आवंत्सयखण्डेऽवंतीक्षेत्रमाहात्म्येंऽकपादमाहात्म्यवर्णनम्
सनत्कुमार उवाच
योऽवंत्यामंकपादाख्ये पश्येद्रामजनार्दनौ ॥
ययोर्दर्शनमात्रेण यमलोकं न पश्यति
॥१॥व्यास उवाच
कथं तावंकपादाख्ये यातावत्र महामुने ॥
न पश्येद्यमलोकं स यद्यपि ब्रह्महा भवेत्
॥२॥सनत्कुमार उवाच
भारावतारणार्थाय देवौ रामजनार्दनौ ॥
अवतीर्णौ यदोर्वंशे दिव्यरूपौ महाद्युतौ
॥३॥कंसं हत्वा सचाणूरमुग्रसेनं नराधिपम् ॥
अभिषिच्य स्वयं राज्ये यदुसिंह उवाच तम्
॥४॥किं कार्यं ते मया ब्रूहि कर्तव्यं ते सुते हते ॥
एवमुक्तः स राजा वां उग्रसेनोऽब्रवीदिदम्
॥५॥सर्वं संपत्स्यते कृष्ण भवतो हि न दुर्लभम् ॥
विज्ञाताखिलविज्ञानौ भवितारावुभावपि
॥६॥गच्छेतमुज्जयिन्यां वै कृतविद्यौ भविष्यथ ॥
ततः सांदीपनिं विप्रं जग्मतू रामकेशवौ
॥७॥कण्ठस्थांश्चक्रतुर्वेदानाचारमखिलं च तौ ॥
सरहस्यं धनुर्वेदं ससंहारं तथैव च
॥८॥अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विज ॥
सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम्
॥९॥विचिंत्य तौ तदा मेने प्राप्तौ चंद्र दिवाकरौ ॥
ततः किंचित्स नोवाच स्नातुं तीर्थमथाययौ
॥१०॥शिष्यैस्तु सहितो विप्रो महाकालवनेऽविशत् ॥
शिष्यैः सह प्रविष्टौ द्वौ तदा तौ रामकेशवौ
॥११॥वन्दमानौ महाकालं स तं केशवमव्रवीत् ॥
त्वया नाथेन देवानां मानुष्यत्वे हि तिष्ठता
॥१२॥सुखमासीच्च साधूनामज्ञानानां च सर्वदा ॥
जने पीडाकरा ये तु सदा वा बलदर्पिताः
॥१३॥युवाभ्यां ते हताः सर्वे कंसप्रमुखतो नृपाः ।
मुनिसिद्धसुरादीनां स्थितिः कार्या त्वयाऽनघ
॥१४॥करिष्यामि तमित्युक्त्वा स नमस्य ततो ययौ ॥
दृष्ट्वा सांदीपनिं शिष्या ऊचुरेवं दिनेदिने
॥१५॥कस्य न श्रद्दधे तेषां वचस्त्वत्यद्भुतं यतः ॥
स्वयं ययौ ततो द्रष्टुमाश्चर्यं शिष्यभाषितम्
॥१६॥ततस्तत्रोत्थितः शब्दः संश्लेषे च तथा तयोः ॥
तावागतौ गृहं तत्र गुरुर्वचनमब्रवीत्
॥१७॥न वै ज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ॥
ततः सांदीपनिं कृष्णः कृतकृत्योऽब्रवीद्वचः
॥१८॥गुर्वर्थं किं ददामीति सह रामेण हर्षितः ॥
तच्छुत्वा वचनं हृद्यं गुरुः प्रोवाच हर्षितः
॥१९॥पुत्रमिच्छाम्यहं त्वत्तो यो मृतो लवणांभसि ॥
पुत्र एको हि मे जातः स चापि तिमिना हृतः
