कालभैरवतीर्थयात्रावर्णनम्
सनत्कुमार उवाच
अतः परं प्रवक्ष्यामि वीरेश्वरमथो शृणु ॥
तस्मिंस्तीर्थे नरः स्नात्वा वीरलोकमवाप्नुयात्
॥१॥नागानां प्रवरं तीर्थं सर्वकामवरप्रदम् ॥
कालभैरवमित्याख्यं तच्च तीर्थं परं स्मृतम्
॥२॥यस्य दर्शनमात्रेण सर्वदुःखातिगो भवेत्
॥३॥व्यास उवाच
कस्मिन्काले हि विख्यातं कालभैरवसंज्ञितम् ॥
तीर्थं मुनिवरश्रेष्ठ एतद्विस्तरतो वद
॥४॥सनत्कुमार उवाच
पुराऽयं भैरवो योगी योगिनीत्रासकारकः ॥
कालचक्रकृताः कृत्या योगिनीनां गणास्तदा
॥५॥तासां कालीति विख्याता योगिनी परमोत्तमा ॥
तयायं पालितो नित्यं पुत्रवद्भैरवोऽमलः
॥६॥तेनैते च विनिर्धूता दोषोत्पाताश्च सत्तम ॥
त्रिविधा भुवि विख्याताः सर्वविघ्नकराः पराः
॥७॥कालकृत्यास्तदा तेन भ्रंशिताः परमात्मना ॥
महामारी पूतना कृत्या शकुनी रेवती खला
॥८॥कोटरी तामसी माया नवैता मातृकाः स्मृताः ॥
दुष्टदोषवहा दुष्टाः सर्वप्राणिभयंकराः
॥९॥वशीचक्रे स धर्मात्मा सर्वकामवरप्रदाः ॥
शिप्रातीरे स्थितो नित्यं कूले चोत्तरतः शुभे
॥१०॥ऊषरस्य परे पूर्वे सोऽपि तिष्ठति सर्वदा ॥
आषाढस्य सिते पक्षे रविवारे समाहितः
॥११॥नवमीं चाऽष्टमीं प्राप्य चतुर्दश्यां विशेषतः ॥
पूजां कुर्वंति ये केचिन्नरा निश्चलमानसाः
॥१२॥विवाहे पुत्रजनने मांगल्ये च शुभे परम् ॥
पत्रपुष्पार्कगंधैश्च नैवेद्यैर्विविधैस्तथा
॥१३॥तांबूलवासगंधाद्यैः पूजयेद्वरद रूपिणम् ॥
विप्राणां भोजनैर्होमैस्तर्पयेत्सततं विभुम्
॥१४॥एतत्परमकल्याणमेतत्परममंगलम् ॥
नत्वा स्तुत्वा च तं देवं सर्वकामार्थसिद्धये
॥१५॥सकलकलुषहारी धूर्तदुष्टांऽतकारी सुचिरचरितचारी मुंडमौंजीप्रचारी ॥
करकलितकपाली कुण्डली दंडपाणिः स भवतु सुखकारी भैरवो भावहारी
॥१६॥विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ॥
मदविघूर्णितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे
॥१७॥अमलकमलनेत्रं चारुचंद्रावतंसं सकलगुणगरिष्टं कामिनीकामरूपम् ॥
परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम्
॥१८॥सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम् ॥
करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनाथम्
॥१९॥भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचंद्रार्कनेत्रम् ॥
मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम्
॥२०॥चतुर्भुजं शंखगदाधराऽऽयुधं पीतांबरं सांद्रपयोदसौभगम् ॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं शीलप्रदं शंकररक्षणं भजे
॥२१॥लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् ॥
कीर्त्याभिरामं तपसाऽभिरामं तं भूतनाथं शरणं प्रपद्ये
॥२२॥आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सृष्ट्यासहं साधुभिः ॥
योग्यं योगविचारितं युगधरं योग्याननं योगिनं वंदेहं सकलं कलंकरहितं सत्सेवितं भैरवम्
॥२३॥भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ॥
दुःस्वप्ननाशनं तस्य वांछितार्थफलं भवेत्
॥२४॥राजद्वारे विवादे च संग्रामे संकटेतथा ॥
राज्ञा कुद्धेन चाऽऽज्ञप्ते शत्रुबंधगते तथा
॥२५॥दारिद्र्यदुःखनाशाय पठितव्यं समाहितैः ॥
न तेषां जायते किंचिद्दुर्लभं भुवि वांछितम्
॥२६॥इति भैरवाष्टकम् ॥
अस्मिंस्तीर्थे प्रकर्तव्यं स्नानदानादिकं नरैः ॥
संसारभयभीतैश्च पूजितो भैरवो वरः ॥
तस्मात्सर्वप्रयत्नेन कर्तव्यं तीर्थमुत्तमम्
॥२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये कालभैरवतीर्थयात्रावर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