देवागमनवर्णनम्
व्यास उवाच
युद्धे निवारिते तत्र रक्तस्वेदजयोः पुरा ॥
किं कृतं ब्रह्मणा तत्र प्रायश्चित्तं च कर्मणाम्
॥१॥जनार्दनेन किं कर्म शंकरेण च यन्मुने ॥
एतत्सर्वं समाख्याहि प्रसीद वदतांवर
॥२॥सनत्कुमार उवाच
ब्रह्मा जुह्वन्नग्निहोत्रं वनौषधिफलच्छदैः ॥
शस्तैः कुशसमिद्भिश्च यथोक्तं हरिणा पुरा
॥३॥बदर्याश्रममासाद्य नरनारायणावृषी ॥
तेपतुस्तौ तपश्चोग्रं हितार्थं सर्वदेहिनाम्
॥४॥कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम् ॥
कुशस्थलीं समासाद्य प्रविष्टस्तद्वनोत्तमम्
॥५॥नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥
नानापक्षिरवाकीर्णं नानामृगसमाकुलम्
॥६॥द्रुमपुष्पभरामोदवासितं यत्सुवायुना ॥
बुद्धिपूर्वमिव न्यस्तैः फलपुष्पैः सुपूजितम्
॥७॥नानागंधरसाढ्यैश्च पक्वापक्वफलोद्भवैः ॥
फलैः सुवर्णरूपाढ्यैरासमन्तान्मनोरमैः
॥८॥जीर्णपत्रतृणादीनि शुष्क काष्ठफलानि च ॥
बहिः क्षिपंति जातानि मरुतोनुग्रहाणि च
॥९॥नानापुष्पसमूहानां गन्धमादाय मारुतः ॥
शीतलो वाति तं भूमिदेशं यत्र विवेश सः
॥१०॥हरितस्निग्धनिच्छिद्रैः पर्णैरञ्छिद्रकोटरैः ॥
वृक्षैरनेकसंख्यैश्च भूषितं शिरसान्वितैः
॥११॥अरोगिदर्शनीयैश्च सुवृत्तैः क्वचि दुद्धतैः ॥
कुटुम्बैरिव विप्राणां सिद्धिर्वै भाति सर्वतः
॥१२॥शोभनैर्वायुसंकीर्णैरंकुरैः प्रावृता द्रुमाः ॥
कुलीनैरिव निच्छिद्रैः स्वगणैः प्रावृता नराः
॥१३॥पवनोद्धूतशिखरैः स्पर्शयंति परस्परम् ॥
आरात्पवनतोऽन्योन्यस्पृष्टशाखावतंसकाः
॥१४॥नागवृक्षाः क्वचित्पुष्पैर्भ्रमरालीनकेस रैः ॥
नयनैरिव शोभंते धवलैः कृष्णतारकैः
॥१५॥पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित् ॥
युग्मयुग्मविवाहे च शोभंते साधु दंपतीः
॥१६॥सुपुष्पविभवाटोपैः सिन्दुवारस्य पंक्तयः ॥
मूर्तिमत्य इवाभांति पूजिता वनदेवताः
॥१७॥क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः ॥
दिक्षुदिक्षु प्रशोभन्ते बालचन्द्रा इवोद्यताः
॥१८॥अतिविद्रुमशोभाढ्या कासंत्यो यूथिकालताः ॥
पुष्पिताः पुष्पविटपान्वीज यंत्य इवोत्थिताः
॥१९॥शालार्जुनाः क्वचिद्भांति वनोद्देशेषु पुष्पिताः ॥
धौतकौशेयवासोभिः प्रावृताः पुरुषोत्तमाः
॥२०॥अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा ॥
उपगूढा विराजन्ते नारीभिरिव सुप्रिया
॥२१॥चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव ॥
वायुप्रत्ताभिरन्योन्यं ढौकन्तीव हि सज्जनान्
॥२२॥परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः ॥
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चित्तसंगताः
॥२३॥फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः ॥
अन्योन्यमर्पयंतीव सपुष्पाणि फलानि च