॥२०॥प्रभासे तीर्थयात्रायां त्वमेव तमिहानय ॥
तथेति चाब्रवीत्कृष्णो रामस्यानुमते गतः
॥२१॥तं समुद्र उवाचेदं दैत्यः पंचजनो महान् ॥
तिमि रूपेण तं बालं ग्रस्तवान्मयि संस्थितः
॥२२॥ततः पंचजनं हत्वा ग्राहरूपं महाबलम् ॥
तन्मध्यस्थं च जग्राह शंखं ग्रस्तो हि यः पुरा
॥२३॥जलेश्वरगृहात्तेन ग्राहेणातीव लीलया ॥
तस्योदरे यदा बालं नाप्तवांस्तु जनार्दनः
॥२४॥यमालयगतं मत्वा तदा वरुणमब्रवीत् ॥
भगवान्यादसामीश रथो मे दीयतां महान्
॥२५॥पुराजिरे हता दैत्या दानवा बलदर्पिताः ॥
मया येन रथेनाद्य मह्यं स दीयतां रथः
॥२६॥न्यासभूतो रथो यस्ते विधृतो निहतारिणा ॥
मया धर्मं पुरस्कृ्त्य स दीयतामपांपते
॥२७॥येनाहवे प्रेतराजं जित्वा पश्यामि बालकम् ॥
एतच्छ्रुत्वा प्रहृष्टात्मा ज्ञात्वा कार्यार्थिनं हरिम् ॥
ददौ तं रथमक्षोभ्यं रणे तस्मै सुरासुरैः
॥२८॥ततो हरिः समालोक्य रथं रत्नपरिष्कृतम् ॥
द्वीपिचर्मपरीधानं वैयाघ्रपरिवारितम्
॥२९॥नाना चित्रविचित्रांगं गरुडध्वजराजितम् ॥
संयुक्तं शैब्यसुग्रीवपुष्पदंतबलाहकैः
॥३०॥अजेयं देवदेवेंद्रदानवासुरराक्षसैः ॥
अनेकायुधसंपूर्णं मणिविद्रुमभूषितम्
॥३१॥सहस्रसूर्यप्रतिमं चारुवक्त्रचतुर्युगम् ॥
किंकिणीशतशोभाढ्यं घंटाचामरचं द्रिकम्
॥३२॥संवर्ताकारविषमं खगेंद्रवरकेतनम् ॥
दृष्ट्वा कृष्णः सरामस्तु मुमुदे वीतविस्मयात्
॥३३॥प्रदक्षिणमुपाकृत्य देवताभ्यः प्रणम्य च ॥
आरुरोह रथं विष्णुर्विमानं साग्रयोजनम्
॥३४॥ततो जगाम त्वरितो जनार्दनो जगन्निवासो यमलोकमाश्रिताम् ॥
दिशं सहस्रैः किरणै र्वृतां पुरीं दध्मौ च शंखं परिगृह्य चाच्युतः
॥३५॥तत्र प्रध्यापयामास शंखं शार्ङ्गधनुर्धरः ॥
तेन शब्देन वित्रस्ताः कृतांतालयवासिनः
॥३६॥नरकांतर्गता मर्त्याः पापाचारपरायणाः ॥
सुखमापुः प्रसन्नाश्च वह्नयः कृष्णदर्शनात्
॥३७॥शस्त्राणि कुंठतां प्रापुर्यंत्राणि विविधानि च ॥
विदीर्णानि तदा चासुर्देवदेवस्य दर्शनात्
॥३८॥असिपत्रवनंनाम शीर्णपर्णमजायत ॥
रौरवनाम नरकमभैरवमभूत्तदा
॥३९॥अभैरवं भैरवाख्यं कुंभीपाकमवाचिकम् ॥
शृंगाटं शृंगसदृशं लोहसूच्यप्यसूचिका
॥४०॥दुस्तरा सुतरा जाता नदी वैतरणी नृणाम् ॥
नरकांते तदा जाते गते विश्वेश्वरे विभौ
॥४१॥पापक्षयात्ततः सर्वे ते मुक्ता नारका नराः ॥
