विचित्रमिदमाख्यातं गयामाहात्म्यमुत्तमम्
व्यास उवाच
विचित्रमिदमाख्यातं गयामाहात्म्यमुत्तमम् ॥
भगवन्भवता सर्वं विदितं विश्वमूर्तिना
॥१॥तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम् ॥
क्षेत्रस्य च द्विजश्रेष्ठ विस्तरेण तपोधन
॥२॥कियंतः पितरो नित्यं तृप्ता यांति सुरालयम् ॥
केषां के पितरः प्रोक्ताः किमुद्देश्याः पुराऽनघ
॥३॥सनत्कुमार उवाच
धन्योऽसि कृतकृत्योऽसि यस्य ते नैष्ठिकी मतिः ॥
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम्
॥४॥श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः ॥
श्राद्धे यज्ञा हि तिष्ठंति सर्वकर्मफलप्रदाः
॥५॥श्रद्धया दीयते किंचिद्दैवं ब्रह्माग्नितर्पणम् ॥
श्राद्धं तु तद्विजानीयात्पुरा प्रोक्तं मह र्षिणा
॥६॥मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः ॥
गंधर्वाः किन्नरा नागा ब्रह्मेशानसुरेश्वराः
॥७॥त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः ॥
प्राप्नुवन्त्यखिलान्कामान्सर्वान्व्यास मनोगतान्
॥८॥एवं परंपरामार्गं प्रवर्तंते सनातनम् ॥
तथापि पितरो ह्येते समाख्याततमा भुवि
॥९॥तत्सर्वं संप्रवक्ष्यामि यथा श्रुतं तथा शृणु ॥
त एते पितरो देवा देवाश्च पितरस्तथा
॥१०॥अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह ॥
मार्कंडेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम
॥११॥निबोध त्वं मतं सर्वं यदुक्तं तत्समाहितः ॥
यावंतस्ते पितृगणास्तस्मिँल्लोके च ये गताः
॥१२॥सनत्कुमार उवाच
सप्तैते यजतां श्रेष्ठाः सर्वे पितृगणाः स्मृताः ॥
चत्वारो मूर्तिमंतो वै त्रयस्तेषां च मूर्तयः
॥१३॥तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छणु ॥
प्रभावं त्वं महत्त्वं च विस्तरेण तपोधन
॥१४॥धर्ममूर्तिधरास्तेषां तपो ये परमं गताः ॥
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु
॥१५॥लोकाः सनातना नाम यत्र तिष्ठंति भास्वराः ॥
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः
॥१६॥विराजस्य द्विजश्रेष्ठ वैराजा इति नः श्रुतम् ॥
यजन्ते तान्देवगणा विधिदृष्टेन कर्मणा
॥१७॥एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ॥
पुनर्युगसहस्रांति जायंते ब्रह्मवादिनः
॥१८॥ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम् ॥
यांति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम्
॥१९॥एते स्युः पितरस्तात योगिनां योगवर्धनाः ॥
आप्याययन्ति ये पूर्वं सोमं योगबलेन वै
॥२०॥तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम ॥
एष वै प्रथमः कल्पः सोमपानामनुत्तमः
॥२१॥एतेषां मानसी कन्या मेना नाम महागिरेः ॥
पत्नी हिमवतः श्रेष्ठा यस्यां मैनाक उच्यते
॥२२॥मैनाकस्य सुतः श्रीमान्क्रौंचो नाम महागिरिः ॥
अग्निष्वात्ताः पितृगणास्तत्र तिष्ठंति भास्वराः
॥२३॥याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम् ॥
सोमपाश्चोत्तरां प्राप्ता दिशं धनदपालिताम्
॥२४॥अमूर्तिमंतावाकाशे कव्यवाडनलौ क्षितौ
॥२५॥यक्षरक्षःपिशाचाश्च यजंते भावितात्मनः ॥
साध्या देवान्यजन्ति स्म विश्वेदेवा ऋषींस्तथा
॥२६॥मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम् ॥
एवं परंपराप्राप्तः श्राद्धधर्मः सनातनः
॥२७॥देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते ॥
भरद्वाजात्मजाः सप्त श्राद्धधर्मपराय णाः
॥२८॥जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः ॥
गुरोश्च दोग्ध्रीं गां हत्वा सप्तैते वै द्विजाधमाः
॥२९॥पितॄनुद्दिश्य ते सर्वे भक्षयंतः क्षुधा र्दिताः ॥
तेन पुण्यप्रभावेन योगभ्रष्टा दिवं गताः
