मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ४०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 40

कनकशृङ्गाभिधानवृत्तांतवर्णनम्

व्यास उवाच

भगवन्भवता सर्वं भवभीतिविनाशकम् ॥

ईश्वरस्थानमाख्यातं समंतात्साग्रयोजनम्

॥१॥

यत्र क्षेत्रे मृता मर्त्याः सदाचारास्तथोत्तमाः ॥

विमानस्था पुरे नूनमैश्वरे ते वसंति च

॥२॥

यत्र कीटपतंगाद्या मृता यांति परां गतिम् ॥

किं तीर्थं पुण्यमन्यच्च महाकालवनादृते

॥३॥

तस्माद्ब्रूहि ममैकं तु प्रश्नं तथ्येन सांप्रतम् ॥

कथं कनकशृंगेति ख्याता ह्येषा पुरा मुने

॥४॥

कुशस्थली कथं नाम तथावंती कथं स्मृता ॥

पद्मावती कथं साधो कथमुज्जयिनी तथा

॥५॥

नाम्नां हेतुमथो तेषां ब्रूहि त्वं मुनिसत्तम

॥६॥

सनत्कुमार उवाच

शृणु व्यास प्रवक्ष्यामि यथा पूर्वं विरंचिना ॥

कथितं वामदेवाय गौरकल्पे पुरातने

॥७॥

महेशेन भगवता विधिश्चैवात्र हेतुतः ॥

पृष्टस्तु स्वश्च्युतानां च कुतो निवसतां सुखम्

॥८॥

स्वर्गप्राप्तिश्च भवति स्वेच्छाचारविहारिणाम् ॥

कोऽतिपुण्यतमः श्रेष्ठः प्रदेशः पापदारकः

॥९॥

कुतो निवर्तितं चित्तं जायते वसतां क्वचित् ॥

वसतामपि लोके शमैहिकं पारलौकिकम् ॥

एतन्मे भगवन्ब्रूहि हितार्थं सर्वदेहिनाम्

॥१०॥

सनत्कुमार उवाच

एवमादौ पुरा कल्पे प्रोक्तः श्रेष्ठः स शंभुना

॥११॥

प्रोवाच पार्वतीकांतं प्रभुः प्रीतः पितामहः ॥

भगवन्सर्वकर्ता त्वं सर्वदर्शी सदाशिवः

॥१२॥

अजानन्निव त्वं सर्वं मां पृच्छसि सनातन ॥

यत्र कल्पांतको वह्निरधिज्वालः प्रतिष्ठितः

॥१३॥

त्वमेव च महाकालः सर्वं वै ज्ञायते त्वया ॥

नाथ ये मानवास्तत्र सदाचारास्तथा परे

॥१४॥

निवसंति न ते मर्त्याः सुरास्ते वै न संशयः ॥

लभंते च पुनः स्वर्गं मृता वै कालपर्यये

॥१५॥

वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना ॥

यस्यां भांति विचित्राणि हर्म्याणि विविधानि च

॥१६॥

स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा ॥

देवाः संति सदा तत्र तीर्थानि विविधानि च

॥१७॥

पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा ॥

तामेव च पुरीं द्रष्टुं सर्वे लोका ह्यवंतिकाम्

॥१८॥

तथा देवर्षयः सिद्धा यक्षकिंनरदानवाः ॥

आजग्मुः स्थाणुना सार्धं वेधसा ब्रह्मयोनिना

॥१९॥

तथैव च वरा नार्यो देवानामतिवल्लभाः ॥

समापेतुः सहस्राणि द्रष्टुमत्यद्भुतां पुरीम्

॥२०॥

आगत्य च यदा देवः सह देवैर्महेश्वरः ॥

वीक्षते नगरीं रम्यामपश्यदावृतां तथा

॥२१॥

प्रासादैः स्वर्णशृंगाढ्यैर्मणिरत्नविभूषितैः ॥

विश्वरूपो हि भगवान्राजा विश्वैक नायकः

॥२२॥

तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते ॥

सेव्यमानः सुरैः सिद्धैर्मुनिविद्याधरोरगैः

॥२३॥

ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननंदतुः ॥

समर्चितौ तेन यथार्हमादरात्सहानुगावागमनं त्वपृच्छत्

॥२४॥

किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम् ॥

ततस्तु तावूचतुरब्जजेश्वरौ भवान्तरे यत्र च तत्र नौ रतिः

॥२५॥

त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः ॥

कदा त्वया कांचनशेखरा पुरी निवेशिता वेश्मवती विचित्रिता

॥२६॥

हरिरुवाच

त्वदर्थमेवेश विशेषशालिनी सृष्टा हि वै सर्वगुणाकरा मया ॥

प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च

॥२७॥

ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः ॥

महेश्वर त्वं व्रज दक्षिणालयं स्थानं सुदत्तं युवयोः सुशोभनम्

॥२८॥

महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः ॥

गणैरनेक साहस्रैरादृतः परमेश्वरः

॥२९॥

क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा ॥

मयाद्य युवयोर्दत्ता विहायाऽचलमात्मनः

॥३०॥

भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता ॥

पुरी कनकशृंगेति लोके ख्याता भविष्यति

॥३१॥

एवं कनकशृङ्गेति प्रथमं नाम कथ्यते

॥३२॥

जपंतश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः ॥

नित्यं रमंति भक्तानां सर्वाभीष्टफलप्रदाः

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तांतवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