पदमव्ययमासाद्य दृष्ट्वा विष्णुं तमोऽपहम्
॥४२॥विमानेषु सहस्रेषु ह्यारूढास्ते समंततः ॥
समीक्ष्य पुंडरीकाक्षं मुक्तास्ते सर्वपातकात्
॥४३॥ततः शून्यं मुने जातं सर्वं निरयमंडलम् ॥
दर्शनात्तस्य देवस्य विष्णोर्विश्वस्वरूपिणः
॥४४॥ततो दूताः कृतांतस्य कृष्णं च युद्धकारिणम् ॥
वारयामासुरत्युग्रा विशंतं नरकान्प्रति
॥४५॥किंकरा ऊचुः
मा वीरानेन मार्गेण रथमानय मानवन् ॥
प्रयांत्यधोगतिं पापात्परस्त्रीस्वापहारकाः
॥४६॥यमादिष्टा नराः पापा येऽमोच्या वर्षकोटिभिः ॥
दृष्ट्वा त एव सद्यस्त्वां गताः स्वर्गमपावृताः
॥४७॥एतच्छ्रुत्वा वचस्तेषां कृपया पीडितो भृशम् ॥
पुनः प्रोवाच मधुहा मोक्षायाहमुपागतः
॥४८॥सर्वेषां स्वर्गदाताहं यमलोकनिवारकः ॥
अंजसा यमराड्दूता यमायाख्यात मे वचः
॥४९॥एतच्छ्रुत्वा वचो दूताः सत्वरा यममागताः ॥
सर्वमाचक्षिरे वृत्तं यथा नारकमोक्षणम्
॥५०॥ततो यमो रुषाविष्टः प्राह तान्यमकिंकरान् ॥
यः कश्चिदागतो मर्त्यो मर्यादाभेदकृन्नरः
॥५१॥तं गत्वा वारयध्वं वै गृहीत्वानीयतामिति ॥
अयं नरांतको यातु किंकरः सह किंकरैः
॥५२॥एवमुक्तो यमेनाथ किंकरः स नरांतकः ॥
गत्वा तं वारयामास वाग्भिरुग्राभिरच्युतम्
॥५३॥यदा न वारितस्तस्थौ तदा क्रुद्धो नरांतकः ॥
तदा शरैरतीवोग्रैस्ताडितस्तेन केशवः
॥५४॥बलदेवोपि समरे ताडितो विविधैः शरैः ॥
तावुभौ ताडितौ घोरैः समंताद्यमकिंकरैः
॥५५॥आदाय धनुषी दिव्ये जघ्नतुर्यमकिंकरान् ॥
बाणैरनेकसाहस्रैः क्रुद्धौ रामजनादर्नौ
॥५६॥नरांतकोऽपि समरे बलेन बलिनार्दितः ॥
पपात गदया भिन्नो मूर्ध्नि निर्यातलोचनः
॥५७॥ततो नरांतके वीरे पतिते यमकिंकरे ॥
किंकराणामभूत्सैन्यमार्तं रणपराङ्मुखम्
॥५८॥रामकृष्णाभ्यां ते दूता हन्यमाना भयातुराः ॥
यमाय कथयामासुर्नरांतकस्तु पातितः
॥५९॥ततो यमो ययौ क्रुद्धः समंतात्किंकरैर्वृतः ॥
प्राह ततो यमः क्रुद्धो नो जितोहं पुरा परैः
॥६०॥ततो वादित्रनिर्घोषैस्तुमुलानकगोमुखैः ॥
नानाडमरुकैश्चैव चित्रगुप्तैश्च गच्छति
॥६१॥देवा विद्याधराः सिद्धा दृष्ट्वा यांतं महाबलम् ॥
कृतांतस्य रणेऽक्षोभ्यं कामपालं जगत्पतिम्
॥६२॥ततस्ते किंकराः सर्वे चित्रगुप्तेन नोदिताः ॥
रथमावृत्य बाणौघैः प्रविव्यधुः समंततः
॥६३॥बलं च केशवं संख्ये जघ्नतुस्तावुभावपि ॥
