मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ४१

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 41

शृणु व्यास यथेयं तु प्रोच्यते हि कुशस्थली

सनत्कुमार उवाच

शृणु व्यास यथेयं तु प्रोच्यते हि कुशस्थली ॥

कल्पे तत्पुरुषे पूर्वं वेदविद्भिर्मनीषिभिः

॥१॥

वेधसा सृजितं विश्वं दैत्यदानवरा क्षसम् ॥

अन्योन्यमदसंमत्तमन्योन्यद्वेषि वै रणे

॥२॥

देवाश्च दानवाः संख्ये नित्यं स्पर्धासमन्विताः ॥

मनुष्या मनुजैः सार्धं सिद्धविद्याधरैः सह

॥३॥

चारणाः किंनरैः सार्धमेवं ते द्वेषतत्पराः ॥

युद्धं कुर्वंति सततमविस्पष्टार्थया गिरा

॥४॥

सर्वे चैव च बलिनो दुर्बलैर्मनुजैः सह ॥

पशवः पशुभिः सार्धं पक्षिणः सह पक्षिभिः

॥५॥

एवमन्योन्यमन्यैश्च निर्मर्यादमिदं जगत् ॥

दृष्ट्वा विश्वस्य कर्तारं विष्णुं विश्वेश्वरं परम्

॥६॥

व्रजामि शरणं देवं शरणार्त्तिहरं हरिम् ॥

एवं मनसि संधाय दध्यौ ध्यानेन माधवम्

॥७॥

ततो ध्यातो महायोगी विश्वरूपधरो हरिः ॥

लोहदण्डधरः श्रीमानिदमाह पितामहम्

॥८॥

ब्रह्मन्ध्यातस्त्वया सम्यग्ध्यानयोगेन पश्य माम् ॥

समायांतं तथा ध्यातं जगतां पातुमुद्यतम्

॥९॥

ततो धाता निशम्यैतत्त्यक्त्वा ध्यानमवेक्ष्य तम् ॥

समुत्थायैकमनसा नमश्चक्रेऽर्चयत्पुनः

॥१०॥

पाद्येनाचमनीयेन मधुपर्केण केशवम् ॥

पूजयित्वा पुनर्वाक्यमुवाचाच्युतमब्जजः

॥११॥

ब्रह्मोवाच

देवदेव जगन्नाथ जगत्सृष्टमिदं त्वया ॥

ऋते त्वया जगद्विष्णो नैवावस्थातु मर्हति

॥१२॥

शास्ता त्वमस्य विश्वस्य विशुद्धस्य च नापरः ॥

त्वत्तोस्तीदं जगत्सर्वं तस्मात्त्वमनुशासय

॥१३॥

देवदानवगंधर्वाः सयक्षो रगराक्षसाः ॥

त्वामृते पुण्डरीकाक्षं व्यापिताशेषविग्रहाः ॥

परस्परं विनिघ्नंति तांश्च त्वं रक्षितुं क्षमः

॥१४॥

त्वमस्य विश्वस्य चराचरस्य स्थितेः सदा प्राणभृदात्मरूपिणी

॥१५॥

त्वया धृतं सर्वमिदं जगद्वै यतस्ततोऽसि त्वमुपेन्द्रसंज्ञः ॥

प्रवेशनं व्याप्तमिदं स्वधाम यत्त्वमुच्यसे विष्णुरतो मुनींद्रैः

॥१६॥

निवासितं विश्वमिदं त्वयाद्य वासश्च धातोरिति वासुदेवः ॥

तवानुगं विश्वमिदं विभुस्त्वमशेषविश्वस्य विभासि राजा

॥१७॥

सेनानुरूपं जगदेव यस्मादतः स्मृतस्त्वं किल विश्वसेनः ॥

विलेखनादस्य चराचरस्य कृतेश्च धातोस्त्वमतोऽसि कृष्णः

॥१८॥

जितं त्वया देव जगत्त्रयं यज्जितेश्च धातोस्त्वमतोऽसि जिष्णुः ॥

तस्मात्समस्तग्रहलोकपालं जगद्विभो पालय सर्वकालम्

॥१९॥

त्वमस्य सर्वस्य भवादिराजस्तवास्तु भद्रासनमद्वितीयम ॥

प्रदक्षिणावर्तनकस्तु शंखः करस्थितः शोभति पूरुषस्य

॥२०॥

सुदर्शनं नाम तवास्ति चक्रमतो हि गीतः कविभि स्तु चक्री ॥

ध्वजोऽस्ति ते देव सुपर्णसेवितस्तथासुपर्णश्च तवास्ति वाहनम्

॥२१॥

तुरंगमाः संतु तवारिसंहरे तथा हृषीकेश सुदन्तदन्तिनः ॥

किरीटनिष्कांगदकर्णपूरकेयूरहारोत्तमहेमसूत्रैः

॥२२॥

विचित्रवस्त्रोत्तमरक्तमाल्यैर्विभूषितस्त्वं भव भीमसेनः ॥

श्रिया कदाचिच्च न मुच्यते भवान्भवं ति ते नित्यमनंतसंपदः

॥२३॥

तवानुगा भक्तिरिहास्तु वै सती मुकुन्द भक्ते त्वमतः प्रसीद मे

॥२४॥

सनत्कुमार उवाच

स एवमुक्तस्तु पुरो दिवौकसां विभुः प्रसन्नस्त्विदमब्रवीद्धरः ॥

विरिंच मे दर्शय तस्य मंडलं त्वया विमुक्तं च सदाशिवं विभो

॥२५॥

स्थिरं स्थि यत्र जगत्करोम्यहं ततो विरंचिः कुशमुष्टिमाददे ॥

पवित्रदेशस्य निदर्शनाय जगाम पुण्यं च्यवनाश्रमं तदा

॥२६॥

ततः स्थलीमुच्चतरामवाप्य पितामहः केशवमाह चादरात् ॥

त्वदुद्भवं चात्र पवित्रमंडलं त्वया विमुक्तं च सदा शिवं विभो

॥२७॥

त्वमेव विष्णुर्विबुधार्चितः सदा स्मृतो मुनींद्रैः स च विष्टरश्रवाः ॥

निषीद विश्वेश कुशस्थलं यदा तदाश्रितो माधवमासरूपवान्

॥२८॥

कुशस्थलीं संस्थित एव देव इत्थं विधात्रा पुरुषोत्तमः स्तुतः ॥

स्थलीं कुशैरास्तरितामुपाविशत्कुशस्थलीं देवमुनीन्द्रसेविताम्

॥२९॥

समंततो योजनसं ख्ययावृतां ततो विधाता पुरुषोत्तमस्तथा ॥

कुशस्थलीति प्रथितं जगत्त्रये प्रचक्रतुर्नाम च तावुभावपि

॥३०॥

तत्र विश्वपतिः श्रीमान्विश्वेशो विश्वकृद्विभुः ॥

विश्वं शशास विश्वात्मा सर्वविश्वस्य नायकः

॥३१॥

एवं कुशस्थली ख्याता हेमशृङ्गेति या पुरा ॥

स्तीर्णा कुशैर्यतो धात्रा कुशस्थली ततः स्मृता

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे कुशस्थलीनामहेतुकथावर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥

. छ