॥३०॥सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे ॥
तस्माच्छ्राद्धं परं प्रोक्तं सूरिभिः परमात्मभिः
॥३१॥श्राद्धे प्रतिष्ठिता लोकाः श्राद्धे योगः परंतप ॥
एवं ते पितरः प्रोक्ताः श्राद्धस्य च विधिं शृणु
॥३२॥ब्रह्मचर्यरतो दांतो न क्रोधी न च मत्सरी ॥
शौचाचारपरो धीरः शास्त्रदृष्टिर्जितेंद्रियः
॥३३॥एवं यः कुरुते श्राद्धं तीर्थे चैव विशेषतः ॥
ततोऽधिकतरा प्रोक्ता तृप्तिर्व्यास क्षयेऽहनि
॥३४॥वृद्धिश्राद्धे तथा प्रोक्ता महालये शताधिका ॥
ततो दशगुणा प्रोक्ता प्रयागे द्विजसत्तम
॥३५॥प्रयागाद्दशगुणा तृप्तिः कुरुक्षेत्रे च सत्तम ॥
कुरुक्षेत्रात्ततो व्यास दशाधिका गया स्मृता
॥३६॥ततो दशाधिका व्यास महाकालवने शुभे ॥
अवंत्यां सर्वतः पुण्यं गयातीर्थे च सर्वदा
॥३७॥येषां निरयमापन्नाः पितरो जन्मजन्मनि ॥
तेषामुद्धरणार्थाय तीर्थमेतत्सुदुर्लभम्
॥३८॥सकृत्स्मरणमात्रेण पितॄणा दत्तमक्षयम् ॥
ये नरा रणमध्यस्थाः पितृवंशविवर्जिताः
॥३९॥गर्भपाते मृता ये च नामगोत्रच्युतास्तथा ॥
स्वगोत्रे परगोत्रे वा आत्मघातमृताः परे
॥४०॥तेषामुद्धरणार्थाय तत्र श्राद्धं विधीयताम् ॥
उद्बंधनमृता ये च विषशस्त्रैर्मृताश्च ये
॥४१॥दष्ट्रिभिर्व्यंगतो वापि दौर्ब्राह्मण्ये मृताश्च ये ॥
तेषामुद्धर णार्थाय अत्र श्राद्धं विधीयते
॥४२॥अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे
॥४३॥विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥४४॥रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥
अनेकयातनासंस्थाः प्रेतलोके च ये गताः
॥४५॥असिपत्रवने घोरे कुंभीपाके च ये गताः ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥४६॥उदकेषु मृता ये च नारीसूतीमृतास्तथा
॥४७॥अश्वसूकूरकृमिदंष्ट्रिश्वशृंगिशकटाहताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥४८॥भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः ॥
शलभैर्वृश्चिकैर्दंष्ट्रिचोरैर्ये चापि घातिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥४९॥अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः ॥
विषूचिकामृता ये च ये चातीसारतो मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५०॥शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः ॥
अस्पृश्यस्पर्शसंस्पृष्टाः पापा अपत्यवर्जिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५१॥जन्मांतरसहस्राणि भ्रमंति स्वेन कर्मणा ॥
मानुषं दुर्लभं येषां तेभ्यः श्राद्धं विधीयताम्
॥५२॥येऽन्यजन्मन्यबांधवा येऽन्यजन्मनि बांधवाः ॥
येऽन्यजन्मनि संबद्धा मित्रामित्रे तथा परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५३॥पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५४॥ये मे कुले लुप्तर्पिडाः पुत्रदारादिवर्जिताः ॥
क्रियालोपगता ये च तेभ्यः श्राद्धं विधीयते
॥५५॥पंगुकुब्जा विरूपाश्च आमगर्भाश्च ये मृताः ॥
ज्ञाताऽज्ञाताः कुले ये च तेभ्यः श्राद्धं विधीयते
॥५६॥आब्रह्मभुवनाद्ये च अन्यैर्दुर्मरणैर्मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५७॥तृषार्ताः क्षुधिताश्चैव हापिताश्चैव ये मृताः ॥
प्रेतयोनिं गताश्चैव म्लेच्छयोनिं गताश्च ये ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
॥५८॥एवं श्राद्धविधिं व्यास तस्मिंस्तीर्थे समाचरेत् ॥
ऋणत्रयविनिर्मुक्तो वांछितार्थं लभेत सः ॥
गयायां च समासाद्य सुरा इंद्रपुरोगमाः ॥
चक्रुश्च विधिवत्सर्वे यदुक्तं देवभाषया
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयामाहात्म्ये श्राद्धविधिवर्णनंनामाष्टापञ्चाशत्तमोऽध्यायः ॥ ५८ ॥