रणे च विविधैर्बाणैश्चित्रगुप्तस्य पश्यतः
॥६४॥विदार्य च सहस्राणि किंकराणां समंततः ॥
कृतांतानीकिनीमध्ये कृतांत इव केशवः ॥
चचार रणदुर्धर्षः कामपालेन पालितः
॥६५॥ततश्चित्रगुप्तो रणे किंकराद्यं विदीर्णं निरीक्ष्यार्तनादं चकार
॥६६॥शरैः पंचभिः कृष्णमायांतमाजौ जघानाष्टभिर्वक्त्रदेशे स भिन्नः ॥
शरार्तो रथोपस्थ आसीत्तदार्तस्तमालोक्य भिन्नं रणे नष्टसंज्ञम्
॥६७॥रथं स्वं समादाय यातः कृतांतस्ततश्चित्रगुप्ते शरार्ते प्रसुप्ते ॥
रणे कीर्तिलुप्ते भयक्षोभयुक्तः स्वसैन्यैश्च युक्तो भयार्तो निषण्णः
॥६८॥प्रधानाश्च भग्ना विचित्राश्च भग्रास्ततश्चित्रगुप्तं निशम्याथ भग्नम् ॥
स कालस्तमायांतमालोक्य दूराद्वरसैन्यमादाय देवारि शत्रुम्
॥६९॥विनाशाय युध्यद्युगांते प्रजानां यथा वाडवो ज्वालवृद्धः प्रवृत्तः ॥
तमायांतमालोक्य कालं करालं शरैरावृणोदंतकं कालकल्पैः
॥७०॥स कालः करालं समादाय दंडं मुमोचाच्युते पश्यतां देवतानाम् ॥
ततः कालदंडः प्रजानां विनाशो हरेः संनिकाशं समभ्याजगाम
॥७१॥ततो देवगंधर्वयक्षा मुनींद्राः परं विस्मयं प्रापुरावीक्ष्य रामम् ॥
ज्वलंतं च जग्राह कालस्य दंडं स रामो वरलीलयाऽनंतमूर्तिः
॥७२॥गृहीते बलेनाहवे कालदंडे मोक्तुकामे पुनः कालनाशाय वै।
तूर्णमभ्येत्य तत्रांतरे रणे वारयामास कृष्णं तदा
॥७३॥मा मुंचेत्यब्रवीद्वेधाः कालं कालायुधं बल ॥
त्वया बलवता वीर चराचरधरा धरा
॥७४॥धार्यते शिरसा देव संसारे नास्ति ते समः ॥
त्वया विश्वपतिर्विष्णुरुत्संगेन सदोह्यते ॥
कोऽन्योस्ति त्वत्समो राम यो जगद्दहने क्षमः ॥
जगत्स्रष्टा जगद्गोप्ता जगद्धर्ता जगत्पतिः
॥७६॥पाल्यते यत्त्वया सोपि विष्णुर्विश्वैकनायकः ॥
कस्ते स्तुतिकरोऽस्तीह को गुणान्वक्तुमर्हति
॥७७॥ततो वयं त्वदंकस्थविष्णुनाभिभवा यतः ॥
इत्युक्त्वा बलदेवं च वासुदेवं पुनर्वचः
॥७८॥उवाच चतुरास्यस्तु स्तुतिश्च वृतः सुरैः ॥
कृष्णकृष्ण करालस्य कालस्यास्य कृपां कुरु
॥७९॥यतो भवंतमायांतं विष्णुं विश्वैकनायकम् ॥
वेत्ति नायं जगन्नाथं नरकार्णवतारकम्
॥८०॥त्वया वै भगवन्पूर्वं यमः संस्थापितः पदे ॥
नृणां दुष्कृतकर्तॄणां नरकाय यमः प्रभो
॥८१॥तस्मादस्य जगन्नाथ क्षम्यतां पुरुषोत्तम ॥
विभो कृपां कुरुष्वास्य ब्रूहि यत्ते विवक्षितम्
