मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १२

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 12

माहात्म्यवर्णनम्

सनत्कुमार उवाच

उत्तरे तु प्रवक्ष्यामि मर्कटेश्वरमुत्तमम् ॥

तत्र तीर्थं च विख्यातं सर्वकामप्रदायकम्

॥१॥

तस्मिंस्तीर्थे नरः स्नात्वा गोशतस्य फलं लभेत् ॥

विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणे

॥२॥

मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ॥

शीतलायाः प्रभावेन बालाः संतु निरामयाः

॥३॥

ये पश्यंति नरा भक्त्या शीतलां दुरितापहाम् ॥

न तेषां दुष्कृतं किंचिन्न दारिद्र्यं द्विजोत्तम

॥४॥

न च रोगभयं तेषां ग्रहपीडा तथैव च

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