॥२४॥मारुताश्लिष्टसंतुष्टैः पादपाः शालिवारिभिः ॥
आर्याः समागता लोके प्रीतिदाय इव स्थिताः
॥२५॥पुष्पाणामिव वेगेन स्वशोभार्थं व्रजंति वै ॥
समसन्नाहमासाद्य पुरुषाः स्पर्धयेव हि
॥२६॥पुष्पशोभाभरनतैः शिखरैः कंपसंयुतैः ॥
नृत्यन्ति पक्षिणो मत्ता युक्ताः शोभनशेखरैः
॥२७॥भृंगाः पवनविक्षिप्तामृतवल्लीलताश्रिताः ॥
सवल्लिकाः प्रनृत्यन्ति मानवा इव सप्रियाः
॥२८॥पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः ॥
भाति तारागणैश्चित्रैः शरदीव नभस्तलम्
॥२९॥द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता ॥
शिखरा इव शोभन्ते रचिता बुद्धिपूर्वकम्
॥३०॥हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः ॥
सौहृदं दर्शयन्तीव नराः साधुसमागमे
॥३१॥पुष्पकिंजल्कबहुलाः किंजल्कबहुलोदराः ॥
किंजल्कमत्तमधुपा विशदा इव शारिका
॥३२॥शिरीष पुष्पसंकाशाः शुका मिथुनतः क्वचित् ॥
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा
॥३३॥संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः ॥
वनांतरे व्यतिष्ठंत एकांत इव संस्थिताः
॥३४॥कूजंति पत्रिसंघाता नानाद्भुतविराविणः ॥
कुर्वंति रमणीयं हि रमणीयतरं वनम्
॥३५॥नाना मृगगणाकीर्णं नित्यं समुदितांडजम् ॥
तद्वनं नंदनसमं मनोदृष्टिविवर्धनम्
॥३६॥कपालपाणिर्भगवांस्तथारूपं वनोत्तमम् ॥
ददर्श शंकरो दृष्ट्या सौम्यया नंदनोपमम्
॥३७॥ता वृक्षपंक्तयः सर्वा दृष्ट्वा रुद्रं समागतम् ॥
निवेद्य शंभवे भक्त्या मुमुचुः पुष्पसंपदम्
॥३८॥पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः ॥
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः
॥३९॥एवमुक्ते भगवता तरवो निरवग्रहाः ॥
ऊचुः प्रांजलयः सर्वे नमस्कृत्य महेश्वरम्
॥४०॥वरं ददासि देवेश प्रसन्न जनवत्सल ॥
इहैव भगवन्नित्य वने सन्निहितो भव
॥४१॥एष नः परमः कामो देवदेव नमोऽस्तु ते ॥
त्वं चेद्वससि देवेश वनेऽस्मिन्विश्वभावन
॥४२॥सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम् ॥
किमन्यवरकोटीभिरेष नो दीयतां वरः
॥४३॥इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः ॥
वरं ददौ पादपेभ्यः प्रोच्यमानं मया शृणु
॥४४॥महेश्वर उवाच
बाढं मे मनसा वासो नित्यमत्र वनोत्तमे ॥
वरं ददामि भूयो वो न वृथा दर्शनं मम
॥४५॥नाग्निर्न वायुर्न जलं न सूर्यकिरणातपः ॥
न विद्युदशनिः शीतं रुजं वो जनयिष्यति
॥४६॥नित्यं पुष्पवरोपेता नित्यं सुस्थिरयौवनाः ॥
कामगाः कामरूपाश्च कामरूपफलप्रदाः
॥४७॥कामसंदर्शनाः पुंसां तपःसंध्याज्वलदृशाम् ॥
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ
॥४८॥एवं स वरदः शंभुरनुजग्राह पादपान् ॥
स्थित्वा वर्षसहस्रं तु कपालं चाक्षिपद्भुवि