॥८२॥एतच्छुत्वाऽब्रवीत्कृष्णो धातः शृणु गुरोर्मम ॥
सांदीपनेः समानीतः सुतस्तेनागताविह
॥८३॥समर्प्यतां गुरुश्रेष्ठ श्रेष्ठाय गुरुदक्षिणा ॥
आवाभ्यां वै प्रतिज्ञातो तस्मात्सा पाल्यतां विभो
॥८४॥एतत्पितामहः श्रुत्वा यमं समरनिर्जितम् ॥
समाहूयाब्रवीद्विष्णुर्यद्ब्रवीति कुरुष्व तत्
॥८५॥तच्छ्रुत्वा धर्मराजस्तु विरंचिमिदमब्रवीत् ॥
भगवन्विश्वकृल्लोके नैष मार्गस्त्वया कृतः
॥८६॥यमलोकमनुप्राप्य कायहीनः शरीरवान् ॥
यत्कायरहितो याति नैतदत्र प्रपद्यते
॥८७॥तच्छुत्वा हि पुनर्ब्रह्मा विश्वस्यास्य विभुः स्वयम् ॥
विश्वकृद्विश्वहद्यस्माद्यदिच्छति करोतु तत्
॥८८॥तस्मादर्पय पुत्रं त्वं मुनेः सांदीपनेश्च यः ॥
नरके यं पुनः कृत्वा तं चानय महामते
॥८९॥तच्छुत्वा धर्मराजस्तु पुत्रं सांदीपनेस्तथा ॥
ससर्ज बाल रूपं च तदात्मानं तदुद्भवम्
॥९०॥अर्पयामास कृष्णस्य बालं रूपसमन्वितम् ॥
स सर्वदेवतानां च तदद्भुतमिवाभवत्
॥९१॥ततः प्राप्य गुरोः पुत्रं प्रभुः प्रीतः प्रजापतिम् ॥
प्राह प्राप्तो मया ब्रह्मन्स्वरूपो द्विजदारकः
॥९२॥श्रीकृष्ण उवाच
अद्यप्रभृति लोकेश देशे मच्चरणां किते ॥
अवंत्यामंकपादाख्ये मृता नेक्षंति ते यमम्
॥९३॥महाकालपुरे देवमाद्यं वै पुरुषोत्तमम् ॥
विश्वरूपं च गोविंदं शंखोद्धारं च केश वम्
॥९४॥ये पश्यंति कुशस्थल्यामेतेषां मूर्तिपंचकम् ॥
ते नरा न गमिष्यंति विरंचे निरयं क्वचित्
॥९५॥तथैवागमनादत्र मम रामस्य ना रकाः ॥
विमुक्तास्ते त्वघाद्घोरात्प्राप्नुवंत्वखिला दिवम्
॥९६॥इत्युक्ते वचने वेधाः प्रोवाच प्रीतिमान्हरिम् ॥
यत्त्वयोक्तं वचः कृष्ण तदस्तु सकलं सदा
॥९७॥ये च त्वामादिपुरुषं प्रथमं पुरुषोत्तमम् ॥
प्रणम्य पश्चाद्रक्ष्यंति स्नात्वा शिवसरस्यपि
॥९८॥अधोज्वालं महाकालं सोऽश्वमेधफलं लभेत् ॥
एवमुक्तो हरिः पुत्रमादाय बलिना सह
॥९९॥संमान्य वेधसं कालं समारोहद्रथं ततः ॥
शंखमापूरयामास कृतकार्यो जनार्दनः
॥१००॥मोक्षाय निरयस्थानां नृणां वै पापकर्मणाम् ॥
ततस्ते शंखशब्देन स्मरणेनाच्युतस्य च
॥१॥दिव्यान्विमानानारुह्य दिवमेवाखिला गताः ॥
शून्यं तन्मंडलं जातं नारायणसमागमे
॥२॥कालोऽपि दंडमासाद्य बलदेवात्पुनः पुरम् ॥
प्रविवेश ततो धाता तत्रैवांतरधीयत
