्स्नात्वा च जप्त्वा च हुत्वा दत्त्वा च देवताः
॥३८॥पुण्यं चाथाक्षयं लब्ध्वा पुनर्याताः सुरालयम् ॥
जित्वाऽसुरान्महादुष्टान्स्थानं प्राप्ताः स्वकंस्वकम्
॥३९॥येऽस्यां कुर्युर्महाभागाः स्नानं दानं तथार्चनम् ॥
हवनं तर्पणं पितॄंस्तत्सर्वं स्याद्ध्यनंतकम्
॥४०॥तस्मात्सर्वप्रयत्नेन एतत्कार्यं सदा बुधैः ॥
देवतीर्थोषधीबीजभूतानां चैव पालनम्
॥४१॥कल्पेकल्पे च यस्यां वै तेनावंती पुरी स्मृता ॥
अद्यप्रभृति पुरी ह्येषा नाम्नावंती कुशस्थली
॥४२॥इत्युक्त्वा वै तदा देवाः स्वधाम परमं गताः ॥
तदारभ्य द्विजश्रेष्ठ ह्यवंती भुवि विश्रुता
॥४३॥य एतां सुकथां दिव्यां पुण्यां च पापहारिणीम् ॥
शृणुयाच्छ्रावयेद्यो वै सर्वपापैः स मुच्यते
॥४४॥अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥
वाजपेयसहस्राणां राजसूयशताधिकम्
॥४५॥पुण्यं लब्ध्वा नरो नित्यं शिवलोके महीयते
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽवंत्यभिधानकथावर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