॥४९॥क्षितिं निपतता तेन कंपते स्म रसातलम् ॥
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः
॥५०॥शक्राशनिहतानीव व्याघ्रव्यालान्वितानि च ॥
शिखराणि व्यशीर्यंत पर्वतानां सहस्रशः
॥५१॥देवसिद्धविमानानि गंधर्वनगराणि च ॥
प्रस्फुरन्ति विनिष्पेतुर्विनिनेशुर्धरातले
॥५२॥कपोतमेषाश्चात्यंतं पुनः संघातदर्शनाः ॥
ज्योतिर्ग्रहाश्छादयंतो बभूवुस्तीर्णभास्कराः
॥५३॥महता तस्य शब्देन जडांधबधिरं कृतम् ॥
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्
॥५४॥सुरासुराणां सर्वेषां शरीराणि मनांसि च ॥
अवसे दुश्चकंपुश्च किमेतदिति जज्ञिरे
॥५५॥धैर्यमालंब्य सर्वेऽपि समागम्येंद्रपूर्वकाः ॥
ब्रह्मलोकं समासाद्य ब्रह्माणमिदमूचिरे
॥५६॥किं निमित्तं तु भगवन्नेतदुत्पातदर्शने ॥
त्रैलोक्यं कंपितं येन संयुक्तं कालकर्मणा
॥५७॥जातं कल्पावसानं च भिन्नमर्यादसागरम् ॥
चत्वारो दिग्गजाः किं नु बभूवुरचलाश्चलाः
॥५८॥धरा समाधृता कस्मात्सप्तसागरवारिणा ॥
उत्पत्तिर्नास्ति सर्वस्य भगवन्न प्रयोजनम्
॥५९॥यादृशोऽयं श्रुतः शब्दो न भूतो नापि विश्रुतः ॥
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण भूयसा
॥६०॥एवमुक्तोऽब्रवीद्ब्रह्मा परमेशानुभावितः ॥
तत्प्रसादात्प्रति ज्ञानी ज्ञात्वा रुद्रमुपस्थितम्
॥६१॥यत्पृष्टं मरुतः सर्वे शृणुध्वं तत्र कारणम् ॥
निश्चयेनात्र विज्ञेयं श्रद्दधानैर्यथाविधि
॥६२॥मुखं छित्त्वा नखाग्रेण मद्देहात्पंचमं शिरः ॥
कपालपाणिर्भगवान्विष्णोराश्रममभ्यगात्
॥६३॥ययाचे पात्रमादाय भिक्षां नारायणं प्रभुम् ॥
उत्पपात मुनिस्तत्र नरोनाम धनुर्धरः
॥६४॥ततः कुशस्थलीमेत्य भगवांस्तद्वनोत्तमम् ॥
विवेश तरुमार्गेण पुष्पामोदाभिनंदितः
॥६५॥अनुगृह्याथ भगवान्वनं तत्सर्वगांडजम् ॥
जगतोऽनुग्रहार्थाय तत्र वासमरोचयत्
॥६६॥तत्कपालं करस्थं यन्न्यस्तं भगवता क्षितौ ॥
तेनैषा कम्पिता भूमिः कृतं त्रैलोक्यमाकुलम्
॥६७॥तद्द्रक्ष्यथ विरूपाक्षं प्रपद्यत मया सह ॥
आराध्यमानो भग वान्प्रदास्यति वरं हि वः
॥६८॥इत्युक्त्वा भगवान्ब्रह्मा सह तैर्देवदानवैः ॥
जगाम तद्वनोद्देशं यत्रास्ते वृषभध्वजः
॥६९॥प्रहृष्टमनसः सर्वे कोकिलालापलापिताम् ॥
पुष्पोच्चयोक्षितां सीमां विविशुः शंकरेप्सवः
॥७०॥संप्राप्तं सर्वमेतैस्तद्वनं नंदनसंमितम् ॥
सुवल्लीगृहशोभाढ्यं सुदृढं शुशुभे तदा
॥७१॥दृष्ट्वा तद्वनमुत्तमं तनुभृतामाह्रादकं चेतसां नानासत्फलपुष्पपादपवनैरासेवितं सर्वतः ॥
तस्मिन्बर्हिणहंससारसकुलै र्मंडूकमत्स्यैर्युते द्रक्ष्यामो हरमत्र चेतसि सुराः प्रापुर्मुदं ते तदा
॥७२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये देवागमनवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