॥३॥कृष्णोपि बलवान्धीरः प्राप्त उज्जयिनीं पुरीम् ॥
बलदेवसहायस्तु सत्वरेणाशुगामिना
॥४॥ततः सांदीपनेः पुत्रमर्पयामास केशिहा ॥
गुरवे यत्प्रतिज्ञातं स तस्मादनृणोऽभवत्
॥५॥एवं सांदीपनिः पुत्रं दृष्ट्वा च पुनरागतम् ॥
नागरास्तत्र राजा च विस्मयं परमं ययुः
॥६॥तौ वीरावर्चयामासुर्मत्वा देवोत्तमोत्तमौ ॥
सांदीपनिरुवाचेदं तौ च रामजनार्दनौ
॥७॥इह स्थास्यति वां कीर्तिर्यावदाभूतसंप्लवम् ॥
स्थाने मदीय एतस्मिंस्तिष्ठंतौ यदुनंदनौ
॥८॥न विज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ॥
नरनारायणौ देवौ देवकार्यार्थमागतौ
॥९॥नाल्पमृत्युर्भवेत्तस्य न व्याधिर्न च दुर्गतिः ॥
प्राप्य ह्यत्र च यः स्नाति स्वर्गलोके स मोदते
॥११०॥शंखिनं विश्वरूपं च गोविदं चक्रिणं तथा ॥
चत्वारि विष्णुक्षेत्राणि अंकपादस्तु पंचमः
॥११॥एषां यात्रां प्रवक्ष्यामि यथा कार्या मनीषिभिः ॥
मंदाकिन्यां कृतस्नानो दृष्ट्वा रामजनार्दनौ
॥१२॥शंखोद्धारे ततः स्नात्वा प्रपश्येद्बलकेशवौ ॥
स्नानं कृत्वा ततः कुंडे गोविंदं च समर्चयेत
॥१३॥चक्रिणं च ततो दृष्ट्वा देवदेवं च शंखिनम् ॥
अंकपादौ ततो दृष्ट्वा विश्वरूपं ततो व्रजेत्
॥१४॥तस्याग्रतः करीकुंडे स्नानं कृत्वा यथाविधि ॥
पुनस्तेन प्रकारेण प्रपश्येद्बलकेशवौ
॥१५॥स्नानं कृत्वा ततः कुंडे गोविंदं च समर्चयेत् ॥
तथैव चक्रिहलिनौ दृष्ट्वा तं केशवं व्रजेत्
॥१६॥शिप्रांभसि नरः स्नात्वा भक्त्या संपूज्य केशवम् ॥
परावृत्यांकपादे तु तां रात्रिं गमयेच्छुचिः
॥१७॥प्रातर्वै भोजयेत्तत्र पंच विप्रांश्च सुव्रतान् ॥
गोदक्षिणां शंखिने तु विश्वरूपाय वै हयम्
॥१८॥गोविंदाय गजं दद्यात्सर्वं दद्याच्च केशवे ॥
उपोष्य द्वादशीं विप्र योंऽकपादं समर्चयेत्
॥१९॥गंधपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा ॥
श्राद्धं यः कुरुते सर्वं तस्य पुण्यफलं शृणु
॥१२०॥कुलानां शतमुद्धृत्य विमानैः सर्वकामिकैः ॥
गीतनृत्यादिभोगैश्च वैकुंठे सुचिरं वसेत्
॥२१॥पुनर्लोक मिमं प्राप्य पवित्रे जायते कुले ॥
प्राप्नोत्यनंतसंतानं विष्णुलोकं पुनर्व्रजेत्
॥१२२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्सयखण्डेऽवंतीक्षेत्रमाहात्म्येंऽकपादमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